अग्नि पुराण · अध्याय 319
:ए इत्य् आग्नेये महापुराणे वागीश्वरीपूजा
नामाष्टादशाधिकत्रिशततमो ऽध्यायः
% छप्तेर् {319}
:श् अथोनविंशत्यधिकत्रिशततमो ऽध्यायः
मण्डलानि
ईश्वर उवाच
सर्वतो भद्रकान्यष्टमण्डलानि वदे गुह ।अप्_319.001अब्।
शक्तिमासाधयेत् प्राचीमिष्टायां विषुवे सुधीः
चित्रास्वात्यन्तरेणाथ दृष्टसूत्रेण वा पुनः ।अप्_319.002अब्।
पूर्वापरायतं सूत्रमास्फाल्य मध्यतो ऽङ्कयेत्
:न्
1 द्विपर्णकमिति ख..
:प् 162
कोटिद्वयन्तु तन्मध्यादङ्कयेद्दक्षिणोत्तरम् ।अप्_319.003अब्।
मध्ये द्वयं प्रकर्तव्य स्फालयेद्दक्षिनोत्तरम्
शतक्षेत्रार्धमानेन कोणसम्पातमादिशेत् ।अप्_319.004अब्।
एवं सूत्रचतुष्कस्य स्फालनाच्चतुरस्रकम्
जायते तत्र कर्तव्यं भद्रस्वेदकरं शुभम् ।अप्_319.005अब्।
वसुभक्तेन्दु द्विपदे क्षेत्रे वीथी च भागिका
द्वारं द्विपदिकं पद्ममानाद्धै सकपोलकम् ।अप्_319.006अब्।
कीणबन्धविचित्रन्तु द्विपदं तत्र वर्तयेत्
शुक्लं पद्मं कर्णिका तु पीता चित्रन्तु केशरम् ।अप्_319.007अब्।
रक्ता वीथी तत्र कल्प्या द्वारं लोकेशरूपकं
रक्तकोणं विधौ नित्ये नैमित्तिकाब्जकं शृणु ।अप्_319.008अब्।
असंसक्तन्तु संसक्तं द्विधाब्जं भुक्तिमुक्तिकृत्
असंसक्तं मुमुक्षूणां संसक्तं तत्त्रिधा पृथक् ।अप्_319.009अब्।
बालो युवा च वृद्धश् च नामतः फलसिद्धिदाः
पद्मक्षेत्रे तु सूत्राणि दिग्विदिक्षु विनिक्षिपेत् ।अप्_319.010अब्।
वृत्तानि पञ्चकल्पानि पद्मक्षेत्रसमानि तु
प्रथमे कर्णिका तत्र पुष्करैर् नवभिर्युता ।अप्_319.011अब्।
केशराणि चतुर्विंशद्वितीये ऽथ तृतीयके
दलसन्धिर्गजकुम्भ निभान्तर्यद्दलाग्रकम् ।अप्_319.012अब्।
पञ्चमे व्योमरूपन्तु संसक्तं कमलं स्मृतं
असंसक्ते दलाग्रे तु दिग्भागैर् विस्तराद्भजेत् ।अप्_319.013अब्।
भागद्वयपरित्यागाद्वस्वंशैर् वर्तयेद्दलम्
सन्धिविस्तरसूत्रेण तन्मूलादञ्जयेद्दलम् ।अप्_319.014अब्।
:प् 163
सव्यासव्यक्रमेणैव वृद्धमेतद्भवेत्तथा
अथ वा सन्धिमध्यात्तु भ्रामयेदर्धचन्द्रवत् ।अप्_319.015अब्।
सन्धिद्वयाग्रसूत्रं वा बालपद्मन्तथा भवेत्
सन्धिसूत्रार्धमानेन पृष्ठतः परिवर्तयेत् ।अप्_319.016अब्।
तीक्ष्णाग्रन्तु सुवातेन कमलं भुक्तिमुक्तिदम्
भुक्तिवृद्धौ च वश्यादौ बालं पद्मं समानकं ।अप्_319.017अब्।
नवनाभं नवहस्तं भागैर् मन्त्रात्मकैश् च तत्
मध्ये ऽब्जं पट्टिकावीजं द्वारेणाब्जस्य मानतः ।अप्_319.018अब्।
कण्ठोपकण्ठमुक्तानि तद्वाह्ये वीथिका मता
पञ्चभागान्विता(1) सा तु समन्ताद्दशभागिका ।अप्_319.019अब्।
दिग्विदिक्ष्वष्ट पद्मानि द्वारपद्मं सवीथिकम्
तद्वाह्ये पञ्च पदिका वीथिका यत्र भूषिता ।अप्_319.020अब्।
पद्मवद्द्वारकण्ठन्तु पदिकञ्चौष्ठकण्ठकं
कपोलं पदिकं कार्यं दिक्षु द्वारत्रयं स्पुटम् ।अप्_319.021अब्।
कोणबन्धं त्रिपत्तन्तु द्विपट्टं वज्रवद्भवेत्
मध्यन्तु कमलं शुक्लं पीतं रक्तञ्च नीलकम् ।अप्_319.022अब्।
पीतशुक्लञ्च धूम्रञ्च रक्तं पीतञ्च मुक्तिदम्
पूर्वादौ कमलान्यष्ट शिवविष्ण्वादिकं जपेत् ।अप्_319.023अब्।
प्रासादमध्यतो ऽभ्यर्च्य शक्रादीनब्जकादिषु
अस्त्राणि वाह्यवीथ्यान्तु विष्ण्वादीनश्वमेघभाक् ।अप्_319.024अब्।
पवित्रारोहणादौ च महामण्डलमालिखेत्
अष्टहस्तं पुरा क्षेत्रं रसपक्षैर् विवर्तयेत् ।अप्_319.025अब्।
:न्
1 पञ्चभागमितेति ख.. , छ.. च
:प् 164
द्विपदं कमलं मध्ये वीथिका पदिका ततः
दिग्विदिक्षु ततो ऽष्टौ च नीलाब्जानि विवर्तयेत् ।अप्_319.026अब्।
मध्यपद्मप्रमाणेन त्रिंशत्पद्मानि तानि तु
दलसन्धिविहीनानि नीलेन्दीवरकानि च ।अप्_319.027अब्।
तत्पृष्ठे पदिका वीथी स्वस्तिकानि तदूर्ध्वतः
द्विपदानि तथा चाष्टौ कृतिभागकृतानि तु ।अप्_319.028अब्।
वर्तयेत् स्वस्तिकांस्तत्र वीथिका पूर्ववद्वहिः
द्वाराणि कमलं यद्वदुपकण्ठ्युतानि(1) तु ।अप्_319.029अब्।
रक्तं कोणं पीतवीथी नीलं पद्मञ्चमण्डले
स्वस्तिकादि विचित्रञ्च सर्वकामप्रदं गुह ।अप्_319.030अब्।
पञ्चाब्जं पञ्चहस्तं स्यात् समन्ताद्दशभाजितम्
द्विपदं कमलं वीथी पट्टिका दिक्षु पङ्कजम् ।अप्_319.031अब्।
चतुष्कं पृष्ठतो वीथी पदिका द्विपदान्यथा
कण्ठोपकण्ठयुक्तानि द्वारान्यब्जन्तु मध्यतः ।अप्_319.032अब्।
पञ्चाब्जमण्डले ह्य् अस्मिन् सितं पीतञ्च पूर्वकम्
वैदूर्याभं दक्षिणाब्जं कुन्दाभं वारुणं कजम् ।अप्_319.033अब्।
उत्तराब्जन्तु शङ्खाभमन्यत् सर्वं विचित्रकम्
सर्वकामप्रदं वक्ष्ये दशहस्तन्तु मण्डलम् ।अप्_319.034अब्।
विकारभक्तन्तुर्याश्रं द्वारन्तु द्विपदं भवेत्
मध्ये पद्मं पूर्ववच्च विघ्नध्वंसं वदाम्यथ ।अप्_319.035अब्।
चतुर्हस्तं पुरं कृत्वा वृत्रञ्चैव करद्वयम्
वीथीका हस्तमात्रन्तु स्वस्तिकैर् वहुभिर्वृता ।अप्_319.036अब्।
:न्
1 तद्वदुपकण्ठयुतानीति ख.. , ञ.. च
:प् 165
हस्तमात्राणि द्वाराणि विक्षु वृत्तं सपद्मकम्
पद्मानि पञ्च शुक्लानि मध्ये पूज्यश् च निष्कलः ।अप्_319.037अब्।
हृदयादीनि पूर्वादौ विदिक्ष्वस्त्राणि वै यजेत्
प्राग्वच्च पञ्च ब्रह्माणि बुद्ध्याधारमतो वदे ।अप्_319.038अब्।
शतभागे तिथिभागे पद्मं लिङ्गाष्टकं दिशि
मेखलाभागसंयुक्तं कण्ठं द्विपदिकं भवेत् ।अप्_319.039अब्।
आचार्यो बुद्धिमाश्रित्य कल्पयेच्च लतादिकम्
चतुःषट्पञ्चमाष्टादि खाछिखाद्यादि मण्डलम् ।अप्_319.040अब्।
खाक्षीन्दुसूर्यगं सर्वं खाक्षि चैवेन्दुवर्णनात्
चत्वारिंशदधिकानि चतुर्दशशतानि हि ।अप्_319.041अब्।
मण्डलानि हरेः शम्भोर्देव्याः सूर्यस्य सन्ति च
दशसप्तविभक्ते तु लतालिङ्गोद्भवं शृणु ।अप्_319.042अब्।
दिक्षु पञ्चत्रयञ्चैकं त्रयं पञ्च च लोमयेत्(1)
ऊर्ध्वगे द्विपदे लिङ्गमन्दिरं पार्श्वकोष्ठयोः ।अप्_319.043अब्।
मध्येन द्बिपदं पद्ममथ चैकञ्च पङ्कजं
लिङ्गस्य पार्श्वयोर्भद्रे पदद्वारमलोपनात् ।अप्_319.044अब्।
तत्पार्श्वशोभाः षड्लोप्य लताः शेषास् तथा हरेः
ऊर्ध्वं द्विपदिकं लोप्य हरेर्भद्राष्टकं स्मृतम् ।अप्_319.045अब्।
रश्मिमानसमायुक्तवेदलोपाच्च शोभिकम्
पञ्चविंशतिकं पद्मं ततः पीठमपीठकम् ।अप्_319.046अब्।
द्वयं द्वयं रक्षयित्वा उपशोभास् तथाष्ट च
देव्यादिख्यापकं भद्रं वृहन्मध्ये परं लघु ।अप्_319.047अब्।
:न्
1 लोपयेदिति ञ.. । लोपयेदिति ट
:प् 166
मध्ये नवपदं पद्मं कोणे भद्रचतुष्टयम्
त्रयोदशपदं शेषं बुद्ध्याधारन्तु मण्डलं ।अप्_319.048अब्।
शतपत्रं षष्ट्यधिकं बुद्ध्याधारं हरादिषु
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0