भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 320

320.001

:ए इत्य् आग्नेये महापुराणे मण्डलानि
नामोनविंशत्यधिकत्रिशततमो ऽध्यायः
% छप्तेर् {320}
:श् अथ विंशत्यधिकत्रिशततमो ऽध्यायः
अघीरास्त्रादिशान्तिकल्पः
ईश्वर उवाच
अस्त्रयागः पुरा कार्यः सर्वकर्मसु सिद्धिदः ।अप्_320.001अब्।
मध्ये पूज्यं शिवाद्यस्त्रं वज्रादीन् पूर्वतः क्रमात्

320.002

पञ्चचक्रं दशकरं रणादौ पूजितं जये ।अप्_320.002अब्।
ग्रहपूजा रविर्मध्ये पूर्वाद्याः सोमकादयः

320.003

सर्व एकादशस्थास्तु ग्रहाः स्युः ग्रहपूजनात् ।अप्_320.003अब्।
अस्त्रशान्तिं प्रवक्ष्यामि सर्वोत्पातविनाशिनीं

320.004

ग्रहरोगादिशमनीं मारीशत्रुविमर्दनीं ।अप्_320.004अब्।
विनायकोपतप्तिघ्नमघोरास्त्रं जपेन्नरः

320.005

लक्षं ग्रहादिनाशः स्यादुत्पाते तिलहोमनम् ।अप्_320.005अब्।
दिव्ये लक्षं तदर्धेन व्योमजोत्पातनाशनं

320.006

घृतेन लक्षपातेन उत्पाते भुमिजे हितम् ।अप्_320.006अब्।
घृतगुग्गुलुहोमे च सर्वोत्पातादिमर्दनम्

320.007

:प् 167
दूर्वाक्षताज्यहोमेन व्याधयो ऽथ घृतेन च ।अप्_320.007अब्।
सहस्रेण तु दुःखस्वप्ना विनशन्ति न संशयः

320.008

अयुताद् ग्रहदोषघ्नो जवाघृतविमिश्रितात् ।अप्_320.008अब्।
विनायकार्तिशमनमयुतेन घृतस्य च

320.009

भूतवेदालशान्तिस्तु गुग्गुलोरयुतेन च ।अप्_320.009अब्।
महावृक्षस्य भङ्गेतु व्यालकङ्के(1) गृहे स्थिते

320.010

आरण्यानां प्रवेशे दूर्वाज्याक्षतहावनात् ।अप्_320.010अब्।
उल्कापाते भूमिकम्पे तिलाज्येनाहुताच्छिवम्

320.011

रक्तस्रावे तु वृक्षाणामयुताद् गुग्गुलोः शिवं ।अप्_320.011अब्।
अकाले फलपुष्पाणां राष्ट्रभङ्गे च मारणे

320.012

द्विपदादेर्यदा मारि लक्षार्धाच्च तिलाज्यतः ।अप्_320.012अब्।
हस्तिमारीप्रशान्त्यर्थं करिणीदन्तवर्धने

320.013

हस्तिन्यां मददृष्टौ च अयुताच्छान्तिरिष्यते ।अप्_320.013अब्।
अकाले गर्भपाते तु जातं यत्र विनश्यति

320.014

विकृता यत्र जायन्ते यात्राकाले ऽयुतं हुनेत् ।अप्_320.014अब्।
तिलाज्यलक्षहोमन्तु उत्तमासिद्धिसाधने

320.015

मध्यमायां तदर्धेन तत्पादादधमासु च ।अप्_320.015अब्।
यथा जपस् तथा होमः संग्रामे विजयो भवेत् ।अप्_320.015च्द्।
अघोरास्त्रं जपेन्न्यस्य ध्यात्वा पञ्चास्यमूर्जितम्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc