अग्नि पुराण · अध्याय 318
:ए इत्य् आग्नेये महापुराणे गणपूजा नाम सप्तदशाधिकत्रिशततमो
ऽध्यायः
% छप्तेर् {318}
:श् अथाष्टादशाधिकत्रिशततमो ऽध्यायः
वागीश्वरीपूजा
ईश्वर उवाच
वागीश्वरीपूजनञ्च प्रवदामि समण्डलम् ।अप्_318.001अब्।
ऊहकं कालसंयुक्तं मनुं वर्णसमायुतम्(1)
निषाद ईश्वरं कार्यं मनुना चन्द्रसूर्यवत् ।अप्_318.002अब्।
अक्षरन्न हि देयं स्यात् ध्यायेत् कुन्देन्दुसन्निभां
पञ्चाशद्वर्णमालान्तु मुक्तास्रग्दामभूषिताम् ।अप्_318.003अब्।
वरदाभयाक्षसूत्रपुस्तकाढ्यां त्रिलोचनां
लक्षं जपेन्मस्तकान्तं स्कन्धान्तं वर्णमालिकां ।अप्_318.004अब्।
अकारादिक्षकारान्तां विशन्तीं मानवत् स्मरेत्
कुर्याद् गुरुश् च दीक्षार्थं मन्त्रग्राहे तु मण्डलम् ।अप्_318.005अब्।
सूर्याग्रमिन्दुभक्तन्तु भागाभ्यां कमलं हितं(2)
:न्
1 चन्द्रमसायुतमिति ञ..
2 कृतमिति ख..
:प् 161
वीथिका पदिका कर्या पद्मान्यष्टौ चतुष्पदे ।अप्_318.006अब्।
वीथिका पदिका वाह्ये द्वाराणि द्विपदानि तु
उपद्वाराणित द्वच्च कोणबान्धं द्विपट्टिकम्(1) ।अप्_318.007अब्।
सिदानि नव पद्मानि कर्णिका कनकप्रभा
केशराणि विचित्राणि कोणान्रक्तेन पूरयेत् ।अप्_318.008अब्।
व्योमरेखान्तरं कृष्णं द्वाराणीन्द्रेभमानतः
मध्ये सरस्वतीं पद्मे वागीशी पूर्वपद्मके ।अप्_318.009अब्।
हृल्लेखा चित्रवागीशी गायत्री विश्वरूपया
शाङ्करी मतिर्धृतिश् च पूर्वाद्या ह्रीं स्ववीजकाः ।अप्_318.010अब्।
ध्येया सरस्वतीवच्च कपिलाज्येन होमकः ।अप्_318.010च्द्।
संस्कृतप्राकृतकविः काव्यशास्त्रादिविद्भवेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0