अग्नि पुराण · अध्याय 31
:ए इत्य् आदिमहापुराणे आग्नेये मण्डलादिवर्णनं नाम त्रिंशो
ऽध्यायः
% छप्तेर् {31}
:श् अथ एकत्रिंशो ऽध्यायः
मार्जनविधानं
अग्निर् उवाच
रक्षां स्वस्य परेषाञ्च वक्ष्ये तां मार्जनाह्वयां ।अप्_31.001अब्।
यया विमुच्यते दुःखैः सुखञ्च प्राप्नुयान्नरः(2)
ओं नमः परमार्थाय पुरुषाय महात्मने ।अप्_31.002अब्।
अरूपबहुरूपाय व्यापिने परमात्मने
निष्कल्मषाय शुद्धाय ध्यानयोगरताय च ।अप्_31.003अब्।
नमस्कृत्य प्रवक्ष्यामि यत् तत्सिध्यतु मे वचः
वराहाय नृसिंहाय वामनाय महामुने ।अप्_31.004अब्।
नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः
:न्
1 मन्त्रजं फलमश्नुते इति ख, चिह्नितपुस्तकपाठः
2 सुखं ब्रह्माप्नुयान्नरः इति ख, चिह्नितपुस्तकपाठः
:प् 87
त्रिविक्रमाय रामाय वैकुण्ठाय नराय च ।अप्_31.005अब्।
नमस्कृत्य प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः
वराह नरसिंहेश वामनेश त्रिविक्रम ।अप्_31.006अब्।
हरग्रीवेश सर्वेश हृषीकेश हराशुभम्
अपराजितचक्राद्यैश् चतुर्भिः परमायुधैः ।अप्_31.007अब्।
अखण्डितानुभावैस्त्वं(1) सर्वदुष्टहरो भव
हरामुकस्य दुरितं सर्वञ्च कुशलं कुरु ।अप्_31.008अब्।
मृत्युबन्धार्तभयदं दुरितस्य च यत् फलम्
पराभिध्यानसहितैः प्रयुक्तञ्चाभिचारकम् ।अप्_31.009अब्।
गदस्पर्शमहारोगप्रयोगं जरया जर
ओं नमो वासुदेवाय नमः कृष्णाय खड्गिने ।अप्_31.010अब्।
नमः पुष्करनेत्राय केशवायादिचक्रिणे
नमः कमलकिञ्जल्कपीतनिर्मलवाससे ।अप्_31.011अब्।
महाहररिपुस्कन्धसृष्टचक्राय चक्रिणे
द्ंष्ट्रोद्धृतक्षितिभृते(2) त्रयीमूर्तिमते नमः ।अप्_31.012अब्।
महायज्ञवराहाय शेषभोगाङ्कशायिने
तप्तहाटककेशाग्रज्वलत्पावकलोचन ।अप्_31.013अब्।
वज्राधिकनखस्पर्शं दिव्यसिंह नमोस्तु ते
काश्यपायातिह्रस्वाय ऋग्यजुःसामभूषित ।अप्_31.014अब्।
तुभ्यं वामनरूपायाक्रमते गां(3) नमो नमः
वराहाशेषदुष्टानि सर्वपापफलानि वै ।अप्_31.015अब्।
मर्द मर्द महादंष्ट्र मर्द मर्द च तत्फलम्
:न्
1 अखण्डितात्मभावैस्त्वमिति ख, चिह्नितपुस्तकपाठः
2 दंष्ट्रोद्धृतभूमिभर्त्रे इति ख, चिह्नितपुस्तकपाठः
3 सृजते गामिति ख, चिह्नितपुस्तकपाठः
:प् 88
नरसिंह करालाख्य दन्तप्रान्तानलोज्ज्वल ।अप्_31.016अब्।
भञ्ज भञ्ज निनादेन दुष्टान्यस्यार्तिनाशन
ऋग्यजुःसामगर्भाभिर्वाग्भिर्वामनरूपधृक् ।अप्_31.017अब्।
प्रशमं सर्वदुःखानि नयत्त्वस्य जनार्दनः
ऐकाहिकं द्व्याहिकञ्च तथा त्रिदिवसं ज्वरम् ।अप्_31.018अब्।
चातुर्थकन्तथात्युग्रन्तथैव सततज्वरम्
दोषोत्थं सन्निपातोत्थं तथैवागन्तुकं ज्वरम् ।अप्_31.019अब्।
शमं नयाशु गोविन्द च्छिन्धि च्छिन्ध्यस्य वेदनाम्(1)
नेत्रदुःखं शिरोदुःखं दुःखञ्चोदरसम्भवम् ।अप्_31.020अब्।
अन्तःश्वासमतिश्वासं(2) परितापं सवेपथुम्
गुदघ्राणाङ्घ्रिरोगांश् च कुष्ठरोगांस् तथा क्षयं(3) ।अप्_31.021अब्।
कामलादींस् तथा रोगान् प्रमेहांश्चातिदारुणान्
भगन्दरातिसारांश् च मुखरोगांश् च वल्गुलीम् ।अप्_31.022अब्।
अश्मरीं मूत्रकृच्छ्रांश् च रोगानन्यांश् च दारुणान्
ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः ।अप्_31.023अब्।
कफोद्भवाश् च ये केचित् ये चान्ये सान्निपातिकाः
आगन्तुकाश् च ये रोगा लूता विस्फोटकादयः ।अप्_31.024अब्।
ते सर्वे प्रशमं यान्तु वासुदेवापमार्जिताः(5)
विलयं यान्तु ते सर्वे विष्णोरुच्चारणेन च ।अप्_31.025अब्।
क्षयं गछ्हन्तु चाशेषास्ते चक्राभिहता हरेः
:न्
1 छिन्द छिन्दास्य वेदनामिति ग, चिह्नितपुस्तकपाठः
2 अनिश्वासमतिश्वासमिति ग, चिह्नितपुस्तकपाठः
3 तथैव च इति ग, चिह्नितपुस्तकपाठः
4 ये रोगाः पित्तसम्भवा इति ग, चिह्नितपुस्तकपाठः
5 वासुदेवपराजिता इति ख, चिह्नितपुस्तकपाठः
:प् 89
अच्युतानन्तगोविन्दनामोच्चारणभीषिताः ।अप्_31.026अब्।
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम्
स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम् ।अप्_31.027अब्।
दन्तोद्भवं नखभवमाकाशप्रभवं विषम्
लूतादिप्रभवं यच्च विषमन्यत्तु दुःखदं ।अप्_31.028अब्।
शमं नयतु तत् सर्वं कीर्तितोस्य जनार्दनः
ग्रहान् प्रेतग्रहांश्चापि तथा वै डाकिनीग्रहान्(1) ।अप्_31.029अब्।
वेतालांश् च पिशाचांश् च गन्धर्वान् यक्षराक्षसान्(2)
शकुनीपूतनाद्यांश् च तथा वैनायकान् ग्रहान् ।अप्_31.030अब्।
मुखमण्डीं तथा क्रूरां रेवतीं वृद्धरेवतीम्
वृद्धकाख्यान् ग्रहांश्चोग्रांस् तथा मातृग्रहानपि ।अप्_31.031अब्।
बालस्य विष्णोश् चरितं हन्तु बालग्रहानिमान्
वृद्धाश् च ये ग्रहाः केचिद्ये च बालग्रहाः क्वचित् ।अप्_31.032अब्।
नरसिंहस्य ते दृष्ट्या दग्धा ये चापि यौवने
सदा(3) करालवदनो नरसिंहो महाबलः ।अप्_31.033अब्।
ग्रहानशेषान्निःशेषान् करोतु जगतो हितः
नरसिंह महासिंह ज्वालामालोज्ज्वलानन ।अप्_31.034अब्।
ग्रहानशेषान् सर्वेश खाद खादाग्निलोचन
ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः ।अप्_31.035अब्।
यानि च क्रूरभृतानि ग्रहपीडाश् च दारुणाः
शस्त्रक्षतेषु ये दोषा ज्वालागर्दभकादयः ।अप्_31.036अब्।
तानि सर्वाणि सर्वात्मा परमात्मा जनार्दनः
:न्
1 तथा वेतालिकान् ग्रहानिति घ, चिह्नितपुस्तकपाठः
2 गन्धर्वान् राक्ससानपि इति ख, चिह्नितपुस्तकपाठः
3 शटा इति ख, ङ, चिह्नितपुस्तकद्वयपाठः
:प् 90
किञ्चिद्रूपं समास्याय वासुदेवास्य नाशय ॥37
क्षिप्त्वा सुदर्शनञ् चक्रं ज्वालामालातिभीषणम् ।अप्_31.038अब्।
सर्वदुष्टोपशमनं कुरु देववराच्युत
सुदर्शन महाज्वाल च्छिन्धि च्छिन्धि महारव(1) ।अप्_31.039अब्।
सर्वदुष्टानि रक्षांसि क्षयं यान्तु विभीषण
प्राच्यां प्रतीच्यां च दिशि दक्षिणोत्तरतस् तथा ।अप्_31.040अब्।
रक्षाङ्करोतु सर्वात्मा नरसिंहः सुगर्जितः(2)
दिवि भुव्यन्तरीक्षे च पृष्ठतः पार्श्वतोग्रतः ।अप्_31.041अब्।
रक्षाङ्करोतु भगवान् बहुरूपी जनार्दनः
यथा विष्णुर्जगत्सर्वं सदेवासुरमानुषं ।अप्_31.042अब्।
तेन सत्येन दुष्टानि शममस्य व्रजन्तु वै(3)
यथा विष्णौ स्मृते सद्यः सङ्क्षयं यान्ति पातकाः ।अप्_31.043अब्।
सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु
परमात्मा यथा विष्णुर्वेदान्तेषु च गीयते ।अप्_31.044अब्।
तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु
यथा यज्ञेश्वरो विष्णुर्देवेष्वपि हि गीयते ।अप्_31.045अब्।
सत्येन तेन सकलं यन्मयोक्तं तथास्तु तत्
शान्तिरस्तु शिवञ्चास्तु दुष्टमस्य प्रशाम्यतु ।अप्_31.046अब्।
वासुदेवशरीरोत्थैः कुशैर् निर्मथितं मया(4)
अपमार्जतु गोविन्दो नरो नारायणस् तथा ।अप्_31.047अब्।
तथास्तु सर्वदुःखानां प्रशमो जपनाद्धरेः
:न्
1 महाबल इति ख, चिह्नितपुस्तकपाठः
2 स्वर्गर्जितैर् इति ग, ङ, चिह्नितपुस्तकद्वयपाठः
3 प्रयान्तु वै इति ग, चिह्नितपुस्तकपाठः
4 कुशैर् निर्णाशितमिति ख, ग, चिह्नितपुस्तकद्वयपाठः
:प् 91
अपमार्जनकं शस्त्रं सर्वरोगादिवारणम् ।अप्_31.048अब्।
अयं हरिः कुशो विष्णुर्हता रोगा मया तव
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0