भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 29

29.001

:ए इत्य् आदिमहापुराणे आग्नेये आचार्याभिषेको नाम
अष्टाविंशो ऽध्यायः
% छप्तेर् {29}
:श् अथ ऊनत्रिंशो ऽध्यायः
सर्वतोभद्रमण्डलकथनं
नारद उवाच
साधकः साधयेन्मन्त्रं देवतायतनादिके ।अप्_29.001अब्।
शुद्धभूमौ गृहे प्रार्च्य मण्डले हरिमीश्वरं

29.002

चतुरस्त्रीकृते क्षेत्रे मण्डलादीनि वै लिखेत् ।अप्_29.002अब्।
रसवाणाक्षिकोष्ठेषु सर्वतोभद्रमालिखेत्

29.003

षट्त्रिंशत्कोष्ठकैः पद्मं पीठं पङ्क्त्यावहिर्भवेत् ।अप्_29.003अब्।
द्वाभ्यान्तु वीथिका तस्माद् द्वाभ्यां द्वाराणि दिक्षु च

29.004

:प् 79
वर्तुलं भ्रामयित्वा तु पद्मक्षेत्रं पुरोदितम् ।अप्_29.004अब्।
पद्मार्धे भामयित्वा तु भागं द्वादशमं वहिः

29.005

विभज्य भ्रामयेच्छेषं चतुःक्षेत्रन्तु वर्तुलं ।अप्_29.005अब्।
प्रथमं कर्णिकाक्षेत्रं केशराणां द्वितीयकम्

29.006

तृतीयं दलसन्धीनां दलाग्राणां चतुर्थकम् ।अप्_29.006अब्।
प्रसार्य कोणसूत्राणि कोणदिङ्मध्यमन्ततः

29.007

निधाय केशराग्रे तु दलसन्धींस्तु लाञ्छयेत् ।अप्_29.007अब्।
पातयित्वाथ सूत्राणि तत्र पत्राष्टकं लिखेत्

29.008

दलसन्ध्यन्तरालन्तु मानं मध्ये निधाय तु ।अप्_29.008अब्।
दलाग्रं भ्रामयेत्तेन तदग्रं तदनन्तरं

29.009

तदन्तरालं तत्पार्श्वे कृत्वा वाह्यक्रमेण च ।अप्_29.009अब्।
केशरे तु लिखेद्द्वौ द्वौ दलमध्ये ततः पुनः

29.010

पद्मलक्ष्मैतत् सामान्यं द्विषट्कदलमुच्यते ।अप्_29.010अब्।
कर्णिकार्धेन मानेन प्राक्संस्थं भ्रामयेत् क्रमात्

29.011

तत्पार्श्वे भ्रमयोगेन कुण्डल्यः षड् भवन्ति हि ।अप्_29.011अब्।
एवं द्वादश मत्स्याः स्युर्द्विषट्कदलकञ्च तैः

29.012

पञ्चपत्राभिसिद्ध्यर्थं मत्स्यं कृत्वैवमब्जकम् ।अप्_29.012अब्।
व्योमरेखावहिः पीठन्तत्र कोष्टानि मार्जयेत्

29.013

त्रीणि कोणेषु पादार्थं द्विद्विकान्यपराणि तु ।अप्_29.013अब्।
चतुर्दिक्षु विलिप्तानि गात्रकाणि भवन्त्युत

29.014

ततः पङ्क्तिद्वयं दिक्षु वीठ्यर्थन्तु विलोपयेत्(1) ।अप्_29.014अब्।
द्वाराण्याशासु कुर्वीत चत्वारि चतसृष्वपि

29.015

द्वाराणां पार्श्वतः शोभा अष्टौ कुर्याद्विचक्षणः ।अप्_29.015अब्।
:न्
1 पङ्क्तिद्वयं द्वयं दिक्षु वीथ्यर्थं विनियोजयेदिति ङ,
चिह्नितपुस्तकपाठः
:प् 80
तत्पार्श्व उपशोभास्तु तावत्यः परिकीर्तिताः

29.016

समीप उपशोभानां कोणास्तु परिकीर्तिताः(1) ।अप्_29.016अब्।
चतुर्दिक्षु ततो द्वे द्वे चिन्तयेन्मध्यकोष्ठकैः

29.017

चत्वारि वाह्यतो मृज्यादेकैकं पार्श्वयोरपि ।अप्_29.017अब्।
शोभार्थं पार्श्वयोस्त्रीणि त्रीणि लुम्पद्दलस्य तु

29.018

तद्वद्विपर्यये कुर्यादुपशोभां ततः परम् ।अप्_29.018अब्।
कोणस्यान्तर्वहिस्त्रीणि चिन्तयेद्द्विर्विभेदतः

29.019

एवं षोडशकोष्ठं स्यादेवमन्यत्तु मण्डलम् ।अप्_29.019अब्।
द्विषट्कभागे षट्त्रिंशत्पदं पद्मन्तु वीथिका

29.020

एका पङ्क्तिः प्राभ्यां तु द्वारशोभादि पूर्ववत् ।अप्_29.020अब्।
द्वादशाङ्गुलिभिः पद्ममेकहस्ते तु मण्डले

29.021

द्विहस्ते हस्तमात्रं स्याद्वृद्ध्या द्वारेण वाचरेत् ।अप्_29.021अब्।
अपीठञ्चतुरस्रं स्याद्विकरञ्चक्रपङ्कजम्

29.022

पद्मार्धं नवभिः प्रोक्तं नाभिस्तु तिसृभिः स्मृता ।अप्_29.022अब्।
अष्टाभिर्द्वारकान् कुर्यान्नेमिन्तु चतुरङ्गुलैः

29.023

त्रिधा(2) विभज्य च क्षेत्रमन्तर्द्वाभ्यामथाङ्कयेत् ।अप्_29.023अब्।
पञ्चान्तस्वरसिद्ध्यर्थं(3) तेष्वस्फाल्य लिखेदरान्

29.024

इन्दीवरदलाकारानथवा मातुलाङ्गवत् ।अप्_29.024अब्।
पद्मपत्रायतान्वापि लिखेदिच्छानुरूपतः

29.025

भ्रामयित्वा वहिर् नेमावरसन्ध्यन्तरे स्थितः ।अप्_29.025अब्।
भ्रामयेदरमूलन्तु सन्धिमध्ये व्यवस्थितः

29.026

:न्
1 परिमार्जिता इति घ, चिह्नितपुस्तकपाठः
2 द्विधा इति ख, चिह्नितपुस्तकपाठः
3 पञ्चान्तरस्त्वसिद्ध्यर्थमिति ख, चिह्नितपुस्तकपाठः पञ्चोत्तरस्तु
सिद्ध्यर्थमिति ङ, चिह्नितपुस्तकपाठः
:प् 81
अरमध्ये स्थितो मधमरणिं भ्रामयेत् समम् ।अप्_29.026अब्।
एवं सिद्ध्यन्तराः सम्यक् मातुलाङ्गनिभाः समाः

29.027

विभज्य सप्तधा क्षेत्रं चतुर्दशकरं समम् ।अप्_29.027अब्।
द्विधा कृते शतं ह्य् अत्र षण्नवत्यधिकानि तु

29.028

कोष्टकानि चतुर्भिस्तैर् मध्ये भद्रं समालिखेत् ।अप्_29.028अब्।
परितो विसृजेद्वीथ्यै तथा दिक्षु समालिखेत्

29.029

कमलानि पुनर्वीथ्यै परितः परिमृज्य तु ।अप्_29.029अब्।
द्वे द्वे मध्यमकोष्ठे तु ग्रीवार्थं दिक्षु लोपयेत्

29.030

चत्वारि वाह्यतः पश्चात्त्रीणि त्रीणि तु लोपयेत् ।अप्_29.030अब्।
ग्रीवापार्श्वे वहिस्त्वेका शोभा सा परिकीर्तिता

29.031

विमृज्य वाह्यकोणेषु सप्तान्तस्त्रीणि मार्जयेत् ।अप्_29.031अब्।
मण्डलं नवभागं स्यान्नवव्यूहं हरिं यजेत्

29.032

पञ्चविंशतिकव्यूहं मण्डलं विश्वरूपगं ।अप्_29.032अब्।
द्वात्रिंशद्धस्तकं क्षेत्रं भक्तं द्वात्रिंशता समं

29.033

एवं कृते चतुर्विंशत्यधिकन्तु सहस्रकं ।अप्_29.033अब्।
कोष्ठकानां समुद्दिष्टं मध्ये शोडशकोष्ठकैः

29.034

भद्रकं परिलिख्याथ पार्श्वे पङ्क्तिं विमृज्य तु ।अप्_29.034अब्।
ततः षोडशभिः कोष्टैर् दिक्षु भद्राष्टकं लिखेत्(1)

29.035

ततोपि पङ्क्तिं सम्मृज्य तद्वत् षोडशभद्रकं ।अप्_29.035अब्।
लिखित्वा परितः पङ्क्तिं विमृज्याथ प्रकल्पयेत्

29.036

द्वारद्वादशकं दिक्षु त्रीणि त्रीणि यथाक्रमं ।अप्_29.036अब्।
षड्भिः परिलुप्यान्तर्मध्ये चत्वारि पार्श्वयोः

29.037

चत्वार्यन्तर्वहिर्द्वे तु शोभार्थं परिमृज्य तु ।अप्_29.037अब्।
उपद्वारसिद्ध्यर्थं त्रीण्यन्तः पञ्च वाह्यतः

29.038

:न्
1 दिक्षु तत्राष्टकं लिखेदिति ख, ग, घ,
चिह्नितपुस्तकपाठः
:प् 82
परिमृज्य तथा शोभां पूर्ववत् परिकल्पयेत् ।अप्_29.038अब्।
वहिः कोणेषु सप्तान्तस्त्रीणि कोष्ठानि मार्जयेत्

29.039

पञ्चविंशतिकव्यूहे परं ब्रह्म यजेत् कजे(1) ।अप्_29.039अब्।
मध्ये पूर्वादितः पद्मे वासुदेवादयः क्रमात्

29.040

वराहं पूजयित्वा च पूर्वपद्मे ततः क्रमात् ।अप्_29.040अब्।
व्यूहान् सम्पूजयेत्तावत् यावत् षड्विंशमो भवेत्

29.041

यथोक्तं व्यूहमखिलमेकस्मिन् पङ्कजे क्रमात् ।अप्_29.041अब्।
यष्टव्यमिति यत्नेन(2) प्रचेता मन्यते ऽध्वरं(3)

29.042

सत्पन्तु मूर्तिभेदेन विभक्तं मन्यते ऽच्युतं ।अप्_29.042अब्।
चत्वारिंशत् करं क्षेत्रं ह्य् उत्तरं(4) विभजेत् क्रमात्

29.043

एकैकं सप्तधा भूयस्तथैवैकं द्विधा पुनः ।अप्_29.043अब्।
चतुःषष्ट्युत्तरं सप्तशतान्येकं सहस्रकं

29.044

कोष्ठकानां भद्रकञ्च मध्ये षोडशकोष्ठकैः ।अप्_29.044अब्।
पार्श्वे वीथीं ततश्चाष्टभद्राण्यथ च वीथिका

29.045

षोडशाब्जान्यथो वीथी चतुर्विंशतिपङ्कजं ।अप्_29.045अब्।
वीथीपद्मानि द्वात्रिंशत् पङ्क्तिवीथिकजान्यथ

29.046

चत्वारिंशत्ततो वीथी शेषपङ्क्तित्रयेण च ।अप्_29.046अब्।
द्वारशोभोपशोभाः स्युर्दिक्षु मध्ये विलोप्य च

29.047

द्विचतुःषड्द्वारसिद्ध्यै चतुर्दिक्षु विलोपयेत् ।अप्_29.047अब्।
पञ्च त्रीण्येककं वाह्ये शोभोपद्वारसिद्धये

29.048

:न्
1 शुभे इति ङ, चिह्नितपुस्तकपाठः
2 यष्टव्यमिति यज्ञेन इति ग, घ, चिह्नितपुस्तकद्वयपाठः
यष्टव्यमिति मन्त्रेण इति ङ, चिह्नितपुस्तकपाठः
3 प्रचेता मन्यते ध्रुवमिति ख, चिह्नितपुस्तकपाठः
4 ह्युत्तममिति ङ, चिह्नितपुस्तकपाठः
:प् 83
द्वाराणां पार्श्वयोरन्तः षड् वा चत्वारि मध्यतः ।अप्_29.048अब्।
द्वे द्वे लुम्पेदेवमेव षड् भवन्त्युपशोभिकाः

29.049

एकस्यां दिशि सङ्ख्याः स्युः चतस्रः प्रिसङ्ख्यया

29.050

एकैकस्यां दिशि त्रीणि द्वाराण्यपि भवन्त्युत ।अप्_29.050अब्।
पञ्च पञ्च तु कोणेषु पङ्क्तौ पङ्क्तौ क्रमात् मृजेत् ।अप्_29.050च्द्।
कोष्टकानि भवेदेवं मर्त्येष्ट्यं मण्डलं शुभं

29.001

:ए इत्य् आदिमहापुराणे आग्नेये मण्डलादिलक्षणं नाम
ऊनत्रिंशो ऽध्यायः
% छप्तेर् {30}
:श् अथ त्रिंशो ऽध्यायः
मण्डलविधिः
नारद उवाच
मध्ये पद्मे यजेद्ब्रह्म साङ्गं पूर्वेब्जनाभकं ।अप्_30.001अब्।
आग्नेयेब्जे च प्रकृतिं याम्येब्जे पुरुषं यजेत्

29.002

पुरुषाद्दक्षिणे च वह्निं नैरृते वारुणेनिलं ।अप्_29.002अब्।
आदित्यमैन्दवे पद्मे ऋग्यजुश् चैशपद्मके

29.003

इन्द्रादींश् च द्वितीयायां पद्मे षोडशके तथा ।अप्_29.003अब्।
सामाथर्वाणमाकाशं वायुं तेजस् तथा जलं

29.004

पृठिवीञ्च मनश् चैव श्रोत्रं त्वक् चक्षुरर्चयेत् ।अप्_29.004अब्।
रसनाञ्च तथा घ्राणं भूर्भुवश् चैव षोडशं

29.005

महर्जनस्तपः सत्यं तथाग्निष्टोममेव च ।अप्_29.005अब्।
अत्यग्निष्टोमकं(1) चोक्थं षोडशीं वाजपेयकं

29.006

अतिरात्रञ्च सम्पूज्य तथाप्तोर्याममर्चयेत् ।अप्_29.006अब्।
मनो बुद्धिमहङ्कारं शब्दं स्पर्शञ्च रूपकं

29.007

रसं गन्धञ्च पद्मेषु चतुर्विंशतिषु क्रमात् ।अप्_29.007अब्।
:न्
1 प्रत्यग्निष्टोमकमिति ख, चिह्नितपुस्तकपाठः ज्योतिष्टोमकमिति
ङ, चिह्नितपुस्तकपाठः
:प् 84
जीवं मनोधिपञ्चाहं प्रकृतिं शब्दमात्रकं

29.008

वासुदेवादिमूर्तीञ्च तथा चैव दशत्मकं ।अप्_29.008अब्।
मनः श्रोत्रं त्वचं प्रार्च्य चक्षुश् च रसनं तथा

29.009

घ्राणं वाक्पाणिपादञ्च द्वात्रिंशद्वारिजेष्विमान् ।अप्_29.009अब्।
चतुर्थावरणे पूज्याः साङ्गाः सपरिवारकाः

29.010

पायूपस्थौ च सम्पूज्य मासानां द्वादशाधिपान् ।अप्_29.010अब्।
पुरुषोत्तमादिषड्विंशान् वाह्यावरणके यजेत्

29.011

चक्राब्जे तेषु सम्पूज्या मासानां पतयः क्रमात् ।अप्_29.011अब्।
अष्टौ प्रकृतयः षड्वा पञ्चाथ चतुरो ऽपरे

29.012

रजः पातं ततः कुर्याल्लिखिते मण्डले शृणु ।अप्_29.012अब्।
कर्णिका पीतवर्णा स्याद्रेखाः सर्वाः सिताः समाः

29.013

द्विहस्ते ऽङ्गुष्टमात्राः स्युर्हस्ते चार्धसमाः सिताः ।अप्_29.013अब्।
पद्मं शुक्लेन सन्धींस्तु कृष्णेन श्यामतोथवा

29.014

केशरा रक्तपीताः स्युः कोणान् रक्तेन पूरयेत् ।अप्_29.014अब्।
भूषयेद्योगपीठन्तु यथेष्टं सार्ववर्णिकैः

29.015

लतावितानपत्राद्यैर् वीथिकामुपशोभयेत् ।अप्_29.015अब्।
पीठद्वारे तु शुक्लेन शोभारक्तेन पीततः

29.016

उपशोभाञ्च नीलेन कोणशङ्ख्यांश् च वै सितान् ।अप्_29.016अब्।
भद्रके पूरणं प्रोक्तमेवमन्येषु पूरणं

29.017

त्रिकोणं सितरक्तेन कृष्णेन च विभूषयेत् ।अप्_29.017अब्।
द्विकोणं रक्तपीताभ्यां नाभिं कृष्णेन चक्रके

29.018

अरकान् पीतरक्ताभिः श्यामान् नेमिन्तु रक्ततः ।अप्_29.018अब्।
सितश्यामारुणाः कृष्णाः पीता रेखास्तु वाह्यतः

29.019

शालिपिष्टादि शुक्लं स्याद्रक्तं कौसुम्भकादिकम् ।अप्_29.019अब्।
हरिद्रया च हारिद्रं कृष्णं स्याद्दग्धधान्यतः

29.020

:प् 85
शमीपत्रादिकैः श्यामं वीजानां लक्षजाप्यतः ।अप्_29.020अब्।
चतुर्लक्षैस्तु मन्त्राणां विद्यानां लक्षसाधनम्

29.021

अयुतं बुद्धिविद्यानां स्तोत्राणाञ्च सहस्रकम् ।अप्_29.021अब्।
पूर्वमेवाथ लक्षेण मन्त्रशुद्धिस् तथात्मनः

29.022

तथापरेण लक्षेण मन्त्रः क्षेत्रीकृतो भवेत् ।अप्_29.022अब्।
पूर्वमेवासमो होमो वीजानां सम्प्रकीर्तितः

29.023

पूर्वसेवा दशांशेन मन्त्रादीनां प्रकीर्तिता ।अप्_29.023अब्।
परश् चर्ये तु मन्त्रे तु मासिकं व्रतमाचरेत्

29.024

भुवि न्यसेद्वामपादं न गृह्णीयात् प्रतिग्रहम् ।अप्_29.024अब्।
एवं द्वित्रिगुणेनैव मध्यमोत्तमसिद्धयः

29.025

मन्त्रध्यानं प्रवक्ष्यामि येन स्यान्मन्त्रजं फलम् ।अप्_29.025अब्।
स्थूलं शब्दमयं रूपं विग्रहं वाह्यमिष्यते

29.026

सुक्ष्मां ज्योतिर्मयं रूपं हार्दं चिन्तामयं भवेत् ।अप्_29.026अब्।
चिन्तया रहितं यत्तु तत् परं प्रकीर्तितम्

29.027

वराहसिंहशक्तीनां स्थूलरूपं प्रधानतः ।अप्_29.027अब्।
चिन्तया रहितं रूपं वासुदेवस्य कीर्तितम्

29.028

इतरेषां स्मृतं रूपं हार्दं चिन्तामयं सदा ।अप्_29.028अब्।
स्थूलं वैराजमाख्यातं सूक्ष्मं वै लिङ्गितं भवेत्

29.029

चिन्तया रहितं रूपमैश्वरं परिकीर्तितम् ।अप्_29.029अब्।
हृत्पुण्डरीकनिलयञ्चैतन्यं ज्योतिरव्ययम्

29.030

वीजं वीजात्मकं ध्यायेत् कदम्बकुसुमाकृतिं ।अप्_29.030अब्।
कुम्भान्तरगतो दीपो निरुद्धप्रसवो यथा

29.031

संहतः केवलस्तिष्ठेदेवं मन्त्रेश्वरो हृदि ।अप्_29.031अब्।
अनेकशुषिरे कुम्भे तावन्मात्रा गभस्तयः

29.032

प्रसरन्ति वहिस्तद्वन्नाडीभिर्वीजरश्मयः ।अप्_29.032अब्।
:प् 86
अथावभासतो दैवीमात्मीकृत्य तनुं स्थिताः

29.033

हृदयात् प्रस्थिता नाड्यो दर्शनेन्द्रियगोचराः ।अप्_29.033अब्।
अग्नीषोमात्मके तासां नाड्यौ नासाग्रसंस्थिते

29.034

सम्यग्गुह्येन योगेन जित्वा देहसमीरणम् ।अप्_29.034अब्।
जपध्यानरतो मन्त्री मन्त्रलक्षणमश्नुते(1)

29.035

संशुद्धभूततन्मात्रः सकामो योगमभ्यसन् ।अप्_29.035अब्।
अणिमादिमवाप्नोति विरक्तः प्रविलङ्घ्य च ।अप्_29.035च्द्।
देवात्मके भूतमात्रान्मुच्यते चेन्द्रियग्रहात्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc