अग्नि पुराण · अध्याय 303
:ए इत्य् आग्नेये महापुराणे अङ्गाक्षरार्चनं नाम
द्व्यधिकत्रिशततमो ऽध्यायः ॥
% छप्तेर् {303}
:श् अथ त्र्यधिकत्रिशततमो ऽध्यायः
पञ्चाक्षरादिपूजामन्त्राः
अग्निर् उवाच
मेषः संज्ञा विषं साद्यमस्ति दीर्घोदकं रसः ।अप्_303.001अब्।
एतत् पञ्चाक्षरं मन्त्रं शिवदञ्च शिवात्मकं
तारकादि समभ्यर्च्य देवत्वादि समाप्नुयात् ।अप्_303.002अब्।
ज्ञानात्मकं परं ब्रह्म परं बुद्धिः शिवो हृदि
तच्छक्तिभूतः सर्वेशो भिन्नो ब्रह्मादिमूर्तिभिः ।अप्_303.003अब्।
मन्त्रार्णाः पञ्च भूतानि तन्मन्त्रा विषयास् तथा
प्राणादिवायवः पञ्च ज्ञानकर्मेन्द्रियाणि च ।अप्_303.004अब्।
सर्वं पञ्चाक्षरं ब्रह्म तद्वदष्टाक्षरान्तकः
गव्येन प्रक्षयेद्दीक्षास्थानं मन्त्रेण चोदितं ।अप्_303.005अब्।
तन्त्रसम्भूतसम्भावः शिवमिष्ट्वा विधानतः
:न्
1 मध्येषु तोरणद्वहिरिति ख.. , ज.. , ञ.. च
:प् 119
मूलमूर्त्यङ्गविद्याभिस्तण्डुलक्षेपणादिकम् ।अप्_303.006अब्।
कृत्वा चरुञ्च यत् क्षीरं पुनस्तद्विभजेत् त्रिधा
निवेद्यैकं परं हुत्वा सशिष्यो ऽन्यद्भजेद्गुरुः ।अप्_303.007अब्।
आचम्य सकलीकृत्य दद्याच्च्छिष्याय देशिकः
दन्तकाष्ठं हृदा जप्तं क्षीरवृक्षादिसम्भवम् ।अप्_303.008अब्।
संशोध्य दन्तान् संक्षिप्त्वा प्रज्ञाल्यैतत् क्षिपेद्भुवि
पूर्वेण सौम्यवारीशगतं शुभमतौ शुभम् ।अप्_303.009अब्।
पुनस्तं शिष्यमायान्तं(1) शिश्वाबन्धादिरक्षितं
कृत्वा वेद्यां सहानेन स्वपेद्दर्भास्तरे बुधः ।अप्_303.010अब्।
सुषुप्तं वीक्ष्य तं शिष्यः प्रभाते श्रावयेद्गुरुं
शुभैः सिद्धिपदैर् भक्तिस्तैः पुनर्मण्डलार्चनम् ।अप्_303.011अब्।
मण्डलं भद्रकाद्युक्तं पूजयेत्सर्वसिद्धिदं
स्नात्वाचम्य मृदा देहं मन्त्रैर् आलिप्य कल्प्यते ।अप्_303.012अब्।
शिवतीर्थे नरः स्नायादघमर्षणपूर्वकम्
हस्ताभिषेकं कृत्वाथ प्रायात् पूजादिकं बुधः ।अप्_303.013अब्।
मूलेनाब्जासनं कुर्यात्तेन पूरककुम्भकान्
आत्मानं योजयित्वोर्ध्वं शिखान्ते द्वादशाङ्गुले ।अप्_303.014अब्।
संशोष्य दग्ध्वा स्वतनुं प्लावयेदमृतेन च
ध्मात्वा दिव्यं वपुस्तस्मिन्नात्मानञ्च पुनर्नयेत् ।अप्_303.015अब्।
कृत्वेवं चात्मशुद्धिः स्याद्विन्यस्यार्चनमारभेत्
क्रमात् कृष्णसितश्यामरक्तपीता नगादयः ।अप्_303.016अब्।
मन्त्रार्णा दण्डिनाङ्गानि तेषु सर्वास्तु मूर्तयः
:न्
1 शिष्यमाचान्तमिति ञ..
:प् 120
अङ्गुष्ठादिकनिष्ठान्तं विन्यस्याङ्गानि सर्वतः ।अप्_303.017अब्।
न्यसेन्मन्त्राक्षरं पादगुह्यहृद्वक्त्रमूर्धसु
व्यापकं न्यस्य मूर्धादि मूलमङ्गानि विन्यसेत् ।अप्_303.018अब्।
रक्तपीतश्यामसितान् पीठपादान् स्वकालजान्
स्वाङ्गान्मन्त्रैर् न्यसेद्गात्राण्यधर्मादीनि दिक्षु च ।अप्_303.019अब्।
तत्र पद्मञ्च सुर्यादिमण्डले त्रितयं गुणान्
पूर्वादिपत्रे कामाद्या नवकं कर्णिकोपरि ।अप्_303.020अब्।
वामा ज्येष्ठा क्रमाद्रौद्रो काली कलविकारिणी
बलविकारिणी चार्थ बलप्रमथनी तथा ।अप्_303.021अब्।
सर्वभूतदमनी च नवमी च मनोन्मनी
श्वेता रक्ता सिता पीता श्यामा वह्निनिभाषिता ।अप्_303.022अब्।
कृष्णारुणाश् च ताः शक्तीर्ज्वालारूपाः स्मरेत् क्रमात्
अनन्तयोगपीठाय आवाह्याथ हृदब्जतः ।अप्_303.023अब्।
स्फटिकाभं चतुर्वाहुं फलशूलधरं शिवम्
साभयं वरदं पञ्चवदंनञ्च त्रिलोचनम् ।अप्_303.024अब्।
पत्रेषु मुर्तयः पञ्च स्थाप्यास्तत्पुरुषादयः
पूर्वे तत्पुरुषः श्वेतो अघोरो ऽष्टभुजो ऽसिताः ।अप्_303.025अब्।
चतुर्वाहुमुखः पीताः सद्योजातश् च पश्चिमे
वामदेवः स्त्रीविलासी चतुर्वक्त्रभुजो ऽरुणः ।अप्_303.026अब्।
सौम्ये पञ्चास्य ईशाने ईशानः सर्वदः सितः
इष्टाङ्गानि यथान्यायमनन्तं सूक्ष्ममर्चयेत् ।अप्_303.027अब्।
सिद्धेश्वरं त्वेकनेत्रं पूर्वादौ दिश पूजयेत्
एकरुद्रं त्रिनेत्रञ्च श्रीकण्ठञ्च शिखण्डिनम् ।अप्_303.028अब्।
:प् 121
ऐशान्यादिविदिक्ष्वेते विद्येशाः कमलासनाः(1)
श्वेतः पीतः सितो रक्तो धूम्रो रक्तो ऽरुणः शितः ।अप्_303.029अब्।
शूलाशनिशरेश्वासवाहवश् चतुराननाः
उमा वण्डेशनन्दीशौ महाकालो गणेश्वरः ।अप्_303.030अब्।
वृषो भृङ्गरिटिस्कन्दानुत्तरादौ प्रपूजयेत्
कुलिशं शक्तिदण्डौ च खड्गपाशध्वजौ गदां ।अप्_303.031अब्।
शूलं चक्रं यजेत् पद्मं पूव्वादौ देवमर्च्य च
ततो ऽधिवासितं शिष्यं पाययेद्गव्यपञ्चकम् ।अप्_303.032अब्।
आचान्तं प्रोक्ष्ये नेत्रान्तैर् नेत्रे नेत्रेण बन्धयेत्
द्वारं प्रवेशयेच्छिप्यं मण्डपस्याथ दक्षिणे ।अप्_303.033अब्।
सासनादिकुशासीनं तत्र संशोधयेद्गुरुः
आदितत्त्वानि संहृत्य परमार्थे लयः क्रमात् ।अप्_303.034अब्।
पुनरुत्पादयेच्छिष्यं सृष्टिमार्गेण देशिकः
न्यासं शिष्ये ततः कृत्वा तं प्रदक्षिणमानयेत् ।अप्_303.035अब्।
पश्चिमद्वारमानीय क्षेपयेत् कुसुमाञ्जलिम्
यस्मिन् पतन्ति पुष्पाणि तन्नामाद्यं विनिर्दिशेत् ।अप्_303.036अब्।
पार्श्वेयागभुवः खाते कुण्डे सन्नभिमेखले(2)
शिवाग्निं जनयित्वेष्ट्वा पुनः शिष्येण चार्चयेत् ।अप्_303.037अब्।
ध्यानेनात्मनिभं शिष्यं संहृत्य प्रलयः क्रमात्
पुनरुत्पाद्य तत्पाणौ दद्याद्दर्भांश् च मन्त्रितान् ।अप्_303.038अब्।
पृथिव्यादीनि तत्त्वानि जुहुयाद्धृदयादिभिः
:न्
1 कमलानना इति ञ..
2 सन्धादिमेखले इति ख..
:प् 122
एकैकस्य शतं हुत्वा व्योममूलेन होमयेत् ।अप्_303.039अब्।
हुत्वा पूर्णाहुतिं कुर्यादस्त्रेणाष्टाहुतीर्हुनेत्
प्रायश्चित्तं विशुद्ध्यर्थं ततः शेषं समापयेत् ।अप्_303.040अब्।
कुम्भं समन्त्रितं प्रार्च्य शिशुं पीठे ऽभिषेचयेत्
शिष्ये तु समयं दत्वा स्वर्णाद्यैः स्वगुरुं यजेत् ।अप्_303.041अब्।
दीक्षा पञ्चाक्षरस्योक्ता विष्ण्वादेरेवमेव हि
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0