भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 302

302.001

:ए इत्य् आग्नेये महापुराणे नानामन्त्रा नामैकाधिकत्रिशततमो
ऽध्यायः ॥
% छप्तेर् {302}
:श् अथ द्व्यधिकत्रिशततमो ऽध्यायः
अङ्गाक्षरार्चनम्
अग्निर् उवाच
यदा जन्मर्क्षगश् चन्द्रो भानुः सप्तसराशिगः ।अप्_302.001अब्।
पौष्णः कालः स विज्ञेयस्तदा ग्रासं परीक्षयेत्

302.002

कण्टोष्ठौ चलतःस्थानाद्यस्य वक्रा च नासिका ।अप्_302.002अब्।
कृष्णा च जिह्वा सप्ताहं जीवितं तस्य वै भवेत्

302.003

तारो मेषो विषं दन्ती नरो दीर्घो वणा रसः ।अप्_302.003अब्।
क्रूद्धोल्काय महोल्काय वीरोल्काय शिखा भवेत्

302.004

:प् 117
ह्यल्काय राहसोल्काय वैष्णवोष्टाक्षरो मनुः ।अप्_302.004अब्।
कनिष्ठादितदष्टानामङ्गुलीनाञ्च पर्वसु

302.005

ज्येष्ठाग्रेण क्रमात्तावन् मूर्धन्यष्टाक्षरं न्यसेत् ।अप्_302.005अब्।
तर्जन्यान्तारमङ्गुष्ठे लग्ने मध्यमया च तत्

302.006

तलेङ्गुष्ठे तदुत्तारं वीजोत्तारं ततो न्यसेत् ।अप्_302.006अब्।
रक्तगौरधूम्रहरिज्जातरूपाः सितास्त्रयः

302.007

एवं रूपानिमान् वर्णान् भावबुद्धान्न्यसेत् क्रमात् ।अप्_302.007अब्।
हृदास्यनेत्रमूर्धाङ्घ्रितालुगुह्यकरादिषु(1)

302.008

अङ्गानि च न्यसेद्वीजान्न्यस्याथ करदेहयोः ।अप्_302.008अब्।
यथात्मनि तथा देवे न्यासः कार्यः करं विना

302.009

हृदादिस्थानगान् वर्णान् गन्धपुष्पै समर्चयेत् ।अप्_302.009अब्।
धर्माद्यग्न्याद्यधर्मादि गात्रे पीठे ऽम्बुजे न्यसेत्

302.010

यत्र केशरकिञ्जल्कव्यापिसूर्येन्दुदाहिनां ।अप्_302.010अब्।
मण्डलन्त्रितयन्तावद् भेदैस्तत्र न्यसेत् क्रमात्

302.011

गुणाश् च तन्त्रसत्वाद्याः केशरस्थाश् च शक्तयः ।अप्_302.011अब्।
विमलोत्कर्षणीज्ञानक्रियायोगाश् च वै क्रमात्

302.012

प्रह्वी सत्या तथेशानानुग्रहा मध्यतस्ततः ।अप्_302.012अब्।
योगपीठं समभ्यर्च्य समावह्य हरिं यजेत्

302.013

पाद्यार्घ्याचमनीयञ्च पीतवस्त्रविभूषणं ।अप्_302.013अब्।
एतत् पञ्चोपचारञ्च सर्वं मूलेन दीयते

302.014

वासुदेवादयः पूज्याश् चत्वारो दिक्षु मूर्तयः ।अप्_302.014अब्।
विदिक्षु श्रीसरस्वत्यै रतिशान्त्यै च पूजयेत्

302.015

:न्
1 हृदास्यनेत्रमूर्धाङ्घ्रिजानुगुह्यकरादिष्विति ख..
:प् 118
शङ्खं चक्रं गदां पद्मं मुषलं खड्गशार्ङ्गिके ।अप्_302.015अब्।
वनमालान्वितं दिक्षु विदिक्षु च यजेत् क्रमात्

302.016

अभ्यर्च्य च वहिस्तार्क्ष्यं देवस्य पुरतो ऽर्चयेत् ।अप्_302.016अब्।
विश्वक्सेनञ्च सोमेशं मध्ये आवरणाद्वहिः(1) ।अप्_302.016च्द्।
इन्द्रादिपरिचारेण पूज्य सर्वमवाप्नुयात्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc