अग्नि पुराण · अध्याय 304
:ए इत्य् आग्नेये महापुराणे पञ्चाक्षरादिपूजामन्त्रा नाम
त्र्यधिकत्रिशततमो ऽध्यायः ॥
% छप्तेर् {304}
:श् अथ चतुरधिकत्रिशततमो ऽध्यायः
पञ्चपञ्चाशद्विष्णुनामाणि
अग्निर् उवाच
जपन् वै पञ्चपञ्चाशद्विष्णुनामानि यो नरः ।अप्_304.001अब्।
मन्त्रजप्यादिफलभाक् तीर्थेष्वर्चादि चाक्षयम्
पुष्करे पुण्डरीकाक्षं गयायाञ्च गदाधरम् ।अप्_304.002अब्।
राघवञ्चित्रकूटे तु प्रभासे दैत्यसूदनम्
जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे ।अप्_304.003अब्।
वाराहं वर्धमाने च काश्मीरे चक्रपाणिनम्
जनार्दनञ्च कुब्जाम्रे मथुरायाञ्च केशवम् ।अप्_304.004अब्।
कुब्जाम्रके हृषीकेशं गङ्गाद्वारे जटाधरम्
शालग्रामे महायोगं हरिं गोबर्धनाचले ।अप्_304.005अब्।
:प् 123
पिण्डारके चतुर्वाहुं शङ्खोद्धारे च शङ्खिनम्
वामनञ्च कुरुक्षेत्रे यमुनायां त्रिविक्रमम् ।अप्_304.006अब्।
विश्वेश्वरं तथा शोणे कपिलं पूर्वसागरे
विष्णुं महोदधौ विद्याद्गङ्गासागरसङ्गमे ।अप्_304.007अब्।
वनमालञ्च किष्किन्ध्यां देवं रैवतकं विदुः
काशीतटे महायोगं विरजायां रिपुञ्जयम् ।अप्_304.008अब्।
विशाखयूपे ह्य् अजितन्नेपाले लोकभावनम्
द्वारकायां विद्धि कृष्णं मन्दरे मधुसूदनम् ।अप्_304.009अब्।
लोकाकुले रिपुहरं शालग्रामे हरिं स्मरेत्
पुरुषं पूरुषवटे विमले च जगत्प्रभुं ।अप्_304.010अब्।
अनन्तं सैन्धवारण्ये दण्डके शार्ङ्गधारिणम्
उत्पलावर्तके शौरीं नर्मदायां श्रियः पतिं ।अप्_304.011अब्।
दामोदरं रैवतके नन्दायां जलशायिनं
गोपीश्वरञ्च सिन्ध्वव्धौ माहेन्द्रे चाच्युतं विटुः ।अप्_304.012अब्।
सहाद्रौ देवदेवेशं वैकुण्ठं मागधे वने
सर्वपापहरं विन्ध्ये औड्रे तु पुरुषोत्तमम् ।अप्_304.013अब्।
आत्मानं हृदये विद्धि जपतां भुक्तिमुक्तिदम्
वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम् ।अप्_304.014अब्।
पर्वते पर्वते रामं सर्वत्र मधुसूदनं
नरं भूमौ तथा व्योम्नि वशिष्ठे गरुडध्वजम् ।अप्_304.015अब्।
वासुदेवञ्च सर्वत्र संस्मरन् भुक्तिमुक्तिभाक्
नामान्येतानि विष्णीश् च जप्त्वा सर्वमवाप्नुयात् ।अप्_304.016अब्।
क्षेत्रेष्वेतेषु यत् श्राद्धं दानं जप्यञ्च तर्पणम्
:प् 124
तत्सर्वं कोटिगुणितं मृतो ब्रह्ममयो भवेत् ।अप्_304.017अब्।
यः पठेत् शृणुयाद्वापि निर्मलः स्वर्गमाप्नुयात्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0