भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 298

298.001

:ए इत्य् आग्नेये महापुराणे गोनसादिचिकित्सा नाम
सप्तनवत्यधिकद्विशततमो ऽध्यायः
:न्
1 षष्टिव्योषगुडक्षीरयोग इति क.. , ज.. , ञ.. , ट च
:प् 103
% छप्तेर् {298}
:श् अथाष्टनवत्यधिकद्विशततमो ऽध्यायः
बलग्रहहरबालतन्त्रम्
अग्निर् उवाच
बालतन्त्रं प्रवक्ष्यामि बालादिग्रहमर्दनं ।अप्_298.001अब्।
अथ जातदिने वत्सं ग्रही गृह्णाति पापिनी

298.002

गात्रोद्वेगो निराहारो नानाग्रीवाविवर्तनं ।अप्_298.002अब्।
तच्चेष्टितमिदं तस्यान्मातॄणाञ्च बलं हरेत्

298.003

सत्स्यमांससुराभक्ष्यगन्धस्रग्धूपदीपकैः ।अप्_298.003अब्।
लिम्पेच्च धातकीलोध्रमञ्जिष्ठातालचन्दनैः

298.004

महिषाक्षेण धूपश् च द्विरात्रे भौषणी ग्रही ।अप्_298.004अब्।
तच्चेष्टा कासनिश्वासौ गात्रसङ्कोचनं मुहुः

298.005

आजमूत्रैर् लिपेत् कृष्णासेव्यापामार्गचन्दनैः ।अप्_298.005अब्।
गोशृङ्गदन्तकेशैश् च धूपयेत् पूर्ववद्बलिः

298.006

ग्रही त्रिरात्रे घण्ठाली तच्चेष्टा क्रन्दनं मुहुः ।अप्_298.006अब्।
जृम्भणं स्वनितन्त्रासो गात्रोद्वेगमरोचनं

298.007

केशराञ्जनगोहस्तिदन्तं साजपयो लिपेत् ।अप्_298.007अब्।
नखराजीबिल्वदलैर् धूपयेच्च बलिं हरेत्

298.008

ग्रही चतुर्थी काकोली गात्रोद्वेगप्ररोचनं ।अप्_298.008अब्।
फेनोद्गारो दिशो दृष्टिः कुल्माषैः सासवैर् बलिः

298.009

गजदन्ताहिनिर्मोकवाजिमूत्रप्रलेपनं ।अप्_298.009अब्।
सराजीनिम्बपत्रेण धूतकेशेन छूपयेत्

298.010

हंसाधिका पञ्चमी स्याज्जृम्भाश्वासोर्धधारिणी ।अप्_298.010अब्।
:प् 104
मुष्टिबन्धश् च तच्चेष्टा बलिं मत्स्यादिना हरेत्

298.011

मेषशृङ्गबलालोध्रशिलातालैः शिशुं लिपेत् ।अप्_298.011अब्।
फट्कारी तु ग्रही षष्ठी भयमोहप्ररोदनं

298.012

निराहारो ऽङ्गविक्षेपो हरेन्मत्स्यादिना बलिं ।अप्_298.012अब्।
राजीगुग्गुलुकुष्ठेभदन्ताद्यैर् धूपलेपनैः

298.013

सप्तमे मुक्तकेश्यार्तः पूतिगन्धो विजृम्भणं ।अप्_298.013अब्।
सादः प्ररोदनङ्कासो धूपो व्याघ्रनखैर् लिपेत्

298.014

वचागोमयगोमूत्रैः श्रीदण्डी चाष्टमे ग्रही ।अप्_298.014अब्।
दिशो निरीक्षणं जिह्वाचालनङ्कासरोदनं

298.015

बलिः पूर्वैव मत्स्याद्यैर् धूपलेपे च(1) हिङ्गुला ।अप्_298.015अब्।
वचासिद्धर्थलशुनैश्चोर्ध्वग्राही महाग्रही

298.016

उद्वेजनोर्ध्वनिःश्वासः स्वमुष्टिद्वयखादनं ।अप्_298.016अब्।
रक्तचन्दनकुष्ठाद्यैर् धूपयेल्लेपयेच्छिशुं

298.017

कपिरोमनखैर् धूपो दशमी रोदनी ग्रही ।अप्_298.017अब्।
तच्चेष्टा रोदनं शश्वत् सुगन्धो नीलवर्णता

298.018

धूपो निम्बेन भूतोग्रराजीसर्जरसैर् लिपेत् ।अप्_298.018अब्।
बलिं वहिर्हरेल्लाजकुल्माषकवकोदनम्(2)

298.019

यावत्त्रयोदशाहं स्यादेवं धूपादिका क्रिया ।अप्_298.019अब्।
गृह्नाति मासिकं वत्सं पूतनासङ्कुली ग्रही

298.020

काकवद्रोदनं श्वासो मूत्रगन्धो ऽक्षिमीलनं ।अप्_298.020अब्।
गोमूत्रस्नपनं तस्य गोदन्तेन च धूपनम्

298.021

:न्
1 धूपदीपे चेति ट..
2 करकोदनमिति ख..
:प् 105
पीतवस्त्रं ददेद्रक्तस्रग्गन्धौ तैलदीपकः ।अप्_298.021अब्।
त्रिविधं पायसम्मद्यं तिलमासञ्चतुर्विधम्

298.022

करञ्जाधो यमदिशि सप्ताहं तैर् बलिं हरेत् ।अप्_298.022अब्।
द्विमासिकञ्च मुकुटा वपुः शीतञ्च शीतलं

298.023

छर्धिः स्यान्मुखशोषादिपुष्पगन्धांशुकानि च ।अप्_298.023अब्।
अपूपमोदनं दीपः कृष्णं नीरादि धूपकम्

298.024

तृतीये गोमुखी निद्रा सविन्मूत्रप्ररोदनम् ।अप्_298.024अब्।
यवाः प्रियङ्गुः पलनं कुल्माषं शाकमोदनम्

298.025

क्षीरं पूर्वे ददेन्मध्ये ऽहनि धूपश् च सर्पिषा ।अप्_298.025अब्।
पञ्चभङ्गेन तत् स्नानं चतुर्थे पिङ्गलार्तिहृत्

298.026

तनुः शीता पूतिगन्धः शोषः स म्रियते ध्रुवम् ।अप्_298.026अब्।
पञ्चमी ललना गात्रसादः स्यान्मुखशोषणं

298.027

अपानः पीतवर्णश् च मत्स्याद्यैर् दक्षिणे बलिः ।अप्_298.027अब्।
षण्मासे पङ्कजा चेष्टा रोदनं विकृतः स्वरः

298.028

मत्स्यमांससुराभक्तपुष्पगन्धादिभिर्बलिः ।अप्_298.028अब्।
सप्रमे तु निराहारा पूतिगन्धादिदन्तरुक्

298.029

पिष्टमांससुरामांसैर् बलिः स्याद्यमुनाष्टमे ।अप्_298.029अब्।
विस्फोटशोषणाद्यं स्यात् तच्चिकित्सान्न कारयेत्

298.030

नवमे कुम्भकर्ण्यार्तो ज्वरी च्छर्दति पालकम् ।अप्_298.030अब्।
रोदनं मांसकुल्माषमद्याद्यैर् वैश्वके बलिः

298.031

दशमे तापसी चेष्टा निराहारोक्षिमीलनम् ।अप्_298.031अब्।
घण्टा पताका पिष्टोक्ता सुरामांसबलिः समे

298.032

राक्षस्येकादशी पीडा नेत्राद्यं न चिकित्सनम् ।अप्_298.032अब्।
:प् 106
चञ्चला द्वादशे श्वासः त्रासादिकविचेष्टितम्

298.033

बलिः पूर्वे ऽथ मध्याह्ने कुल्मापाद्यैस्तिलादिभिः ।अप्_298.033अब्।
यातना तु द्वितीये ऽब्दे यातनं रोदनादिकम्

298.034

तिलमांसमद्यमांसैर् बलिः स्नानादि पूर्ववत् ।अप्_298.034अब्।
तृतीये रोदनी कम्पो रोदनं रक्तमूत्रकं

298.035

गुडौदनं तिलापूपः प्रतिमा तिलपिष्टजा ।अप्_298.035अब्।
तिलस्नानं पञ्चपत्रैर् धूपो राजफलत्वचा

298.036

चतुर्थे चटकाशोफो ज्वरः सर्वाङ्गसादनम् ।अप्_298.036अब्।
मत्स्यमांसतिलाद्यैश् च बलिः स्नानञ्च धूपनम्

298.037

चञ्चला पञ्चमे ऽब्दे तु ज्वरस्त्रासो ऽङ्गसादनम् ।अप्_298.037अब्।
मांसौदनाद्यैश् च बलिर्मेषशृङ्गेण धूपनम्

298.038

पलाशोदुम्बराश्वत्थवटबिल्वदलाम्बुधृक् ।अप्_298.038अब्।
षष्ठे ऽब्दे धावनीशोषो वैरस्यं(1) गात्रसादनम्

298.039

सप्ताहोभिर्बलिः पूर्वैर् धुपस्नानञ्च भङ्गकैः(2) ।अप्_298.039अब्।
सप्तमे यमुनाच्छर्दिरवचोहासरोदनम्

298.040

मांसपाद्यसमद्याद्यैर् बलिः स्नानञ्च धूपनम् ।अप्_298.040अब्।
अष्टमे वा जातवेदा निराहारं प्ररोदनम्

298.041

कृशरापूपदध्याद्यैर् बलिः स्नानञ्च धूपनम् ।अप्_298.041अब्।
कालाब्दे नवमे वाह्वोरास्फोटो गर्जनं भयम्

298.042

बलिः स्यात् कृशरापूपशक्तुकुल्मासपायसैः ।अप्_298.042अब्।
दशमे ऽब्दे कलहंसी दाहो ऽङ्गकृशता ज्वरः

298.043

:न्
1 वैवर्ण्यमिति ठ..
2 भागकैर् इति ख..
:प् 107
पौलिकापूपदध्यन्नैः पञ्चरात्रं बलिं हरेत् ।अप्_298.043अब्।
निम्बधूपकुष्ठलेप एकादशमके ग्रही

298.044

देवदूती निष्ठुरवाक् बलिर्लेपादि पूर्ववत् ।अप्_298.044अब्।
बलिका द्वादशे बलिर्लेपादि पूर्ववत्

298.045

त्रयोदशे वायवी च मुखवाह्याङ्गसादनम् ।अप्_298.045अब्।
रक्तान्नगन्धमाल्याद्यैर् बलिः पञ्चदलैः स्नपेत्

298.046

राजीनिस्वदलैर् धूपो यक्षिणी च चतुर्दशे ।अप्_298.046अब्।
चेष्टा शूलं ज्वरो दाहो मांसभक्षादिकैर् बलिः

298.047

स्नानादि पूर्ववच्छान्त्यै मुण्डिकार्तिस्त्रिपञ्चके ।अप्_298.047अब्।
तच्चेष्टासृक्श्रवः शश्वत्कुर्याम्मातृचिकित्सनम्

298.048

वानरी षोडशी भूमौ पतेन्निद्रा सदा ज्वरः ।अप्_298.048अब्।
पायसाद्यैस्त्रिरात्रञ्च वलिः स्नानादि पूर्ववत्

298.049

गन्धवती सप्तदशे गात्रोद्वेगः प्ररोदनम् ।अप्_298.049अब्।
कुल्माषाद्यैर् बलिः स्नानधूपलेपादि पूर्ववत्

298.050

दिनेशाः पूतना नाम वर्षेशाः सुकुमारिकाः ।अप्_298.050अब्।
ओं नमः सर्वमातृभ्यो बालपीडासंयोगं भुञ्ज भुञ्ज
चुट चुट स्फोटय स्फोटय स्फुर स्फुर गृह्ण गृह्ण
आकट्टय आकट्टय एवं सिद्धरूपो ज्ञापयति । हरे हरे
निर्दोषं कुरु कुरु बालिकां बालं स्त्रियम् पुरुषं वा
सर्वग्रहाणामुपक्रमात्
चामुण्डे नमो देव्यै ह्रूं ह्रूं ह्रीं अपसर अपसर
दुष्टग्रहान् ह्रूं तद्यथा गच्छन्तु गृह्यकाः अन्यत्र
पन्थानं रुद्रो ज्ञापयति
सर्वबालग्रहेषु स्यान्मन्त्रो ऽयं सर्वकामिकः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc