अग्नि पुराण · अध्याय 299
ओं नमो भगवति चामुण्डे मुञ्च मुञ्च बलिं बालिकां वा
:प् 108
बलिं गृह्ण गृह्ण जय जय वस वस ।अप्_298.051अब्।
सर्वत्र बलिदाने ऽयं रक्षाकृत् पठ्यते मनुः ।अप्_298.051च्द्।
रक्षन्तु च ज्वराभ्यान्तं मुञ्चन्तु च कुमारकम् ।अप्_298.051एf।
ब्रह्मा विष्णुः शिवः स्कन्दो गौरो गौरीलक्ष्मीर्गणादयः ॥अप्_298.051घ्
:ए इत्य् आग्नये महापुराणे बालग्रहहरं बालतन्त्रं नाम
अष्टनवत्यधिकद्विषततमो ऽध्यायः
% छप्तेर् {299}
:श् अथ नवनवत्यधिकद्विशततमो ऽध्यायः
ग्रहहृन्मन्त्रादिकम्
अग्निर् उवाच
ग्रहापहारमन्त्रादीन् वक्ष्ये ग्रहविमर्दनान् ।अप्_299.001अब्।
हर्षेच्छाभयशोकादिविरुद्धाशुचिभोजनात्
गुरुदेवादिकोपाच्च पञ्चोन्मादा भवन्त्य् अथ ।अप्_299.002अब्।
त्रिदोषजाः सन्निपाता आगन्तुरिति ते स्मृताः
देवादयो ग्रहा जाता रुद्रक्रोधादनेकधा ।अप्_299.003अब्।
सरित्सरस्तडागादौ शैलोपवनसेतुषु
नदीसङ्गे शून्यगृहे विलद्वार्येकवृक्षके ।अप्_299.004अब्।
ग्रहा गृह्णन्ति पुंसश् च श्रियः(1) सुप्ताञ्च गर्भिणीम्
आसन्नपुष्पान्नग्नाञ्च ऋतुस्नानं करोति या ।अप्_299.005अब्।
अवमानं नृणां वैरं विघ्नं भाग्यविपर्ययः
देवतागुरुधर्मादिसदाचारादिलङ्घनम् ।अप्_299.006अब्।
:न्
1 स्त्रिय इति ञ.. , ट.. च
:प् 109
पतनं शैलवृक्षादेर्विधुन्वन्मूर्धजं मुहुः
रुदन्नृत्यति रक्ताक्षो हूंरूपो ऽनुग्रही नरः ।अप्_299.007अब्।
उद्विग्नः शूलदाहार्तः क्षुत्तृष्णार्तः शिरोर्तिमान्
देहि दहीति याचेत बलिकामग्रही नरः ।अप्_299.008अब्।
स्त्रीमालाभोगस्नानेच्छूरतिकामग्रही नरः
महासुदर्शनो व्योमव्यापी विटपनासिकः(1) ।अप्_299.009अब्।
पातालनारसिंहाद्या चण्डीमन्त्रा ग्रहार्दनाः
पृश्नीहिङ्गुवचाचक्रशिरीषदयितम्परम् ।अप्_299.010अब्।
पाशाङ्कुशधरं देवमक्षमालाकपालिनम्
खट्टाङ्गाब्जादिशिक्तिञ्च दधानं चतुराननम् ।अप्_299.011अब्।
अन्तर्वाह्यादिखट्टाङ्गपद्मस्थं रविमण्डले
आदित्यादियुतं प्रार्च्य उदितेर्के ऽर्घ्यकं ददेत् ।अप्_299.012अब्।
श्वासविषाग्निविप्रकुण्डीहृल्लेखासकलो भृगुः
अर्काय भूर्भुवःस्वश् च ज्वालिनीं कुलमुद्गरम् ।अप्_299.013अब्।
पद्मासनो ऽरुणो रक्तवस्त्रसद्युतिविश्वकः
उदारः पद्मधृग्दोर्भ्यां सौम्यः सर्वाङ्गभूषितः ।अप्_299.014अब्।
रक्ता हृदादयः सौम्या वरदाः पद्मधारिणः
विद्युत्पुञ्जनिभं वस्त्रं श्वेतः सौम्यो ऽरुणः कुजः ।अप्_299.015अब्।
बुधस्तद्वद्गुरुः पीतः शुक्लः शुक्रः शनैश् चरः
कृष्णाङ्गारनिभो राहुर्धूम्रः केतुरुदाहृतः ।अप्_299.016अब्।
वामोरुवामहस्तान्ते दक्षहस्ताभयप्रदा
स्वनामाद्यन्तु वीजास्ते हस्तौ संशोध्य चास्त्रतः ।अप्_299.017अब्।
:न्
1 विपिटनासिक इति ञ..
:प् 110
अङ्गुष्ठादौ तले नेत्रे हृदाद्यं व्यापकं न्यसेत्
मूलवीजैस्त्रिभिः प्राणध्यायकं न्यस्य साङ्गकम् ।अप्_299.018अब्।
प्रक्षाल्य पात्रमस्त्रेण मूलेनापूर्य वारिणा
गन्धपुष्पाक्षतं न्यस्य दूर्वामर्घ्यञ्च मन्त्रयेत् ।अप्_299.019अब्।
आत्मानं तेन सम्प्रोक्ष्य पूजाद्रव्यञ्च वै ध्रुवम्
प्रभूतं विमलं सारमाराध्यं परमं सुखम् ।अप्_299.020अब्।
पीठाद्यान् कल्पयेदेतान् हृदा मध्ये विदिक्षु च
पीठोपरि हृदा मध्ये दिक्षु चैव विदिक्षु च ।अप्_299.021अब्।
पीठोपरि हृदाब्जञ्च केशवेष्वष्टशक्तयः
वां दीप्तां वीं तथा सुक्ष्मां वुञ्जयां वूञ्चभाद्रिकां ।अप्_299.022अब्।
वें विभूतीं वैं विमलां वोमसिघातविद्युताम्
वौं सर्वतोमुखीं वं पीठं वः प्रार्च्य रविं यजेत् ।अप्_299.023अब्।
आवाह्य दद्यात् पाद्यादि हृत्षडङ्गेन सुव्रत
खकारौ दण्डिनौ चण्डौ मज्जा दशनसंयुता ।अप्_299.024अब्।
मांसदीर्घा जरद्वायुहृदैतत् सर्वदं रवेः
वह्नीशरक्षो मरुताम् किक्षु पूज्या हृदादयः ।अप्_299.025अब्।
स्वमन्त्रैः कर्णिकान्तस्था दिक्ष्वस्त्रं पुरतः सदृक्
पूर्वादिदिक्षु सम्पूज्याश् चन्द्रज्ञगुरुभार्गवाः ।अप्_299.026अब्।
नस्याञ्जनादि कुर्वीत साजमूत्रैर् ग्रहापहैः
पाठापथ्यावचाशिग्रुसिन्धूव्योषैः पृथक् फलैः ।अप्_299.027अब्।
अजाक्षीराढके पक्वसर्पिः सर्वग्रहान् हरेत्
वृश्चिकालीफलीकुष्ठं लवणानि च शार्ङ्गकम् ।अप्_299.028अब्।
अपस्मारविनाशाय तज्जलं त्वभिभोजयेत्
:प् 111
विदारीकुशकाशेक्षुक्वाथजं पाययेत् पयः ।अप्_299.029अब्।
द्रोणे सयष्टिकुष्माण्डरसे सर्पिश् च संस्कृतौ
पञ्चगव्यं घृतं तद्वद्योगं ज्वरहरं शृणु ।अप्_299.030अब्।
ओं भस्मास्त्राय विद्महे एकदंष्ट्राय धीमहि तन्नो ज्वरः
प्रचोदयात्
कृष्णोषणनिशारास्नाद्राक्षातैलं गुडं लिहेत्
श्वासवानथ वा भार्गीं सयष्टिमधुसर्पिषा ।अप्_299.031अब्।
पाठा तिक्ता कणा भार्गी अथवा मधुना लिहेत्
धात्री विश्वसिता कृष्णा मुस्ता खर्जूरमागधी ।अप्_299.032अब्।
पिवरश्चेति हिक्काघ्नं तत् त्रयं मधुना लिहेत्
कामली जीरमाण्डूकीनिशाधात्रीरसं पिवेत् ।अप्_299.033अब्।
व्योषपद्मकत्रिफलाकिडङ्गदेवदारवः ।अप्_299.033च्द्।
रास्नाचूर्णं समं खण्डैर् जग्ध्वा कासहरं ध्रुवम्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0