अग्नि पुराण · अध्याय 297
:ए इत्य् आग्नेये महापुरणे विषहृन्मन्त्रौषधं नाम
षन्नवत्यधिकद्विशततमो ऽध्यायः
% छप्तेर् {297}
:श् अथ सप्तनवत्यधिकद्विशततमो ऽध्यायः
गोनसादिचिकित्सा
अग्निरुचाच
गोनसादिचिकित्साञ्च वशिष्ठ शृणु वच्मि ते ।अप्_297.001अब्।
ह्रीं ह्रीं अमलपक्षि स्वाहा
ताम्बूलखादनान्मन्त्री हरेन्मण्डलिनो विषं
लशुनं रामठफलं कुष्ठाग्निव्योषकं विषे ।अप्_297.002अब्।
स्नुहीक्षीरं गव्यघृतं पक्षं पीत्वाहिजे विषे
अथ राजिलदष्टे च पेया कृष्णा समैन्धवा ।अप्_297.003अब्।
आज्यक्षौद्रशकृत्तोयं पुरीतत्या विषापहं
सकृष्णाखण्डदुग्धाज्यं पातव्यन्तेन माक्षिकं ।अप्_297.004अब्।
व्योषं पिच्छं विडालास्थि नकुलाङ्गरुहैः समैः
चूर्णितैर् मेषदुग्धाक्तैर् धूपः सर्वविषापहः ।अप्_297.005अब्।
:प् 101
रोमनिर्गुण्डिकाकोकवर्णैर् वा लशुनं समं
मुनिपत्रैः कृतस्वेदं दष्टं काञ्चिकपाचितैः ।अप्_297.006अब्।
मूषिकाः षोडश प्रोक्ता रसङ्कार्पासजम्पिवेत्
सतैलं मूषिकार्तिघ्नं फलिनीकुसुमन्तथा ।अप्_297.007अब्।
सनागरगुडम्भक्ष्यं तद्विषारोचकापहं
चिकित्सा विंषतिर्भूता लूताविषहरो गणः ।अप्_297.008अब्।
पद्मकं पाटली कुष्ठं नतमूशीरचन्दनं
निर्गुण्डी शारिवा शेलु लूतार्तं सेचयेज्जलैः ।अप्_297.009अब्।
गुञ्जानिर्गुण्डिकङ्कोलपर्णं शुण्ठी निशाद्वयं
करञ्जास्थि च तत्पङ्कैः(1) वृश्चिकार्तिहरं शृणु ।अप्_297.010अब्।
मञ्जिष्ठा चन्दनं व्योषपुष्पं शिरीषकौमुदं
संयोज्याश् चतुरो योगा लेपादौ वृश्चिकापहाः ।अप्_297.011अब्।
ओं नमो भगवते रुद्राय चिवि 2(2) छिन्द 2 किरि 2 भिन्द 2 खड्गे न छेदय
2 शूलेन भेदय 2 चक्रेण दारय 2 ओं ह्रूं फट्
मन्त्रेण मन्त्रितो देयो गर्धभादीन्निकृन्तति
त्रिफलोशीरमुस्ताम्बुमांसीपद्मकचन्दनं ।अप्_297.012अब्।
अजाक्षीरेण पानादेर्गर्धभादेर्विषं हरेत्
हरेत् शिरीषपञ्चाङ्गं व्योषं शतपदीविषं ।अप्_297.013अब्।
सकन्धरं शिरीषास्थि हरेदुन्दूरजं विषं
व्योषं ससर्पिः पिण्डीतमूलमस्य विषं हरेत् ।अप्_297.014अब्।
:न्
1 तत्पक्षैर् इति ज.. , ञ.. , ट.. च
2 चिरि 2 इति ज..
:प् 102
क्षारव्योषवचाडिङ्गुविडङ्गं सैन्धवन्नतं
अम्बष्ठातिबलाकुष्ठं सर्वकीटविषं हरेत् ।अप्_297.015अब्।
यष्टिव्योषगुडक्षीरयोगः(1) शूनो विषापहः
ओं सुभद्रायै नमः ओं सुप्रभायै नमः ।अप्_297.016अब्।
यान्यौषधानि गृह्यन्ते विधानेन विना जनैः
तेषां वीजन्त्व्या ग्राह्यमिति ब्रह्माब्रवीच्च ताम् ।अप्_297.017अब्।
ताम्प्रणम्यौषधीम्पश्चात् यवान् प्रक्षिप्य मुष्टिना
दश जप्त्वा मन्त्रमिदं नमस्कुर्यात्तदौषधं ।अप्_297.018अब्।
त्वामुद्धराम्यूर्ध्वनेत्रामनेनैव च भक्षयेत्
नमः पुरुषसिंहाय नमो गोपालकाय च ।अप्_297.019अब्।
आत्मनैवाभिजानाति रणे कृष्णपराजयं
एतेन सत्यवाक्येन अगदो मे ऽस्तु सिध्यतु ।अप्_297.020अब्।
नमो वैदूर्यमाते तन्न 2 रक्ष मां सर्वविषेभ्यो गौरि गान्धारि
चाण्डालि मातङ्गिनि स्वाहा हरिमाये
औषधादौ प्रयोक्तव्यो मन्त्रो ऽयं स्थावरे विषे
भुक्तमात्रे स्थिते ज्वाले पद्मं शीताम्बुसेवितं ।अप्_297.021अब्।
पाययेत्सघृतं क्षौद्रं विषञ्चेत्तदनन्तरं
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0