अग्नि पुराण · अध्याय 293
:ए इत्य् आग्नेये महापुराणे मन्त्रपरिभाषा नाम
द्विनवत्यधिकद्विशततमो ऽध्यायः
% छप्तेर् {293}
:श् अथ त्रिनवत्यधिकद्विशततमो ऽध्यायः
नागलक्षणानि
अग्निरुचाच
नागादयो ऽथ भावादिदशस्थानानि कर्म च ।अप्_293.001अब्।
सूतकं दष्टचेष्टेति सप्तलक्षणमुच्यते
शेषवासुकितक्षाख्याः कर्कटो ऽब्जो महाम्बुजः ।अप्_293.002अब्।
शङ्खपालश् च कुलिक इत्य् अष्टौनागवर्यकाः
दशाष्टपञ्चत्रिगुणशतमूर्धान्वितौ क्रमात् ।अप्_293.003अब्।
विप्रौ नृपो विशौ शूद्रौ द्वौ द्वौ नागेषु कीर्तितौ
तदन्वयाः पञ्चशतं तेभ्यो जाता असंख्यकाः ।अप्_293.004अब्।
फणिमण्डलिराजीलवातपित्तकफात्मकाः
व्यन्तरा दोषमिश्रास्ते सर्पां दर्वीकराः स्मृताः ।अप्_293.005अब्।
रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः(1)
गोनसा मन्दगा दीर्घा मण्डलैर् विधैश्चिताः(2) ।अप्_293.006अब्।
:न्
1 रथाङ्गलाङ्गलत्रमुष्टिकाङ्कुशधारिण इति ख..
2 स्थिता इति ख..
:प् 89
राजिलाश्चित्रिताः स्निग्धास्तिर्यगूर्ध्वञ्च वाजिभिः
व्यन्तरा मिश्रचिह्नाश् च भूवर्षाग्नेयवायवः ।अप्_293.007अब्।
चतुर्विधास्ते षड्विंशभेदाः षोडश गोनसाः
त्रयोदश च राजीला व्यन्तरा एकविंशतिः ।अप्_293.008अब्।
ये ऽनुक्तकाले जायन्ते सर्पास्ते व्यन्तराः स्मृताः
आषाढादित्रिमासैः स्याद्गर्भो माषचतुष्टये ।अप्_293.009अब्।
अण्ड्कानां शते द्वे च चत्वारिंशत् प्रसूयते
सर्पा ग्रसन्ति सूतौघान् विना स्त्रीपुन्नपुंसकान् ।अप्_293.010अब्।
उन्मीलते ऽक्षि सप्ताहात् कृष्णो मासाद्भवेद्वहिः
द्वादशाहात् सुबोधः स्यात् दन्ताः स्युः सूर्यदर्शनात् ।अप्_293.011अब्।
द्वात्रिंशद्दिनविंशत्या चतस्रस्तेषु दंष्त्रिकाः
कराली मकरी कालरात्री च यमदूतिका ।अप्_293.012अब्।
एतास्ताः सविषा दंष्ट्रा वामदक्षिणपार्श्वगाः
षन्मासान्मुच्यते कृत्तिं जोवेत्सष्टिसमाद्वयं ।अप्_293.013अब्।
नागाः सूर्यादिवारेशाः सप्त उक्ता दिवा निशि
स्वेषां षट् प्रतिवारेषु कुलिकः सर्वसन्धिषु ।अप्_293.014अब्।
शङ्खेन वा महाब्जेन सह तस्योदयो ऽथवा
द्वयीर्वा नाडिकामन्त्रमन्त्रकं(1) कुलिकोदयः ।अप्_293.015अब्।
दुष्टः स कालः सर्वत्र सर्पदंशे विशेषतः(2)
कृत्तिका भरणी स्वाती मूलं पूर्वत्रयाश्वनी ।अप्_293.016अब्।
विशाखार्द्रा मघाश्लेषा चित्रा श्रवणरोहिणी
हस्ता मन्दकुजौ वारौ पञ्चमी चाष्टमी तिथिः ।अप्_293.017अब्।
:न्
1 नाडिकामात्रसन्त्रकमिति ञ..
2 विनिर्दिशेदिति क.. , ख.. , ज.. , ट.. च
:प् 90
षष्ठी रैक्ता शिवा निन्द्या पञ्चमी च चतुर्दशी
सन्ध्याचतुष्टयं दुष्टं दग्धयोगाश् च राशयः ।अप्_293.018अब्।
एकद्विबहवो दंशा दष्टविद्धञ्च खण्डितम्
अदंशमवगुप्तं(1) स्याद्दंशमेवं चतुर्विधम् ।अप्_293.019अब्।
त्रयो द्व्येकक्षता दंशा वेदना रुधिरोल्वणा
नक्तन्त्वेकाङ्घ्रिकूर्माभा दंशाश् च यमचोदिताः ।अप्_293.020अब्।
दीहीपिपीलिकास्पर्शी कण्ठशोथरुजान्वितः(2)
सतोदो रन्थितो दंशः सविषो न्यस्तनिर्विषः ।अप्_293.021अब्।
देवालये शून्यगृहे वल्मीकोद्यानकोटरे
रथ्यासन्धौ श्मशाने च नद्याञ्च सिन्धुसङ्गमे ।अप्_293.022अब्।
द्वीपे चतुष्पथे सौधे गृहे ऽब्जे पर्वताग्रतः
विलहद्वारे जीर्णकूपे जीर्णवेश्मनि कुड्यके ।अप्_293.023अब्।
शिग्रुश्लेष्मातकाक्षेषु जम्बू डुम्बरेणेषु च
वटे च जीर्णप्राकारे खास्यहृत्कक्षजत्रुणि ।अप्_293.024अब्।
तालौ शङ्खे गले मूर्ध्नि चिवुके नाभिपादयोः
दंशो ऽशुभः शुभो दूतः पुष्पहस्तः सुवाक् सुधीः ।अप्_293.025अब्।
लिङ्गवर्णसमानश् च शुक्लवस्त्रो ऽमलः शुचिः
अपद्वारगतः शस्त्री प्रमादी भूगतेक्षणः ।अप्_293.026अब्।
विवर्णवासाः पाशादिहस्तो गद्गदवर्णभाक्
शुष्ककाष्ठाश्रितः खिन्नस्तिलाक्तककरांशुकः ।अप्_293.027अब्।
आर्द्रवासाः कृष्णरक्तपुष्पयुक्तशिरोरुहः
कुचमर्दी नखच्छेदी गुदस्पृक् पादलेखकः ।अप्_293.028अब्।
:न्
1 सदंशमवलुप्तमिति ञ..
2 कण्ठशोषरुजान्त्रित इति ञ..
:प् 91
केशमुञ्ची तृणच्छेदी दुष्टा दूतास्तथैकशः
इडान्या वा वहेद्द्वेधा यदि दूतस्य चात्मनः ।अप्_293.029अब्।
आभ्यां द्वाभ्यां पुष्टयास्मान् विद्यास्त्रीपुन्नपुंसकान्
दूतः स्पृशति यद्गात्रं तस्मिन् दंशमुदाहरेत् ।अप्_293.030अब्।
दूताङ्घ्रिचलनं दुष्ठमुत्थितिर्निश् चला शुभा
जीवपार्श्वे शुभो दूतो दुष्टो ऽन्यत्र सम्मागतः ।अप्_293.031अब्।
जीवो गतागतैर् दुष्टः शुभो दूतनिवेदने
दूतस्य वाक् प्रदुष्टा सा पूर्वामजार्धनिन्दिता ।अप्_293.032अब्।
विभक्तैस्तस्य वाक्यान्तैर्विषर्निर्विषकालता(?)
आद्यैः स्वरैश् च काद्यश् च वर्गैर् भिन्नलिपिर्द्विधा ।अप्_293.033अब्।
स्वरजो वसुमान्वर्गी इतिक्षेपा च मातृका
वाताग्नीन्द्रजलात्मानो वर्गेषु च चतुष्टयम् ।अप्_293.034अब्।
नपुंसकाः पञ्चमाः स्युः स्वराः शक्राम्बुयोनयः
दुष्टौ दूतस्य वाक्पादौ वाताग्नी मध्यमो हरिः ।अप्_293.035अब्।
प्रशस्ता वारुणा वर्णा अतिदुष्टा नपुंसकाः
प्रस्थाने मङ्गलं वाक्यं गर्जितं मेघहस्तिनोः ।अप्_293.036अब्।
प्रदक्षिणं फले वृक्षे वामस्य च रुतं जितं
शुभा गीतादिशब्दाः स्युरीदृशं स्यादसिद्धये ।अप्_293.037अब्।
अनर्थगीरथाक्रन्दो दक्षिणे विरुतं क्षुतम्
वेश्या क्षुतो नृपः कन्या गौर्दन्ती मुरजध्वजौ ।अप्_293.038अब्।
क्षीराज्यदधिशङ्खाम्बु छत्रं भेरी फलं सुराः
तण्डुला हेम रुप्यञ्च सिद्धये ऽभिमुखा अमी ।अप्_293.039अब्।
सकाष्ठः सानलः कारुर्मलिनाम्बरभावभृत्
:प् 92
गलस्थटङ्गो गोमायुगृध्रोलूककपर्दिकाः ।अप्_293.040अब्।
तैलं कपालकार्पासा निषेधे भस्म नष्टये
विषरोगाश् च सप्त स्युर्धातोर्धात्वन्तराप्तितः ।अप्_293.041अब्।
विषदंशो ललाटं यात्यतोनेत्रं ततौ सुखम् ।अप्_293.041च्द्।
आस्याच्च वचनीनाड्यौ धातून प्राप्नोति हि क्रमात्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0