अग्नि पुराण · अध्याय 294
:ए इत्य् आग्नेये महापुराणे नागलक्षणदिर्नाम
त्रिनवत्यधिकद्विशततमो ऽध्यायः
% छप्तेर् {294}
:श् अथ चतुर्नवत्यधिकद्विशततमो ऽध्यायः
दष्टचिकित्सा
अग्निर् उवाच
मन्त्रध्यानौषधैर् दष्टचिकित्सां प्रवदामि ते ।अप्_294.001अब्।
ओं नमो भगवते नीलकण्ठायेति ।अप्_294.001च्द्।
जपनाद्विषहानिः स्यदौषधं जीवरक्षणं
साज्यं सकृद्रसं पेयं द्विविधं विषमुच्यते ।अप्_294.002अब्।
जङ्गमं सर्पभूषादि शृङ्ग्यादि स्थावरं विषं
शान्तस्वरान्वितो ब्रह्मा लोहितं तारकं(1) शिवः ।अप्_294.003अब्।
वियतेर्नाममन्त्रो ऽयं तार्क्षः शब्दमयः स्मृतः
ओं ज्वल महामते हृदयाय गरुडविरालशिरसे(2) गरुडशिखायै
गरुड विषभञ्जन प्रभेदन प्रभेदन वित्रासय वित्रासय
विम-[!!!]
:न्
1 तारकः इति ख..
2 गरुडविलासशिरसे इति ख..
:प् 93
र्दय विमर्दय कवचाय अप्रतिहतशामनं वं हूं फट् अस्त्राय
उग्ररूपवारक सर्वभयङ्कर भीषय सर्वं दह दह भस्मीकुरु
कुरु स्वाहा नेत्राय
सप्तवर्गान्तयुग्माष्टदिग्दलस्वर केशरादिवर्णरुद्धं
वह्निराभूतकर्णकं मातृकाम्बुजं
कृत्वा हृदिस्थं तन्मन्त्री वामहस्ततले स्मरेत् ।अप्_294.004अब्।
अङ्गष्ठादौ न्यसेद्वर्णान्वियतेर्भेदिताः कलाः(1)
पीतं वज्रचतुष्कोणं पार्थिवं शक्रदैवतं ।अप्_294.005अब्।
वृत्तार्धमाप्यपद्मार्धं शुक्लं वरूणदैवतं
त्र्यस्त्रं स्वस्तिकयुक्तञ्च तैजसं वह्निदैवतं ।अप्_294.006अब्।
वृत्तं विन्दुवृतं वायुदैवतं कृष्णमालिनम्
अङ्गुष्ठाद्यङ्गुलीमध्ये पर्यस्तेषु स्ववेश्मसु ।अप्_294.007अब्।
सुवर्णनागवाहेन वेष्ठितेषु न्यसेत् क्रमात्
वियतेश् चतुरो वर्णान् सुमण्डलसमत्विषः ।अप्_294.008अब्।
अरूपे रवतन्मात्रे(2) आकाशेशिवदेवते
कनिष्ठामध्यपर्वस्थे न्यसेत्तस्याद्यमक्षरम् ।अप्_294.009अब्।
नागानामादिवर्णांश् च स्वमण्डलगतान्न्यसेत्
भूतादिवर्णान् विन्यसेदङ्गुष्टाद्यन्तपर्वसु ।अप्_294.010अब्।
तन्मात्रादिगुणाभ्यर्णानङ्गुलीषु न्यसेद्बुधः
स्पर्शनादेवतार्क्षेण हस्ते हन्याद्विषद्वयं ।अप्_294.011अब्।
मण्डलादिषु तान् वर्णान् वियतेः कवयो जितान्
श्रेष्ठद्व्यङ्गुलिभिर्देहनाभिस्थानेषु पर्वसु ।अप्_294.012अब्।
:न्
1 भेदिकास्तथेति ख..
2 वरतन्मत्रे इति ख..
:प् 94
आजानुतः सुवर्णाभमानाभेस्तुहिनप्रभम्
कुङ्कुमारुणमाकण्ठादाकेशान्तात् सितेतरं ।अप्_294.013अब्।
ब्रह्माण्डव्यापिनं तार्क्षञ्चन्द्राख्यं नागभूषणम्
नीलोग्रनाशमात्मानं महापक्षं स्मरेद्बुधः ।अप्_294.014अब्।
एवन्तात्क्षात्मनो वाक्यान्मन्त्रः स्यान्मन्त्रिणो विषे
सुष्टिस्तार्क्षकरस्यान्तःस्थिताङ्गुष्ठविषापहा ।अप्_294.015अब्।
तार्क्षं हस्तं समुद्यम्य तत्पञ्चाङ्गुलिचालनात्
कुर्याद्विषस्य स्तम्भादींस्तदुक्तमदवीषया ।अप्_294.016अब्।
आकाशादेष भूवीजः पञ्चार्णाधिपतिर्मनुः
संस्तम्भयेतिविषतो भाषया स्तम्भ्येद्विषम् ।अप्_294.017अब्।
व्यत्यस्तभूषया वीजो मन्त्रो ऽयं साधुसाधितः
संप्लवः प्लावय यमः(1) शब्दाद्यः संहरेद्विषं ।अप्_294.018अब्।
दण्डमुत्थापयेदेष सुजप्ताम्भो ऽभिषेकतः
सुजप्तशङ्खभेर्यादिनिस्वनश्रवणेन वा ।अप्_294.019अब्।
संदहत्येव संयुक्तो भूतेजोव्यत्ययात् स्थितः
भूवायुव्यत्ययान्मन्त्रो विषं संक्रामयत्यसौ ।अप्_294.020अब्।
अन्तस्थो निजवेश्मस्थो वीजाग्नीन्दुजलात्मभिः
एतत् कर्म नयेन्मन्त्री गरुडाकृतिविग्रहः ।अप्_294.021अब्।
तार्क्षवर्णगेहस्थस्तज्जपान्नाशयेद्विषम्
जामुदण्डीदमुदितं स्वधाश्रीवीजलाञ्छितं ।अप्_294.022अब्।
स्नानपानात्सर्वविषं ज्वरातोगापमृत्युजित्
पक्षि पक्षि महापक्षि महापक्षि विधि स्वाहा ।अप्_294.023अब्।
:न्
1 यश इति ञ..
:प् 95
पक्षि पक्षि महापक्षि महापक्षि क्षि क्षि स्वाहा
द्वावेतौ पक्षिराड्मन्त्रौ विषघ्नावभिमन्त्रणात्
पक्षिराजाय विध्महे पक्षिदेवाय धीमहि तत्रो गरुड
प्रचोदयात्
वह्निस्थौ पार्श्वतत्पूर्वौ दन्तश्रीकौ च दण्डिनौ ॥
सकालो लाङ्गली चेति नीलकण्ठाद्यमीरितं ।अप्_294.024अब्।
वक्षःकण्ठशिखाश्वेतं न्यसेत्स्तम्भे सुसंस्कृतौ
हर हर हृदयाय नमः कपर्दिने च शिरसे नीलकण्ठाय वै
शिखां कालकूटविषभक्षणाय स्वाहा
अथ वर्म च कण्ठे नेत्रं कृत्तिवासास्त्रिनेत्रं पूर्वाद्यैर् आननैर्
युक्तं श्वेतपीतारुणासितैः
अभयं वरदं चापं वासुकिञ्च दधद्भुजैः ।अप्_294.025अब्।
यस्योपरीतपार्श्वस्थगौरीरुद्रो ऽस्य देवता
पादजानुगुहानाभिहृत्कण्ठाननमूर्धसु ।अप्_294.026अब्।
मन्त्रार्णान्न्यस्य करयोरङ्गुष्ठाद्यङ्गुलीषु च
तर्जन्यादितदन्तासु सर्वमङ्गुष्ठयोर् न्यसेत् ।अप्_294.027अब्।
ध्यात्वैवं संहरेत् क्षिप्रं वद्धया शूलमुद्रया
कनिष्ठा ज्येष्ठया वद्धा तिश्रो ऽन्याः प्रसृतेर्जवाः ।अप्_294.028अब्।
विषनाशे वामहस्तमन्यस्मिन् दक्षिणं करं
ओं नमो भगवते नीलकण्ठाय चिः अमलकण्ठाय चिः
सर्वज्ञकण्ठाय चिः क्षिप ओं स्वाहा
अमलनीलकण्ठाय नैकसर्वविषापहाय
नमस्ते रुद्रमन्यव इतिसर्मार्जनाद्विषं विनश्यति न सन्देहः
कर्णजाप्या उपानहावा
:प् 96
यजेद्रुद्रविधानेन नीलग्रीवं महेश्वरम् ।अप्_294.029अब्।
विषव्याधिविनाशः स्यात् कृत्वा रुद्रविधानकं
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0