अग्नि पुराण · अध्याय 292
:ए इत्य् आग्नेये महापुराणे शान्त्यायुर्वेदो
नामैकनवत्यधिकद्विशततमो ऽध्यायः
% छप्तेर् {292}
:श् अथ द्विनवत्यधिकद्विशततमो ऽध्यायः
मन्त्रपरिभाषा
अग्निर् उवाच
मन्त्रविद्याहरिं वक्ष्ये भुक्तिमुक्तिप्रदं शृणु ।अप्_292.001अब्।
विंशत्यर्णाधिका मन्त्रा मालामन्त्राः स्मृता द्विज
दशाक्षराधिका मन्त्रास्तदर्वाग्वीजसंज्ञिताः ।अप्_292.002अब्।
वर्धक्ये सिद्धिदा ह्य् एते मालामन्त्रास्तु यौवेन
पञ्चाक्षराधिका मन्त्राः सिद्धिदाः सर्वदापरे ।अप्_292.003अब्।
स्त्रीपुंनपुंसकत्वेन त्रिधाः स्युर्मन्त्रजातयः
स्त्रीमन्त्रा वह्निजायन्ता नमोन्ताश् च नपुंसकाः ।अप्_292.004अब्।
शेषाः पुमांसस्ते शस्ता वक्ष्योच्चाटविषेषु च(1)
क्षुद्रक्रियामयध्वंसे स्त्रियो ऽन्यत्र(2) नपुंसकाः ।अप्_292.005अब्।
मन्त्रावाग्नेयसौम्याख्यौ ताराद्यन्तार्द्वयोर्जपेत्
तारान्त्याग्निवियत्प्रायो मन्त्र आग्नेय इष्यते ।अप्_292.006अब्।
शिष्टः सौम्यः प्रशस्तौ तौ कर्मणोः क्रूरसौम्ययोः
:न्
1 बन्धोच्चाटवशेषु चेति ज..
2 स्त्रियो नात्रेति ख..
:प् 84
आग्नेयमन्त्रः सौम्यः स्यात्प्रायशो ऽन्ते नमो ऽन्वितः ।अप्_292.007अब्।
सौम्यमन्त्रस् तथाग्नेयः फट्कारेणान्ततो युतः
सुप्तः प्रबुद्धमात्रो वा मन्त्रः सिद्धिं न यच्छति ।अप्_292.008अब्।
श्वापकालो महावाहो जागरो दक्षिणावहः
आग्नेयस्य मनोः सौम्यमन्त्रस्यैतद्विपर्ययात् ।अप्_292.009अब्।
प्रबोधकालं जानीयादुभयोरुभयोरहः
दुष्टर्क्षराशिविद्वेषिवर्णादीन् वर्जयेन्मनून् ।अप्_292.010अब्।
राज्यलाभोपकाराय प्रारभ्यारिः स्वरः कुरून्
गोपालककुटीं प्रायात् पूर्णामित्युदिता लिपिः ।अप्_292.011अब्।
नक्षेत्रेक्षक्रमाद्योज्या स्वरान्त्यौ रेवतीयुजौ
वेला गुरुः स्वराः शोणः कर्मणैवेतिभेदिताः ।अप्_292.012अब्।
लिप्यर्णा वशिषु ज्ञेया षष्ठेशादींश् च योजयेत्
लिपौ चतुष्पथस्थायामाख्यवर्णपदान्तराः ।अप्_292.013अब्।
सिद्धाः साध्या द्वितीयस्थाः सुसिद्धा वैरिणः परे
सिद्धादीन् कल्पयेदेवं सिद्धात्यन्तगुणैर् अपि(1) ।अप्_292.014अब्।
सिद्धे सिद्धो जपात् साध्यो जपपूजाहुतादिना(2)
सुसिद्धो ध्यानमात्रेण साधकं नाशयेदरिः ।अप्_292.015अब्।
दुष्टार्णप्रचुरो यः स्यान्मन्त्रः सर्वविनिन्दितः
प्रविश्य विधिवद्दीक्षामभिषेकावसानिकाम् ।अप्_292.016अब्।
श्रुत्वा तन्त्रं गुरोर् लब्धं साधयेदीप्सितं मनुम्
धीरो दक्षः शुचिर्भक्तो जपध्यानादितत्परः ।अप्_292.017अब्।
:न्
1 सिद्धद्यन्तदलैर् अपीति ज..
2 जपपूर्णाहुतादिनेति ख..
:प् 85
सिद्धस्तपस्वी कुशलस्तन्त्रज्ञः सत्यभाषणः
निग्रहानुग्रहे शक्तो गुरुरित्यभिधीयते ।अप्_292.018अब्।
शान्तो दान्तः पटुश्चीर्णब्रह्मचर्यो हविष्यभुक्
कुर्वन्नाचार्यशुश्रूषां सिद्धोत्साही स शिष्यकः ।अप्_292.019अब्।
स तूपदेश्यः पुत्रश् च विनयी वसुदस् तथा
मन्त्रन्दद्यात् सुसिद्धौ तु सहस्रं देशिकं जपेत् ।अप्_292.020अब्।
यदृच्छया श्रुतं मन्त्रं छलेनाथ बलेन वा
पत्रे स्थितञ्च गाथाञ्च जनयेद्यद्यनर्थकम् ।अप्_292.021अब्।
मन्त्रं यः साधयेदेकं जपहोमार्चनादिभिः
क्रियाभिर्भूरिभिस्तस्य सिध्यन्ते स्वल्पसाधनात् ।अप्_292.022अब्।
सम्यक्सिद्धैकमन्त्रस्य नासाध्यमिह किञ्चन
बहुमन्त्रवतः पुंसः का कथा शिव एव सः ।अप्_292.023अब्।
दशलक्षजपादेक वर्णो मन्त्रः प्रसिध्यति
वर्णवृद्ध्या जपह्रासस्तेनान्येषां समूहयेत् ।अप्_292.024अब्।
वीजाद्द्वित्रिगुणान्मन्त्रान्मालामन्त्रे जपक्रिया
सङ्ख्यानुक्तौ शतं साष्टं सहस्रं वा जपादिषु ।अप्_292.025अब्।
जपाद्दशांशं सर्वत्र साभिशेकं हुतं विदुः
द्रव्यानुक्तौ घृतं होमे जपो ऽशक्तस्य सर्वतः ।अप्_292.026अब्।
मूलमन्त्राद्दशांशः स्यादङ्गादीनां जपादिकम्
जपात्सशक्तिमन्त्रस्य कामदा मन्त्रदेवताः ।अप्_292.027अब्।
साधकस्य भवेत् तृप्ता ध्यानहोमार्चनादिना
उच्चैर्जपाद्विशिष्टः स्यादुपांशुर्दशभिर्गुणैः ।अप्_292.028अब्।
जिह्वाजपे शतगुणः सहस्रो मानसः स्मृतः
:प् 86
प्राङ्मुखो ऽवाङ्मुखो वापि मन्त्रकर्म समारभेत् ।अप्_292.029अब्।
प्रणवाद्याः सर्वमन्त्रा वाग्यतो विहिताशनः
आसीनस्तु जपेन्मन्त्रान्देवताचार्यतुल्यदृक् ।अप्_292.030अब्।
कुटीविविक्ता देशाः स्युर्देवालयनदीह्रदाः
सिद्धौ यवागूपूपैर् वा पयो भक्ष्यं हविष्यकम् ।अप्_292.031अब्।
मन्त्रस्य देवता तावत्(1) तिथिवारेषु वै जपेत्
कृष्णाष्टमीचतुर्दश्योर्ग्रहणादौ च साधकः ।अप्_292.032अब्।
दस्रो यमो ऽनलो धाता शशी रुद्रो गुरुर्दितिः
सर्पाः पितरो ऽथ भगो ऽर्यमा शोतेतरद्युतिः ।अप्_292.033अब्।
त्वष्टा मरुत इन्द्राग्नी मित्रेन्द्रौ निरृतिर्जलम्
विश्वेदेवा हृषीकेशो वायवः सलिलाधिपः ।अप्_292.034अब्।
अजैकपादहिर्व्रध्नः पूषाश्विन्यादिदेवताः
अग्निदस्रावुमा निघ्नो नागश् चन्द्रो दिवाकरः ।अप्_292.035अब्।
मातृदुर्गा दिशामीशः कृष्णो वैवस्वतः शिवः
पञ्चदश्याः शशाङ्कस्तु पितरस्तिथिदेवताः ।अप्_292.036अब्।
हरो दुर्गा गुरुर्विष्णुर्ब्रह्मा लक्ष्मीर्धनेश्वरः
एते सुर्यादिवारेशा लिपिन्यासो ऽथ कथ्यते ।अप्_292.037अब्।
केशान्तेषु च वृत्तेषु चक्षुषोः श्रवणद्वये
नासागण्डौष्ठदन्तानां द्वे द्वे मूर्धस्ययोः क्रमात् ।अप्_292.038अब्।
वर्णान् पञ्चसुवर्गानां(2) बाहुचरणसन्धिषु
पार्श्वयोः पृष्ठतो नाभौ हृदये च क्रमान्न्यसेत् ।अप्_292.039अब्।
:न्
1 तरेति ख..
2 पञ्चस्वरवर्गाणामिति ख..
:प् 87
यादींश् च हृदये न्यस्येदेषां स्युः सप्तधातवः
त्वगसृङ्मांसकस्नायुमेदोमज्जाशुक्राणि धातवः ।अप्_292.040अब्।
वसाः पयो वासको लिख्यन्ते चैव लिपीश्वराः
श्रीकण्ठो ऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः ।अप्_292.041अब्।
अग्नीशो भावभूतिश् च तिथीशः स्थानुको हरः
दण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः ।अप्_292.042अब्।
अक्रूरश् च महासेनः शरण्या देवता अमूः
ततः क्रोधीशत्तण्डौ च पञ्चान्तकशिवोत्तमौ ।अप्_292.043अब्।
तथैव रुद्रकूर्मौ च त्रिनेत्रौ चतुराननः
अजेशः शर्मसोनेशौ तथा लाङ्गलिदारुकौ ।अप्_292.044अब्।
अर्धनारीश्वरश्चोमा कान्तश्चाषाढिदण्डिनौ
अत्रिर्मोनश् च मेषश् च लोहितश् च शिखी तथा ।अप्_292.045अब्।
छगलण्डद्विरण्डौ द्वौ समहाकालवालिनौ
भुजङ्गश् च पिनाकी च खड्गीशश् च वकः पुनः ।अप्_292.046अब्।
श्वेतो भृगुर्लगुडीशाक्षश् च सम्बर्तकः स्मृतः
रुद्रात्मशक्तान् लिख्यादीन् नमोन्तान् विन्यसेत् क्रमात् ।अप्_292.047अब्।
अङ्गानि विन्यसेत्सर्वे मन्त्राः साङ्गास्तु सिद्धिदाः
हृल्लेखाव्योमसपूर्वाण्येतान्यङ्गानि विन्यसेत् ।अप्_292.048अब्।
हृदादीन्यङ्गमन्त्रान्तैर् यो जपेद्धृदये नमः
स्वाहा शिरस्यथ वषट्शिखायां कवचे च् हूं ।अप्_292.049अब्।
वौषत् नेत्रे ऽस्त्राय फटस्यात् पञ्चाङ्गं नेत्रवर्जितम्
निरङ्गस्यात्मना चाङ्गं न्यस्येमान्नियुतं जपेत् ।अप्_292.050अब्।
क्रमाभ्यां देवीं वागीशीं यथोक्तांस्तु तिलान् हुनेत्
:प् 88
लिपिदेवी साक्षसूत्रकुम्भपुस्तकपद्मधृक् ।अप्_292.051अब्।
कवित्वादि प्रयच्छेत कर्मादौ सिद्धये न्यसेत् ।अप्_292.051च्द्।
निष्कविर्निर्मलः सर्वे मन्त्राःसिध्यन्ति मातृभिः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0