भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 291

291.001

:ए इत्य् आग्नेये महापुराणे गजशान्तिर्नाम नवत्यधिकद्विशततमो
ऽध्यायः ॥
:न्
1 कृद्वान्यस्मिन्निति ख.. , ज.. , ञ.. च
:प् 79
% छप्तेर् {291}
:श् अथैकनवत्यधिकद्विशततमो ऽध्यायः
शान्त्यायुर्वेदः
धन्वन्तरिर् उवाच
गोविप्रपालनं कर्यं रज्ञा गोशान्तिमावदे ।अप्_291.001अब्।
गावः पवित्रा माङ्गल्या गोषु लोकाः प्रतिष्ठिताः

291.002

शकृन्मूत्रं परं तासामलक्ष्मीनाशनं परं ।अप्_291.002अब्।
गवां कण्डूयनं वारि शृङ्गस्याघौघमर्दनम्

291.003

गोमूत्रं गोमयं क्षीरं दधि सर्पश् च रोचना ।अप्_291.003अब्।
शडङ्गं परमं पाने दुःस्वप्नाद्यादिवारणं

291.004

रोचना विषरक्षोघ्नी ग्रासदः स्वर्गगो गवां ।अप्_291.004अब्।
यद्गृहे दुःखिता गावः स याति नरकन्नरः

291.005

परगोग्रासदः स्वर्गी गोहितो ब्रह्मलोकभाक् ।अप्_291.005अब्।
गोदानात्कीर्तनाद्रक्षां कृत्वा चोद्धरते कुलम्

291.006

गवां श्वासात् पवित्रा भूः स्पर्शनात्किल्विषक्षयः ।अप्_291.006अब्।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्

291.007

एकरात्रोपवासश् च श्वपाकमपि शोधयेत् ।अप्_291.007अब्।
सर्वाशुभविनाशाय पुराचीरतमीश्वरैः

291.008

प्रत्येकञ्च त्र्यहाभ्यम्तं महासान्तपनं स्मृतं ।अप्_291.008अब्।
सर्वकामप्रदञ्चैतत् सर्वाशुभविमर्दनम्

291.009

कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिं ।अप्_291.009अब्।
निर्मलाः सर्वकामाप्त्या स्युर्गगाः स्पुर् नतोत्तमाः

291.010

:प् 80
त्र्यहमुष्णं पिवेन्मूत्रं त्र्यहमुष्णं घृतं पिवेत् ।अप्_291.010अब्।
त्र्यहमुष्णं पयः पीत्वा वायुभक्षः परं त्र्यहम्

291.011

तप्तकृच्छ्रव्रतं सर्वपापघ्नं ब्रह्मलोकदं ।अप्_291.011अब्।
शीतैस्तु शीतकृच्छ्रं स्याद्ब्रह्मोक्तं ब्रह्मलोकदं

291.012

गोमूत्रेणाचरेत्स्नानं वृत्तिं कुर्याच्च गोरसैः ।अप्_291.012अब्।
गोभिर्व्रजेच्च भुक्तासु भुञ्जीताथ च गोव्रती

291.013

मासेनैकेन निष्पापो गोलोकी स्वर्गगो भवेत् ।अप्_291.013अब्।
विद्याञ्च गोमतीं जप्त्वा गोलोकं परमं व्रजेत्

291.014

गितैर् नृत्यैर् अप्सरोभिर्विमाने तत्र मोदते ।अप्_291.014अब्।
गावः सुरभयो नित्यं गावो गुग्गुलगन्धिकाः

291.015

गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं परं ।अप्_291.015अब्।
अन्नमेव परं गावो देवानां हविरुत्तमम्

291.016

पावनं सर्वभूतानां क्षरन्ति च वदन्ति च ।अप्_291.016अब्।
हविषा मन्त्रपूतेन तर्पयन्त्यमरान्दिवि

291.017

ऋषीणामग्निहोत्रेषु गावो होमेषु योजिताः ।अप्_291.017अब्।
सर्वेषामेव भूतानां गावः शरणमुत्तमं

291.018

गावः पवित्रं परमं गावो माङ्गल्यमुत्तमं ।अप्_291.018अब्।
गावः स्वर्गस्य सोपानं गावो धन्याः सनातनाः

291.019

नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ।अप्_291.019अब्।
नमो ब्रह्मसुताभ्यश् च पवित्राभ्यो नमो नमः

291.020

ब्राह्मणाश् चैव गावश् च कुलमेकं द्विधा कृतम् ।अप्_291.020अब्।
एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति

291.021

:प् 81
देवब्राह्मणगोसाधुसाध्वीभिः सकलं जगत् ।अप्_291.021अब्।
धार्यते वै सदा तस्मात् सर्वे पूज्यतमा मताः

291.022

पिवन्ति यत्र तत्तीर्थं गङ्गाद्या गाव एव हि ।अप्_291.022अब्।
गवां माहात्म्यमुक्तं हि चिकित्साञ्च तथा शृणु

291.023

शृङ्गामयेषु धेनूनां तैलं दद्यात् ससैन्धवं ।अप्_291.023अब्।
शृङ्गवेरबलामांसकल्कसिद्धं समाक्षिकं

291.024

कर्णशूलेषु सर्वेषु मञ्जिष्ठाहिङ्गुसैन्धवैः ।अप्_291.024अब्।
सिद्धं तैलं प्रदातव्यं रसोनेनाथ वा पुनः

291.025

बिल्वमूलमपामार्गन्धातकी चसपाटला ।अप्_291.025अब्।
कुटजन्दन्तमूलेषु लेपात्तच्छूलनाशनं

291.026

दन्तशूलहरैर् द्रव्यैर् घृतं राम विपाचितं ।अप्_291.026अब्।
मुखरोगहरं ज्ञेयं जिह्वारोगेषु सैन्धवं

291.027

शृङ्गवेरं हरिद्रे द्वे त्रिफला च गलग्रहे ।अप्_291.027अब्।
हृच्छूले वस्तिशूले च वातरोगे क्षये तथा

291.028

त्रिफला घृतमिश्रा च गवां पाने प्रशस्यते ।अप्_291.028अब्।
अतीसारे हरिद्रे द्वे पाठाञ्चैव प्रदापयेत्

291.029

सर्वेषु कोष्ठरोगेषु तथाशाखागदेषु च ।अप्_291.029अब्।
शृङ्गवेरञ्च भार्गीञ्च कासे श्वासे प्रदापयेत्

291.030

दातव्या भग्नसन्धाने प्रियङ्गुर्लबणान्विता ।अप्_291.030अब्।
तैलं वातहरं पित्ते मधुयष्टीविपाचितं

291.031

कफे व्योषञ्च समधु सपुष्टकरजो ऽस्रजे ।अप्_291.031अब्।
तैलाज्यं हरितालञ्च भग्नक्षतिशृतन्ददेत्

291.032

मासास्तिलाः सगोधूमाः पशुक्षीरं घृतं तथा ।अप्_291.032अब्।
:प् 82
एषां पिण्डी सलवणा वत्सानां पुष्टिदात्वियं

291.033

बलप्रदा विषाणां स्यद्ग्रहनाशाय धूपकः ।अप्_291.033अब्।
देवदारु वचा मांसी गुग्गुलुर्हिङ्गुसर्षपाः

291.034

ग्रहादिगदनाशाय एष धूपो गवां हितः ।अप्_291.034अब्।
घण्ठा चैव गवां कार्या धूपेनानेन भूपिता

291.035

अश्वगन्धातिलैः शुक्लं तेन गौः क्षीरिणी भवेत् ।अप्_291.035अब्।
रसायनञ्च पिन्याकं मत्तो यो धार्यते गृहे

291.036

भवां पुरीषे पञ्चभ्यां नित्यं शान्त्यै श्रियं यजेत् ।अप्_291.036अब्।
वासुदेवञ्च गन्धाद्यैर् अपरा शान्तिरुच्यते

291.037

अश्वयुक्शुक्लपक्षस्य पञ्चदश्यां यजेद्धरिं ।अप्_291.037अब्।
हरिरुद्रमजं सूर्यं श्रियमग्निं घृतेन च

291.038

दधि सम्प्राश्य गाः पूज्य कार्यं वाह्निप्रदक्षिणं ।अप्_291.038अब्।
वृषाणां योजेयेद् युद्धं गीतवाद्यरवैर् वहिः

291.039

गवान्तु लवणन्देयं ब्राह्मणानाञ्च दक्षिणा ।अप्_291.039अब्।
नैमित्तिके माकरादौ यजेद्विष्णुं सह श्रिया

291.040

स्थण्डिलेब्जे मध्यगते दिक्षु केशरगान् सुरान् ।अप्_291.040अब्।
सुभद्राजो रविः पूज्यो बहुरूपो बलिर्वहिः

291.041

खं विश्वरूपा सिद्धिश् च ऋद्धिः शान्तिश् च रोहिणी ।अप्_291.041अब्।
दिग्धेनवो हि पूर्वाद्याः कृशरैश् चन्द्र ईश्वरः

291.042

दिक्पालाः पद्मपत्रेषु कुम्भेष्वग्नौ च होमयेत् ।अप्_291.042अब्।
क्षीरवृक्षस्य समिधः सर्षपाक्षततण्डुलान्

291.043

शतं शतं सुवर्णञ्च कांस्यादिकं द्विजे ददेत् ।अप्_291.043अब्।
गावः पूज्या विमोक्तव्याः शान्त्यै क्षीरादिसंयुताः

291.044

:प् 83
अग्निर् उवाच
शालिहोत्रः सुश्रुताय हयायुर्वेदमुक्तवान् ।अप्_291.044अब्।
पालकाप्यो ऽङ्गराजाय गजायुर्वेदमब्रवीत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc