भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 290

290.001

:ए इत्य् आग्नेये महापुराणे अश्वशान्तिर्नामोननवत्यधिकद्विशततमो
ऽध्यायः ॥
% छप्तेर् {290}
:श् अथ नवत्यधिकद्विशततमो ऽध्यायः
गजशान्तिः
शालिहोत्र उवाच
गजशान्तिं प्रवक्ष्यामि गजरोगविमर्दनीम् ।अप्_290.001अब्।
विष्णुं श्रियञ्च पञ्चम्यां नागम् ऐरावतं यजेत्

290.002

ब्रह्माणं शङ्करं विष्णुं शक्रं वैश्नवणंयमं ।अप्_290.002अब्।
चन्द्रार्कौ वरुणं वायुमग्निं पृथ्वीं तथा च खं

290.003

शेषं शैलान् कुञ्जरांश् च ये ते ऽष्टौ देवयोनयः ।अप्_290.003अब्।
विरुपाक्षं महापद्मं भद्रं सुमनसन्तथा

290.004

कुमुदैरावणः पद्मः पुष्पदन्तो ऽथ वामनः ।अप्_290.004अब्।
सुप्रतीकोञ्जनो नागा अष्टौ होमो ऽथ दक्षिणां

290.005

:प् 77
गजाः शान्त्युदकासिक्ता वृद्धौ नैमित्तिकं सृणु ।अप्_290.005अब्।
गजानाम्मकरादौ च ऐशान्यां नगराद्वहिः

290.006

स्थण्डिले कमले मध्ये विष्णुं लक्ष्मीञ्च केशरे ।अप्_290.006अब्।
ब्रह्माणं भास्करं पृथ्वीं यजेत् स्कन्दं ह्य् अनन्तकं

290.007

खं शिवं सोममिन्द्रादींस्तदस्त्राणि दले क्रमात् ।अप्_290.007अब्।
वज्रं शक्तिञ्च दण्डञ्च तोमरं पाशकं गदां

290.008

शूलं पद्मम्बहिर्वृन्ते चक्रे सूर्यन्तथाश्विनौ ।अप्_290.008अब्।
वसूनष्ठौ तथा साध्यान् याम्ये ऽथ नैरृते दले

290.009

देवानाङ्गिरसश्चाश्विभृगवो मरुतो ऽनिले(1) ।अप्_290.009अब्।
विश्वेदेवांस् तथा दक्षे रुद्रा शैद्रे ऽथ मण्डले

290.010

ततो वृत्तया रेखया तु देवान् वै वाह्यतो यजेत् ।अप्_290.010अब्।
सूत्रकारानृषीन् वाणीं पूर्वादौ सरितो गिरीन्

290.011

महाभूतानि कोणेषु ऐशान्यादिषु संयजेत् ।अप्_290.011अब्।
पद्मं चक्रं गदां शङ्खं चतुरश्रन्तु मण्डलं

290.012

चतुर्धारं ततः कुम्भाः(2) अग्न्यादौ च पताकिकाः(3) ।अप्_290.012अब्।
चत्वारस्तोरणा द्वारि नागान् ऐरवतादिकान्

290.013

पूर्वादौ चौषधीभिश् च देवानां भाजनं पृथक् ।अप्_290.013अब्।
पृथक्शताहुतीश्चाज्यैर् गजानर्च्य प्रदक्षिणं

290.014

नागं वह्निं देवतादीन् वाह्यैर् जग्मुः स्वकं गृहम् ।अप्_290.014अब्।
द्विजेभ्यो दिक्षिणां दद्यात् हयवैद्यादिकस् तथा

290.015

करिणीन्तु समारुह्य वदेत् कर्णन्तु कालवित् ।अप्_290.015अब्।
:न्
1 मरुतो ऽनल इति ज
2 चतुःकुम्भा इति ञ..
3 पताकिन इति ज..
:प् 78
नागराजे ऽमृते शान्तिं कृत्वामुस्मिन्(1) जपेन्मनुम्

290.016

श्रीगजस्त्वं कृतो राज्ञा भवानस्य गजाग्रणीः ।अप्_290.016अब्।
प्रभूर्माल्याग्रभक्तैस्त्वां पूजयिष्पति पार्थिवः

290.017

लोकस्तदाज्ञया पूजां करिष्यति तदा तव ।अप्_290.017अब्।
पालनीयस्त्वया राजा युद्धे ऽध्वनि तथा गृहे

290.018

तिर्यग्भावं समुत्सृज्य दिव्यं भावमनुस्मर ।अप्_290.018अब्।
देवासुरे पुरा युद्धे श्रीगजस्त्रिदशैः कृतः

290.019

ऐरावणसुतः श्रीमानरिष्टो नाम वारणः ।अप्_290.019अब्।
श्रीगजानान्तु तत् तेजः सर्वमेवोपतिष्ठते

290.020

तत्तेजस्तव नागेन्द्र दिव्यभावसमन्वितं ।अप्_290.020अब्।
उपतिष्ठतु भद्रन्ते रक्ष राजानमाहवे

290.021

इत्येवमभिषिक्तैनमारोहेत शुभे नृपः ।अप्_290.021अब्।
तस्यानुगमनं कुर्युः सशस्त्रनवसद्गजाः

290.022

शालास्वसौ स्थण्डिले ऽब्जे दिकपालादीन् यजेद्वहिः ।अप्_290.022अब्।
केशरेषु बलं नागं भुवञ्चैच सरस्वतीं

290.023

मध्येषु डिण्डिमं प्रार्च्य गन्धमाल्यानुलेपनैः ।अप्_290.023अब्।
हुत्वा देयस्तु कलसो रसपूर्णो द्विजाय च

290.024

गजाध्यक्षं हस्तिपञ्च गणितज्ञञ्च पूजयेत् ।अप्_290.024अब्।
गजाध्यक्षाय तन्दद्यात् डिण्डिमं सोपि वादयेत् ।अप्_290.024च्द्।
शुभगम्भीरशब्दैः स्याज्जघनस्थो ऽभिवादयेत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc