अग्नि पुराण · अध्याय 288
:ए इत्य् आग्नेये महापुराणे अश्ववाहनसारो नाम
सप्ताशीत्यधिकद्विशततमो ऽध्यायः ॥
:न्
1 गोर्जितास्ते ऽतिकीर्तिता इति ख..
2 यथाञ्चितमिति ञ..
3 मृगञ्जय इति ख.. , ञ.. च
:प् 70
% छप्तेर् {288}
:श् अथाष्टाशीत्यधिकद्विशततमो ऽध्यायः
अश्वचिकित्सा
शालिहोत्र उवाच
अश्वानां लक्षणं वक्ष्ये
चिकित्साञ्चैव(1)सुश्रुतअप्_288.001अब्।
हीनदन्तो विदन्तश् चकराली कृष्णतालुकः
कृष्णजिह्वश् च यमजोजातमुष्कश् च यस् तथा ।अप्_288.002अब्।
द्विशफश् च तथा शृङ्गी त्रिवर्णो व्याघ्रवर्णकः
खरवर्णो भस्मवर्णो जातवर्णश् च काकुदी ।अप्_288.003अब्।
श्वित्री च काकसादी च खरसारस्तथैव च
वानराक्षः कृष्णशटः कृष्णगुह्यस्तथैव च ।अप्_288.004अब्।
कृष्णप्रोथश् च शूकश् च यश् च तित्तिरिसन्निभः
विषमः श्वेतपादश् च ध्रुवावर्तविवर्जितः ।अप्_288.005अब्।
अशुभावर्तसंयुक्तो वर्जनीयस्तुरङ्गमः
रन्ध्रोपरन्ध्रयोर्द्वौ द्वौ द्वौ द्वौ मस्तकवक्षसोः ।अप्_288.006अब्।
प्रयाणे च ललाटे च कण्ठावर्ताः शुभा दश
मृक्कण्याञ्च ललाटे च कर्णमूले निगालके ।अप्_288.007अब्।
बाहुमूले गले श्रेष्ठा आवर्तास्त्वशुभाः परे
शुकेन्द्रगोपचन्द्राभा ये च वायससन्निभाः ।अप्_288.008अब्।
सुवर्णवर्णाः स्निग्धाश् च प्रशस्यास्तु सदैव हि
दीर्घग्रीवाक्षिकूटाश् च ह्रस्वकर्णाश् च शोभनाः ।अप्_288.009अब्।
:न्
1 चिकित्सन्तवेति ञ..
:प् 71
राक्षान्तुरङ्गमा यत्र(1) विजयं वर्जयेत्ततः
पालितस्तु हयो दन्ती शुभदो दुःखदो ऽन्यथा ।अप्_288.010अब्।
श्रियः पुत्रास्तु गन्धर्वा वाजिनो रत्नमुत्तमम्
अश्वमेधे तु तुरगः पवित्रत्वात्तु हूयते ।अप्_288.011अब्।
वृषो निम्बवृहत्यौ च गुडूची च समाक्षिका
सिंहा गन्धकारी पिण्डी स्वेदश् च शिरसस् तथा ।अप्_288.012अब्।
हिङ्गु पुष्करमूलञ्च नागरं साम्लवेतसं
पिप्पलीसैन्धवयुतं शूलघ्नं चीष्णवारिणा ।अप्_288.013अब्।
नागरातिविषा मुस्ता सानन्ता बिल्वमालिका
क्वाथमेषां पिवेद्वाजी सर्वातीसारनाशनम् ।अप्_288.014अब्।
प्रियङ्गुसारिवाभ्याञ्च युक्तमाजं शृतं(2) पयः
पर्याप्तशर्करं पीत्वा श्रमाद्वाजी विमुच्यते ।अप्_288.015अब्।
द्रोणिकायान्तु दातव्या तैलवस्तिस्तुरङ्गमे
कोष्ठजा च शिरा वेध्या तेन तस्य सुखं भवेत् ।अप्_288.016अब्।
दाऋइमं त्रिफला व्योषं गुडञ्च समभाविकम्
पिण्डमेतत् प्रदातव्यमश्वानां काशनाशनम् ।अप्_288.017अब्।
प्रियङ्गुलोध्रमधुभिः पिवेद्वृषरसं हयः
क्षीरं वा पञ्चकोलाद्यं काशनाद्धि प्रमुच्यते ।अप्_288.018अब्।
प्रस्कन्धेषु च सर्वेषु श्रेय आदौ विशोधणम्
अभ्यङ्गोद्वर्तनैः स्नेहं नस्यवर्तिक्रमः स्मृतः ।अप्_288.019अब्।
ज्वरितानां तुरङ्गाणां पयसैव क्रियाक्रमः
लोध्रकन्धरयोर्मूलं मातुलाङ्गाग्निनागराः ।अप्_288.020अब्।
:न्
1 राज्ञीतुरङ्गमा यत्रेति ख..
2 घृतमिति ख..
:प् 72
कुष्ठहिङ्गुवचारास्नालेपोयं शोथनाशनः
मञ्जिष्ठा मधुकं द्राक्षावृहत्यौ रक्तचन्दनम् ।अप्_288.021अब्।
त्रपुषीवीजमूलानि शृङ्गाटककशेरुकम्
अजापयःशृतमिदं सुशीतं शर्करान्वितं ।अप्_288.022अब्।
पीत्वा नीरशनो वाजी रक्तमेहात् प्रमुच्यते
मन्याहनुनिगालस्थशिराशोथो गलग्रहः ।अप्_288.023अब्।
अभ्यङ्गः कटुतैलेन(1) तत्र तेष्वेव शस्यते
गलग्रहगदो शोथः प्रायशो गलदेशके ।अप्_288.024अब्।
प्रत्यक्पुष्पी तथा बह्निः सैन्धवं सौरसो रसः
कृष्णाहिङ्गुयुतैर् एभिः कृत्वा नस्यं न सीदति ।अप्_288.025अब्।
निशे ज्योतिष्मती पाठा कृष्णा कुष्ठं वचा मधु
जिह्वास्तम्भे च लेपो ऽयं गुडमूत्रयुतो हितः ।अप्_288.026अब्।
तिलैर् यष्ट्या रजन्या च निम्बपत्रैश् च योजिता
क्षौद्रेण शोधनी पिण्डी सर्पिषा व्रणरोपणी ।अप्_288.027अब्।
अभिघातेन खञ्जन्ति ये ह्य् अश्चास्तीव्रवेदनाः
परिषेकक्रिया तेषां तैलेनाशु रुजापहा ।अप्_288.028अब्।
दोषकोपाभिघाताभ्यां पक्वभिन्ने व्रणक्रमः
अश्वत्थोडुम्बरप्लक्षमधूकवटकल्कनैः ॥29
प्रभूतसलिलः क्वाथः सुखोष्णः व्रणशोधनः ।अप्_288.030अब्।
शताह्वा नागरं रास्ना मञ्जिष्ठाकुष्ठसैन्धवैः
देवदारुवचायुग्मरजनीरक्तचन्दनैः ।अप्_288.031अब्।
तैलसिद्धं कषायेण गुडूच्याः पयसा सह
:न्
1 तिलतैलेनेति ख..
:प् 73
म्रक्षेण वस्तिनश्ये च योज्यं सर्वत्र लिङ्गिने ।अप्_288.032अब्।
रक्तस्रावो जलौकाभिर् नेत्रान्ते नेत्ररोगितः
खादितोडुम्बराश्वत्थकषायेण च साधनम् ।अप्_288.033अब्।
धात्रीदुरालभातिक्ताप्रियङ्गुकुङ्कुमैः समैः
गुडूच्या च कृतः कल्को हितो युक्तावलम्बिने ।अप्_288.034अब्।
उत्पाते च शिले श्राव्ये शुष्कशेफे तथैव च
क्षिप्रकारिणि दोषे च सद्यो विदलमिष्यते(1) ।अप्_288.035अब्।
गोशकृन्मञ्जिकाकुष्ठरजनीतिलमर्षपैः
गवां मूत्रेण पिष्टैश् च मर्दनं कण्डुनाशनम् ।अप्_288.036अब्।
शीतो मधुयुतः क्वाथो नाशिकायां सशर्करः
रक्तपित्तहरः पानादश्वकर्णैस्तथैव च ।अप्_288.037अब्।
सप्तमे सप्तमे देयमश्वानां लवणं दिने
तथा भुक्तवतान्देया अतिपाने तु वारुणी ।अप्_288.038अब्।
जीवनीयैः समधुरैर् मृद्वीकाशर्करायुतैः
सपिप्पलीकैः शरदि प्रतिपानं सपद्मकैः ।अप्_288.039अब्।
विडङ्गापिप्पलीधान्यशताह्वालोध्रसैन्धवैः
मचित्रकैस्तुरङ्गाणां प्रतिपानं हिमागमे ।अप्_288.040अब्।
लोध्रप्रियङ्गुकामुस्तापिप्पलीविश्वभेषजैः
सक्षौद्रैः प्रतिपानं स्याद्वसन्ते कफनाशनम् ।अप्_288.041अब्।
प्रियङ्गुपिप्पलीलोध्रयष्ट्याक्षैः समहौषधैः
निदाघे सगुडा देया मदिरा प्रतिपानके ।अप्_288.042अब्।
:न्
वेधनमिस्यत इति ज.. , ञ.. च
:प् 74
लोध्रकाष्ठं सलवणं पिप्पल्यो विश्वभेषजम्
भवेत्तैलयुतैर् एभिः प्रतिपानं घनागमे ।अप्_288.043अब्।
निदाघोद्वृतपित्तार्ताः शरत्सु पुष्टशोणिताः
प्रावृड्भिन्नपुरीषाश् च पिवेयुर्वाजिनो घृतम् ।अप्_288.044अब्।
पिवेयुर्वाजिनस्तैलं कफवाय्वधिकास्तु ये
स्नेहव्यापद्भवो येषां कार्यं तेषां विरूक्षणम् ।अप्_288.045अब्।
त्र्यहं यवागूरूक्षा स्याद् भोजनं तक्रसंयुतम्
शरन्निदाघयोः सर्पिस्तैलं शीतवसन्तयोः ।अप्_288.046अब्।
वर्षासु शिशिरे चैव वस्तौ यमकमिष्यते
गुर्वभिष्यन्दिभक्तानि व्यायामं स्नाजमातपम् ।अप्_288.047अब्।
वायुवर्जञ्च वाहस्य स्नेहपीतस्य वर्जितम्
स्नानं पानं शकृत्क्रूष्ठमश्वानां सलिलागमे ।अप्_288.048अब्।
अत्यर्थं दुर्दिने काले पानमेकं प्रशस्यते
युक्तशीतातपे काले द्विःपानं स्नपनं सकृत् ।अप्_288.049अब्।
ग्रीष्मे त्रिस्नानपानं स्यच्चिरं तस्यायगाहनम्
निस्तूषाणां प्रदातव्या यवानां चतुराटकी ।अप्_288.050अब्।
चणकव्रीहिमौद्गानि कलायं वापि दापयेत्
अहोरात्रेण चार्धस्य यवसस्य तुला दश ।अप्_288.051अब्।
अष्टौ शुष्कस्य दातव्याश् चतस्रो ऽथ वुषस्य वा
दूर्वा पित्तं यवः कासं वुषश् च श्लोष्मसञ्चयम् ।अप्_288.052अब्।
नाशयत्यर्जुनः श्वासं तथा मानो बलक्षयम्
वातिकाः पैत्तिकाश् चैव श्लेष्मजाः सान्निपातिकाः ।अप्_288.053अब्।
न रोगाः पीडयिष्यन्ति दूर्वाहारन्तुरङ्गमम्
:प् 75
द्वौ रज्जुबन्धौ दुष्टानां पक्षयोरुभयोरपि ।अप्_288.054अब्।
पश्चाद्धनुश् च कर्तर्व्यो दूरकीलव्यपाश्रयः
वासेयुस्त्वास्तृते स्थाने कृतधूपनभूमयः ।अप्_288.055अब्।
यत्रोपन्यस्तयवसाः सप्रदीपाः सुरक्षिताः ।अप्_288.055च्द्।
कृकवाक्वजकपयो धार्यश्चाश्वगृहे मृगाः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0