भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 287

287.001

:ए इत्य् आग्नेये महापुराणे गजचिकित्सा नाम
षडशीत्यधिकद्विशततमो ऽध्यायः
% छप्तेर् {287}
:श् अथ सप्ताशीत्यधिकद्विशततमो ऽध्यायः
अश्ववाहनसारः
धन्वन्तरिर् उवाच
अश्ववाहनसारञ्च वक्ष्ये चाश्वचिकित्सनम् ।अप्_287.001अब्।
वाजिनां संग्रहः कार्यो धर्मकमार्थसिद्धये

287.002

अश्विनी श्रणं हस्तं उत्तरात्रितयन्तथा ।अप्_287.002अब्।
नक्षत्राणि प्रशस्तानि हयानामादिवाहने

287.003

हेमन्तः शिशिरश् चैव वसन्तश्चाश्ववाहने ।अप्_287.003अब्।
ग्रीष्मेशरदि वर्षासु निषिद्धं वाहनं हये

287.004

तीव्रैर् न च परैर् दण्डैर् अदेशे न च ताडयेत् ।अप्_287.004अब्।
कीलास्थिसंकुले चैव विषमे कण्टकान्विते

287.005

:प् 64
वालुकापङ्गसंच्छन्ने गर्तागर्तप्रदूषिते ।अप्_287.005अब्।
अचित्तज्ञो विनोपायैर् वाहनं कुरुतेतु हः

287.006

स वाह्यते हयेनैव पृष्ठस्थः कटिकां विना(1)अप्_287.006अब्।
छन्दं विज्ञापयेत् कोपि सकृती धीमतां वरः

287.007

अभ्यासादभियोगाच्च विनाशास्त्रं स्ववाहकः ।अप्_287.007अब्।
स्नातस्य प्रङ्मुखस्याथ देवान् वपुषि योजयेत्

287.008

प्रणवादिनमोन्तेन स्ववीजेन यथाक्रमम् ।अप्_287.008अब्।
ब्रह्मा चित्ते वले विष्णुर्वैनतेयः पराक्रमे

287.009

पार्श्वे रुद्रा गुरुर्बुद्धौ विश्वेदेवाथ मर्मसु ।अप्_287.009अब्।
दृगावर्ते दृशीन्द्वर्कौ कर्णयोरश्विनौ तथा

287.010

जठरे ऽग्निः स्वधा स्वेदे वग्जिह्वायां जवे ऽनिलः ।अप्_287.010अब्।
पृष्ठतो नाकपृष्ठस्तु खुराग्रे सर्वपर्वताः

287.011

ताराश् च रोमकूपेषु हृदि चान्द्रमसी कला ।अप्_287.011अब्।
तेजस्यग्नीरतिः श्रोण्यां ललाटे च जगत्पतिः

287.012

ग्रहाश् च हेषिते चैव तथैवोरसि वासुकिः ।अप्_287.012अब्।
उपोषितो ऽर्चयेत् सादी हयं दक्षश्रुतौ जपेत्

287.013

हय गन्धर्वराजस्त्वं शृणुष्व वचनं गम ।अप्_287.013अब्।
गन्धर्वकुलजातस्त्वं माभूस्त्वं कुलदूषकः

287.014

द्विजानां सत्यवाक्येन सोमस्य गरुडस्य च ।अप्_287.014अब्।
रुद्रस्य वरुणस्यैव पवनस्य बलेन च

287.015

हुताशनस्य दीप्त्या च स्मर जातिं तुरङ्गम ।अप्_287.015अब्।
स्मर राजेन्द्रपुत्रस्त्वं सत्यवाक्यमनुस्मर

287.016

:न्
1 कणिकां विनेति क.. , ञ.. च
:प् 65
स्मर त्वं वारुणीं कन्यां स्मर त्वं कौस्तुभं मणिं ।अप्_287.016अब्।
क्षिरोदसागरे चैव मथ्यमाने सुरासुरैः

287.017

तत्र देवकुले जातः स्ववाक्यं परिपालय ।अप्_287.017अब्।
कुले जातस्त्वमश्वानां मित्रं मे भव शास्वतम्

287.018

शृणु मित्र त्वमेतच्च सिद्धो मे भव वाहन ।अप्_287.018अब्।
विजयं रक्ष माञ्चैव समरे सिद्धिमावह

287.019

तव पृष्ठं समारुह्य हता दैत्याः सुरैः पुरा ।अप्_287.019अब्।
अधुना त्वां समारुह्य जेष्यामि रिपुवाहिनीं

287.020

कर्णजापन्ततः कृत्वा विमुह्य च तथा प्यरीन्(1) ।अप्_287.020अब्।
पर्यानयेद्धयं सादी वहयेद्युद्धतो जयः

287.021

सञ्जाताः स्वशरीरेण(2) दोषाः प्रायेण वाजिनां ।अप्_287.021अब्।
हन्यन्ते ऽतिप्रयत्नेन गुणाः सादिवरैः पुनः

287.022

सहजा इव दृश्यन्ते गुणाः सादिवरोद्भवाः ।अप्_287.022अब्।
नाशयन्ति गुणानन्ये सादिनः सहजानपि

287.023

गुणानेको विजानाति वेत्ति दोषांस् तथापरः ।अप्_287.023अब्।
धन्यो धीमान् हयं वेत्ति मन्दधीः

287.024

अकर्मज्ञो ऽनुपायज्ञो वेगासक्तो ऽतिकोपनः ।अप्_287.024अब्।
घनदण्डरतिच्छिद्रे यः ममोपि न शस्यते

287.025

उपायज्ञो ऽथ चित्तज्ञो विशुद्धो दोषनाशनः ।अप्_287.025अब्।
गुणार्जनपरो नित्यं सर्वकर्मविशारदः

287.026

प्रग्रहेण गृहीत्वाथ प्रविष्टो वाहभूतलम् ।अप्_287.026अब्।
सव्यापसव्यभेदेन वाहनीयः स्वसादिना

287.027

:न्
1 तथासुरनिति ज.. , ञ.. , ट.. च
2 सह जाताः शरीरेणेति ञ..
:प् 66
आरुह्य सहसा नैव ताड्नीयो हयोत्तमः ।अप्_287.027अब्।
ताडनादुभयमाप्नोति भयान्मोहश् च जायते

287.028

प्रातः सादी प्लुतेनैव वल्गामुद्धृत्य चालयेत् ।अप्_287.028अब्।
मन्दं मन्दं विना नालं धृतवल्गो दिनान्तरे

287.029

प्रोक्तमाश्वसनं सामभेदो ऽश्वेन नियोज्यते ।अप्_287.029अब्।
कषादिताड्नं दण्डो दानं कालसहिष्णुता

287.030

पर्वपूर्वविशुद्धौ तु विदध्यादुत्तरोत्तरम् ।अप्_287.030अब्।
जिह्वातले विनायोगं विदध्याद्वाहने हये

287.031

गुणेतरशतां वल्गां सृक्कण्या सह गाहयेत् ।अप्_287.031अब्।
विस्मार्य वाहनं कुर्याच्छिथिलानां शनैः शनैः

287.032

हयं जिह्वाङ्गमाहीने जिह्वाग्रन्थिं विमोचयेत् ।अप्_287.032अब्।
गाटतां मोचयेत्तावद्यावत् स्तोभं न सुञ्चति

287.033

कुर्याच्छतमुरस्त्राणमविलालञ्च मुञ्चति ।अप्_287.033अब्।
ऊर्धाननः स्वभाद्यस्तस्योरस्त्राणमश्लथम्

287.034

विधाय वाहयेद्दृष्ट्या लीलया सादिसत्तमः ।अप्_287.034अब्।
तस्य सव्येन पूर्वेण संयुक्तं सव्यवल्गया

287.035

यः कुर्यात्पश्चिमं पादं गृहीतस्तेन दक्षिणः ।अप्_287.035अब्।
क्रमेणानेन यो सेवां कुरुते वामवल्गया

287.036

पादौ तेनापि पादः स्याद्गृहीतो वाम एव हि ।अप्_287.036अब्।
अग्रे चेच्चरणे त्यक्ते जायते सुदृढासनं

287.037

यौ हृतौ दुष्करे चैव मोटके नाटकायनं ।अप्_287.037अब्।
सव्यहीनं खलीकारो हनेन गुणने तथ

287.038

स्वहावं हि तुरङ्गस्य मुखव्यावर्तनं पुरः ।अप्_287.038अब्।
:प् 67
न चैवेत्थं तुरङ्गाणां पादग्रहणहेतवः

287.039

विश्वस्तं हयमालोक्य गाढमापीड्य चासनं ।अप्_287.039अब्।
रोकयित्वा मुखे पादं ग्राह्यतो लोकनं हितं

287.040

गाढमापीड्य रागाभ्यां वल्गामाकृष्य गृह्यते ।अप्_287.040अब्।
तद्वन्धनाद् युग्मपादं(1) तद्वद्वक्वनमुच्यते

287.041

संयोज्य वल्गया पादान् वल्गामामोच्य वाञ्छितम् ।अप्_287.041अब्।
वाह्यपार्ष्णिप्रयोगात्तु(2) यत्र तत्ताडनं मतम्

287.042

प्रलयाविप्लवे ज्ञात्वा क्रमेणानेन बुद्धिमान् ।अप्_287.042अब्।
मोटनेन चतुर्थेन विधिरेष बिधीयते

287.043

नाधत्ते ऽधश् च पादं यो ऽश्वो लघुनि मण्डले ।अप्_287.043अब्।
मोटनोद्वक्कनाभ्यान्तु ग्राहयेत् पादमीशितं

287.044

वटयित्वासने(3) गाटं मन्दमादाय यो ब्रजेत् ।अप्_287.044अब्।
ग्राह्यते संग्रहाद्यत्र तत्संग्रहणमुच्यते

287.045

हत्वा पर्श्वे प्रहारेण स्थानस्थो व्यग्रमानसम् ।अप्_287.045अब्।
वल्गामाकृष्य पादेन ग्राह्यकण्टकपायनम्(4)

287.046

उत्थितो यो ऽङ्घ्रणानेन पार्ष्ण्निपादात्तुरङ्गमः ।अप्_287.046अब्।
गृह्यते यत् खलीकृत्य खलीकारः स चेष्यते

287.047

गतित्रये पियः पादमादत्ते नैव वाञ्छितः ।अप्_287.047अब्।
हत्वा तु यत्र दण्डेन ग्राह्यते गहनं हि तत्

287.048

खलीकृत्य चतुष्केण तुरङ्गो वल्गयान्यया ।अप्_287.048अब्।
उच्छास्य ग्राह्यते ऽन्यत्र तत्स्यादुच्छासनं पुनः

287.049

:न्
1 भठकालाद्यनुत्पादमिति ज..
2 बाह्यपार्श्वे प्रयोगात्त्विति ख..
3 वण्टयित्वासने इति ख..
4 ग्राहकण्टकपायनमिति ख..
:प् 68
स्वभावं बहिरस्यन्तं तस्यां दिशि पदायनं ।अप्_287.049अब्।
नियोज्य ग्राहयेत्तत्तु मुखव्यापर्तनं मतम्

287.050

ग्राहयित्वा ततः पादं त्रिविधासु यथाक्रमम् ।अप्_287.050अब्।
साधयेत् पञ्चधारासु क्रमशो मण्डलादिषु

287.051

आजनोर्धाननं वाहं शिथिलं वाहयेत् सुधीः ।अप्_287.051अब्।
अङ्गेषु लाघवं यावत्तावत्तं वाहयेद्धयं

287.052

मृदुः स्कन्धे लघुर्वक्त्रे शिथिलः सर्वसन्धिषु ।अप्_287.052अब्।
यदा ससादिनो वश्यः सङ्गृह्णीयात्तदा हयं

287.053

न त्यजेत् पश्चिमं पादं यदा साधुर्भवेत्तदा ।अप्_287.053अब्।
तदाकृष्टिर्विधातव्या पाणिभ्यामिह बल्गया

287.054

तत्रत्रिको यथा तिष्ठेदुद्ग्रीवोश्वः समाननः ।अप्_287.054अब्।
धरायां पश्चिमौ पादौ अन्तरीक्षे यदाश्रयौ

287.055

तदा सन्धरणं कुर्याद्गाठवाहञ्च मुष्टिना ।अप्_287.055अब्।
सहसैवं समाकृष्टो यस्तुरङ्गो न तिष्ठति

287.056

शरीरं विक्षिपन्तञ्च साधयेन्मण्डलभ्रमैः ।अप्_287.056अब्।
क्षिपेत् स्कन्धञ्च यो वाहं स च स्थाप्यो हि वल्गया

287.057

गोमयं लवणं मूत्रं क्वथितं मृत्समन्वितम् ।अप्_287.057अब्।
अङ्गलेपो मक्षिकादिदंशश्रमविनाशनः

287.058

मध्ये भद्रादिजातीनां मण्डो देयो हि सादिना ।अप्_287.058अब्।
दर्शनं भोततीक्षस्य निरुत्साहः क्षुधा हयः

287.059

यथा वश्यस् तथा शिक्षा विनश्यन्त्यतिवाहिताः ।अप्_287.059अब्।
अवाहिता न मिध्यन्ति तुङ्गवक्त्रांश् च वाहयेत्

287.060

सम्पीड्य जानुयुग्मेन स्थिरमुष्टिस्तुरङ्गमं ।अप्_287.060अब्।
:प् 69
गोमूत्राकुटिला वेणी पद्ममण्डलमालिका

287.061

पञ्चोलूखलिका कार्या गर्वितास्ते ऽतिकीर्तिताः(1) ।अप्_287.061अब्।
संक्षिप्तञ्चैव विक्षिप्तं कुञ्चितञ्च यथाचितम्(2)

287.062

वल्गितावल्गितौ चैव षोटा चेत्थमुदाहृतम् ।अप्_287.062अब्।
वीथीधनुःशतं यावदशीतिर् नवतिस् तथा

287.063

भद्रः सुसाध्यो वाजी स्यान्मन्दो दण्डैकमानसः ।अप्_287.063अब्।
मृगजङ्घो(3) मृगो वाजी सङ्कीर्णस्तत्समन्वियात्

287.064

शर्करामधुलाजादः सुगन्धो ऽश्वः शुचिर्द्विजः ।अप्_287.064अब्।
तेजस्वी क्षत्रियश्चाश्बो विनीतो बुद्धिमांश् च यः

287.065

शूद्रो ऽशुचिश् चलो मन्दो विरूपो विमतिः खलः ।अप्_287.065अब्।
वल्गया धार्यमाणो ऽश्वो लालकं यश् च दर्शयेत्

287.066

धारासु योजनीयो ऽसौ प्रग्रहग्रहमोक्षणैः ।अप्_287.066अब्।
अश्वादिलक्षणम् वक्ष्ये शालिहोत्रो यथावदत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc