भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 289

289.001

:ए इत्य् आग्नेये महापुराणे अश्वायुर्वेदो
नामाष्टाशीत्यधिकद्विशततमो ऽध्यायः
% छप्तेर् {289}
:श् अथोननवत्यधिकद्विशततमो ऽध्यायः
अश्वशान्तिः
शालिहोत्र उवाच
अश्वशान्तिं प्रवक्ष्यामि वजिरोगविमर्दनीं ।अप्_289.001अब्।
नित्यां नैमित्तकीं कम्यां त्रिविधां शृणु सुश्रुत

289.002

शुभे दिने श्रीधरञ्च श्रियमुच्चैःश्रवाश् च तं ।अप्_289.002अब्।
हयराजं समभ्यर्च्य सावित्रैर् जुजुयाद्घृतं

289.003

द्विजेभ्यो दक्षिणान्दद्यादश्ववृद्धिस् तथा भवेत् ।अप्_289.003अब्।
अश्वयुक् शुक्लपक्षस्य पञ्चदश्याञ्च शान्तिकं

289.004

वहिः कुर्याद्विशेषेण नासत्यौ वरुणं यजेत् ।अप्_289.004अब्।
समुल्लिख्य ततो देवीं शाखाभिः परिवारयेत्

289.005

घतान्सर्वरसैः पूर्णान् दिक्षु दद्यात्सवस्त्रकान् ।अप्_289.005अब्।
यवाज्यं जुहुयात् प्रार्च्य यजेदश्वांश् च साश्विनान्

289.006

:प् 76
विप्रेभ्यो दक्षिणान्दद्यान्नैमित्तिकमतः शृणु ।अप्_289.006अब्।
मकरादौ हयानाञ्च पद्मैर् विष्णुं श्रियं यजेत्

289.007

ब्रह्माणं शङ्करं सोममादित्यञ्च तथाश्विनौ ।अप्_289.007अब्।
रेवन्तमुच्चैःश्रवसन्दिक्पालांश् च दलेष्वपि

289.008

प्रत्येकं पूर्णकुम्भैश् च वेद्यान्तत्सौम्यतः स्थले ।अप्_289.008अब्।
तिलाक्षताज्यसिद्धार्थान् देवतानां शतं शतं ।अप्_289.008च्द्।
उपोषितेन कर्तव्यं कर्म चास्वरुजापहं

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc