अग्नि पुराण · अध्याय 286
:ए इत्य् आग्नेये महापुराणे कल्पसागरो नाम
पञ्चाशीत्यधिकद्विशततमो ऽध्यायः
:प् 60
% छप्तेर् {286}
:श् अथ षडशीत्यधिकद्विशततमो ऽध्यायः
गजचिकित्सा
पालकाप्य उवाच(1)
गजलक्ष्म चिकित्साञ्च लोमपाद यदामि ते ।अप्_286.001अब्।
दीर्घहस्ता महोच्छ्वासाः प्रसस्तास्ते महिष्णवः
विंशत्यष्टादशनखाः शीतकालमदाश् च ये ।अप्_286.002अब्।
दक्षिणञ्चोन्नतन्दन्तं वृंहितं जलदोपमं
कर्णौर् च विपूलौ येषां सूक्ष्मविन्द्वन्वितत्वचौ ।अप्_286.003अब्।
ते धार्या न तथा धार्या वामना ये च सङ्कुशाः(2)
हस्तिन्यः पार्श्वगर्भिण्यो च मूढा मतङ्गजाः ।अप्_286.004अब्।
वर्णं सत्वं बलं रूपं कान्तिः संहननञ्जवः
सप्तस्थितो गजश्चेदृक् सङ्ग्रामेरीञ्जयेत्स च ।अप्_286.005अब्।
कुञ्जराः परमा शोभा शिविरस्य बलस्य च
आयत्तं कुञ्जरैश् चैव विजयं पृथिवीक्षितां ।अप्_286.006अब्।
पाकलेषु च सर्वेषु कर्तव्यमनुवासनं
घृततैलपरीपाकं स्थानं वातविवर्जितं ।अप्_286.007अब्।
स्कन्धेषु च क्रिया कर्या तथा पालकवन्नृपाः
गोमूत्रं पाण्डुरोगेषु रजनीभ्यां घृतन्द्विज ।अप्_286.008अब्।
आनाहे तैलसिक्तस्य निषेकस्तस्य शस्यते
लवणैः पञ्चभिर्मश्रा प्रतिपानाय वारुणी ।अप्_286.009अब्।
:न्
1 धन्वन्तरिरुवाचेति ञ..
2 मर्दना इति ञ..
:प् 61
विडङ्गत्रिफलाव्योषसैन्धवैः कवलान् कृतान्
मूर्छासु भोजयेन्नागं क्षौद्रन्तोयञ्च पाययेत् ।अप्_286.010अब्।
अग्यङ्गः शिरसः शूले नस्यञ्चैव प्रशस्यते
नागानां स्नेहपुटकः पादरोगानुपक्रमेत् ।अप्_286.011अब्।
पश्चात् कल्ककषायेण शोधनञ्च विधीयते
शिखितित्तिरिलावानां पिप्पलीमरिचान्वितैः ।अप्_286.012अब्।
रसैः सम्भोजयेन्नगं वेपथुर्यस्य जायते
बालबिल्वं तथा लोध्रं धातकी सितया सह ।अप्_286.013अब्।
अतीसारविनाशाय पिण्डीं भुञ्जीत कुञ्जरः
नस्यं करग्रहे देयं घृतं लयणसंयुतम् ।अप्_286.014अब्।
मागधीनागराजाजीयवागूर्मुस्तसाधिता
उत्कर्णके तु दातव्या वाराहञ्च तथा रसम् ।अप्_286.015अब्।
दशमूलकुलत्थाम्लकाकमाचीविपाचितम्
तैलमूषणसंयुक्तं गलग्रहगदापहम् ।अप्_286.016अब्।
अष्टभिर्लवणैः पिष्ठैः प्रसन्नाः पाययेद्घृतम्
मूत्रभङ्गे ऽथ वा वीजं क्वथितं त्रपूषस्य च ।अप्_286.017अब्।
त्वग्दोषेषु पिवेन्निम्बं वृषं वा क्वथितं द्विपः
गवां मूत्रं विडङ्गानि कृमिकोष्ठेषु शस्यते ।अप्_286.018अब्।
शृङ्गवेरकणाद्राक्षाशर्कराभिः शृतं पयः
क्षतक्षयकरं पानं तथा मांसरसः शुभः ।अप्_286.019अब्।
मुद्गोदनं व्योषयुतमरुचौ तु प्रशस्यते
त्रिवृद्व्योषाग्निदन्त्यर्कश्यामाक्षीरेभपिप्पली ।अप्_286.020अब्।
एतैर् गुल्महरः स्नेहः कृतश् चैव तथापरः
:प् 62
भेदनद्रावणाभ्यङ्गस्नेहपानानुवासनैः ।अप्_286.021अब्।
सर्वानेव समुत्पन्नन् विद्रवान् समुपाहरेत्
यष्टिकं मुद्गसूपेन(1) शारदेन तथा पिवेत् ।अप्_286.022अब्।
बालबिल्वैस् तथा लेपः फटुरोगेषु शस्यते
विडङ्गेन्द्रयवौ हिङ्गु सरलं रजनीद्वयम् ।अप्_286.023अब्।
पूर्वाह्णे पाययेत् पिण्डान् सर्वशूलोपशान्तये
प्रधानभोजने तेषां यष्टिकव्रीहिशालयः ।अप्_286.024अब्।
मध्यमौ यवगोधूमौ शेषा दन्तिनि चाधमाः
यवश् चैव तथैवेक्षुर्नागानां बलवर्धनः ।अप्_286.025अब्।
नागानां यवसं शुष्कं तथा धातुप्रकोपणं
मदक्षिणस्य नागस्य पयःपानं प्रशस्यते ।अप्_286.026अब्।
दीपनीयैस् तथा द्रव्यैः शृतो मांसरसः शुभः
वायसः कुक्कुरश्चोभौ काकोलूककुलो हरिः ।अप्_286.027अब्।
भवेत् क्षौद्रेण संयुक्तः पिण्डो युद्धे महापदि(2)
कटुमत्स्यविडङ्गानि क्षारः कोषातकी पयः ।अप्_286.028अब्।
हरिद्रा चेति धूपोयं कुञ्जरस्य जयावहः
पिप्पलीतण्डुलास्तैलं माध्वीकं माक्षिकम् तथा ।अप्_286.029अब्।
नेत्रयोः परिषेकोयं दीपनीयः प्रशस्यते
पूरीषञ्चटकायाश् च तथा पारावतस्य च ।अप्_286.030अब्।
क्षीरवृक्षकरीषाश् च(3) प्रसन्नयेष्टमञ्जनं
:न्
1 मुद्ग्यूषेणेति ज.. , ञ.. च
2 मदाय हीति ञ..
3 क्षीरवृक्षकरीराश्चेति ञ..
:प् 63
अनेनाञ्जितनेत्रस्तु करोति कदनं रणे ।अप्_286.031अब्।
उत्पलानि च नीलानि सुस्तन्तगरमेव च
तण्डुलोदकपिष्टानि नेत्रनिर्वापनं परम् ।अप्_286.032अब्।
नखवृद्धौ नखच्छेदस्तैलसेकश् च मास्यपि
शय्यास्थानं भवेच्चास्य करीषैः पांशुभिस् तथा ।अप्_286.033अब्।
शरन्निदाघयोः सेकः सर्पिषा च तथेष्यते
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0