अग्नि पुराण · अध्याय 285
:ए इत्य् आग्नेये महापुराणे मृतसञ्जीवनीकरसिद्धयोगो नाम
चतुरशीत्यधिकद्विशततमो ऽध्यायः
% छप्तेर् {285}
:श् अथ पञ्चाशीत्यधिकद्विशततमो ऽध्यायः
कल्पसागरः
धन्वन्तरिर् उवाच
कल्पाम्मृत्युञ्चयान्वक्ष्ये ह्य् आयुर्दान्रोगसर्दनान् ।अप्_285.001अब्।
त्रिशती रोगहा सेव्या मध्वाज्यत्रिफलामृता
पलं पलार्धं कर्षं वा त्रिफलां सकलां तथा ।अप्_285.002अब्।
बिल्वतैलस्य नस्यञ्च मासं पञ्चशती कविः
रोगापमृत्युबलिजित् तिलं(1) भल्लातकं तथा ।अप्_285.003अब्।
पञ्चाङ्गं वाकूचीचूणं षण्मासं खदिरोदकैः
क्वाथैः कुष्ठञ्जयेत् सेव्यं चूर्णं नीलकुरुण्टजम् ।अप्_285.004अब्।
क्षिरेण मधुना वापि शतायुः खण्डदुग्धभुक्
मध्वाज्यशुण्ठीं संसेव्य पलं प्रातः समृद्युजित् ।अप्_285.005अब्।
बलीपलितजिज्जीवेन्माण्डकीचूर्णदुग्धपाः
उच्चटामधुना कर्षं पयःपा मृत्युजिन्नरः ।अप्_285.006अब्।
मध्वाज्यैः पयसा वापि निर्गुण्डी रोगमृत्युजित्
:न्
1 तैलमिति ञ..
:प् 58
पलाशतैलं कर्षैकं षण्मासं मधुना पिवेत् ।अप्_285.007अब्।
दुग्धभोजी पञ्चशती सहस्रायुर्भवेन्नरः
ज्योतिष्मतीपत्ररसं पयसा त्रिफलां पिवेत् ।अप्_285.008अब्।
मधुनाज्यन्ततस्तद्वत् शतावर्या रजः पलं
क्षौद्राज्यैः पयसा वापि निर्गुण्डी रोगमृत्युजित् ।अप्_285.009अब्।
पञ्चाङ्गं निम्बचूर्णस्य खदिरक्वाथभावितं
कर्षं भृङ्गरसेनापि रोगजिच्चामरो(1) भवेत् ।अप्_285.010अब्।
रुदन्तिकाज्यमधुभुक् दुग्धभोजी च मृत्युजित्
कर्षचूर्णं हरीतक्या भावितं भृङ्गराड्रसैः ।अप्_285.011अब्।
घृतेन मधुना सेव्य त्रिशतायुश् च रोगजित्
वाराहिका भृङ्गरसं लोहचूर्णं शतावरी ।अप्_285.012अब्।
साज्यं कर्षं(2) पञ्चशती कर्तचूर्णं शतावरी
भावितं भृङ्गराजेन मध्वाज्यन्त्रिशती भवेत् ।अप्_285.013अब्।
ताम्रं मृतं(3) सृततुल्यं(4) गन्धकञ्च कुमारिका
रसैर् विमृज्य द्वे गुञ्जे साज्यं पञ्चशताब्दवान् ।अप्_285.014अब्।
अश्वगन्धा पलं तैलं साज्यं खण्डं शताब्दवान्
पलम्पुनर् नवाचूर्णं मध्वाज्यपयसा पिवम् ।अप्_285.015अब्।
अशोकचूर्णस्य पलं मध्वाज्यं पयसार्तिनुत्
तिलस्य तैलं समधु नस्यात् कृष्णकचः शती ।अप्_285.016अब्।
कर्षमक्षं समध्वाज्यं शतायुः पयसा पिवन्
:न्
1 रोगनुच्चामरो भवेदिति ञ..
2 साज्यं सर्वमिति ख..
3 ताम्रामृतमिति ख..
4 सुरतुस्यमिति ज.. , ञ.. च
:प् 59
अभयं सगुडञ्चग्ध्वा घृतेन मधुरादिभिः ।अप्_285.017अब्।
दुग्धान्नभुक् कृष्णकेशो ऽरोगी पञ्चशताब्दवान्
पलङ्कुष्माण्डिकाचूर्णं मध्वाज्यपयसा पिवन् ।अप्_285.018अब्।
मासं दुग्धान्नभोजी च सहस्रायुर्विरोगवान्
शालूकचूर्णं भृङ्गाज्यं समध्वाज्यं शताब्दकृत् ।अप्_285.019अब्।
कटुतुम्बीतैलनस्यं कर्षं शतद्वयाब्दवान्
त्रिफला पिप्पली शुण्ठी सेविता त्रिशताब्दकृत् ।अप्_285.020अब्।
शतावर्याः पूर्वयोगः सहस्रायुर्बलातिकृत्
चित्रकेन तथा पुर्वस् तथा शुण्ठीविडङ्गतः ।अप्_285.021अब्।
लोहेन भृङ्गराजेन बलया निम्बपञ्चकैः
खदिरेण च निर्गुण्ड्या कण्टकार्याथ वासकात् ।अप्_285.022अब्।
वर्षाभुवा तद्रसैर् वा भावितो वटिकाकृतः
चूर्णङ्घृतैर् वा मधुना गुडाद्यैर् वारिणा तथा ।अप्_285.023अब्।
ओं ह्रूं स इतिमन्त्रेण मन्त्रतो योगराजकः
मृतसञ्जीवनीकल्पो रोगमृत्युञ्जयो भवेत् ।अप्_285.024अब्।
सुरासुरैश् च मुनिभिः सेविताः कल्पसागराः
गजायुर्वेदं प्रोवाच पालकाप्ये ऽङ्गराजकं
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0