अग्नि पुराण · अध्याय 284
:ए इत्य् आग्नेये महापुराणे मन्त्ररूपौषधकथनं नाम
त्र्यशीत्यधिकद्विशततमो ऽध्यायः
% छप्तेर् {284}
:श् अथ चतुरशीत्यधिकद्विशततमो ऽध्यायः
मृतसञ्जीवनीकरसिद्धयोगः
धन्वन्तरिर् उवाच
सिद्धयोगान् पुनर्वक्षे मृतसञ्जीवनीकरान्।अप्_284.001अब्।
आत्रेयभाषितान् दिव्यान् सर्वव्याधिविमर्दनान्(3)
आत्रेय उवाच
विल्वादिपञ्चमूलस्य क्वाथः स्याद्वातिके ज्वरे ।अप्_284.002अब्।
पावनं पिप्पलीमूलं गुडूची विष्वजो ऽथ वा
:न्
1 वीरकार्ये इति ख..
2 एकनामाथ सर्थकमिति ख.. , ञ.. च
3 सर्वव्याधिविनाशकानिति ख..
:प् 50
आमलक्यभया कृष्ण वह्निः सर्वज्वरान्तकः ।अप्_284.003अब्।
विल्वाग्निमन्थश्योनाककाश्मर्यः पार्ला स्थिरा
त्रिकण्टकं पृश्नपर्णी वृहती कण्टकारिकाः ।अप्_284.004अब्।
ज्वराविपाकपार्श्वार्तिकाशनुत् कुशमूलकम्
गुडूची पर्पटी मुस्तं किरातं विश्वभेषजम् ।अप्_284.005अब्।
वातपित्तज्वरे देयं पञ्चभद्रमिदं स्मृतम्
त्रिवृद्विशालकटुकात्रिफलारग्बधैः कृतः ।अप्_284.006अब्।
स्ंस्कारो भेदनक्वाथः पेयः सर्वज्वरापहः
देवदारुबलावासात्रिफलाव्योपपद्मकैः(1) ।अप्_284.007अब्।
सविडङ्गैः सितातुल्यं तच्चुर्णं पञ्चकाशजित्
दशमूलीशटीरास्नापिप्पलीबिल्वपौष्करैः ।अप्_284.008अब्।
शृङ्गीतामलकीभार्गीगुडूचीनागवल्लिभिः
यवाग्रं विधिना सिद्धं कशायं वा पिवेन्नरः ।अप्_284.009अब्।
काशहृद्ग्रहणीपार्श्वहिक्वाश्वासप्रशान्तये
मधुकं मधुना युक्तं विप्पलीं शर्करान्वितां ।अप्_284.010अब्।
नागरं गुडसंयुक्तं हिक्वाघ्नं लावणत्रयम्
कारव्यजाजीमरिचं द्राक्षा वृक्षाम्लदाडिमम् ।अप्_284.011अब्।
सौवर्चलं गुडं क्षौद्रं सर्वारोचननाशनम्
शृङ्गवेररसञ्चैव मधुना सह पाययेत् ।अप्_284.012अब्।
अरुचिश्वासकाशघ्नं प्रतिश्यायकफान्तकम्
वटं शृङ्गी शिलालोध्रदाडिमं मधुकं मधु ।अप्_284.013अब्।
पिवेत् तण्डुलतोयेन च्छर्दितृष्णानिवारणम्
:न्
1 देवदारुबलारास्नात्रिफलाव्योषपद्मकैर् इति ख..
:प् 51
गुडुची वासकं लोध्रं पिप्पलीक्षौद्रसंयुतम् ।अप्_284.014अब्।
कफान्वितञ्जयेद्रक्तं तृष्णाकासज्वरापहम्
वासकस्य रसस्तद्वत् समधुस्ताम्रजो रसः ।अप्_284.015अब्।
शिरीषपुष्पसुरसभावितं मरिचं हितं
सर्वार्तिनुन्मसूरो ऽथ पित्तमुक् तण्ड्लीयकं ।अप्_284.016अब्।
निर्गुण्डी शारिवा शेलु रङ्गोलश् च(1) विषापहः
महौषधं मृतां क्षुद्रां पुष्करं(2)ग्रन्थिकोद्भवं(3) ।अप्_284.017अब्।
पिवेत् कणायुतं क्वाथं मूर्छायाञ्च मदेषु च
हिङ्गुसौर्चलव्योषैर्द्विप्लांशैर्घृताढकं(?) ।अप्_284.018अब्।
चतुर्गुणे गवां मूत्रे सिद्धमुन्मादनाशनं
शङ्खपुष्पीवत्ताकुष्ठैः सिद्धं ब्राह्मीरसैर् युतं ।अप्_284.019अब्।
पुराणं हन्त्यपस्मारं सोन्मादं मेध्यमुत्तमं
पञ्चगव्यं घृतं तद्वत् कुष्ठनुच्चाभयायुतं ।अप्_284.020अब्।
पटोलत्रिफलानिम्बगुडुचीधावणीवृषैः
सकरञ्जैर् घृतं सिद्धं कुष्ठनुद्वज्रकं स्मृतं ।अप्_284.021अब्।
निम्बं पटोलं व्याघ्री च गुडूची वासकं तथा
कुर्याद्दशपलान् भागान् एकैकस्य सकुट्टितान् ।अप्_284.022अब्।
जलद्रोणे विपक्तव्यं यावत्पादावशेषितं
घृतप्रस्थम्पचेत्तेन त्रिफलागर्भसंयुतं(4) ।अप्_284.023अब्।
पञ्चतिक्तमिति ख्यातं सर्पिः कुष्ठविनाशनं
अशीतिं वातजान्रोगान् चत्वारिंशच्च पैत्तिकान् ।अप्_284.024अब्।
:न्
1 वङ्कोलश्चेति ख.. , ञ.. , च
2 पुष्पकमिति ज..
3 ग्रन्थिलोद्भवमिति ख..
4 त्रिफलाशर्करायुतमिति ख.. , ञ.. च
:प् 52
विंशतिं श्लैष्मिकान् कासपीनसार्शोव्रणादिकान्
हन्त्यन्यान् योगरजो ऽयं यथार्कस्तिमिरं खलु ।अप्_284.025अब्।
त्रिफलायाः कषायेन भृङ्नराजरसेन च
व्रणप्रक्षालनङ्कुर्यादुपदंशप्रशान्तये ।अप्_284.026अब्।
पटीलदलचूर्णेन दाडिमत्वग्रजो ऽथ वा
गुण्डयेच्च गजेनापि(1) त्रिफलाचूर्णकेन च ।अप्_284.027अब्।
त्रिफलायोरजोयष्ठिमार्कवोत्पलमारिचैः
समैन्धवैः पचेत्तैलमभ्यङ्गाच्छर्दिकापहं ।अप्_284.028अब्।
सक्षीरान् मार्कवरसान् द्विप्रस्थमधुकोत्पलैः
पचेत्तु तैलकुडवं तन्नस्यं पलितापहं ।अप्_284.029अब्।
निम्बम्पटोलं त्रिफला गुडूची स्वदिरं वृषं
भूनिम्बपाठात्रिफलागुडूचीरक्तचन्दनं ।अप्_284.030अब्।
योगद्वयं ज्वरं हन्ति कुष्ठविस्फोटकादिकं
पटोलामृतभूनिम्बवासारिष्टकपर्पटैः ।अप्_284.031अब्।
खदिरान्तयुतैः क्वाथो विस्फोटज्वरशान्तिकृत्
दशमूली च्छिन्नरुहा पथ्या दारु पुनर्नवा ।अप्_284.032अब्।
ज्वरविद्रधिशोथेषु शिग्रुविश्वजिता हिताः
मधूकं निम्बपत्राणि लेपः स्यद्व्रणशोधनः ।अप्_284.033अब्।
त्रिफला खदिरो दार्वी न्यग्रोधातिबलाकुशाः
निम्बमूलकपत्राणां कषायाः शोधने हिताः ।अप्_284.034अब्।
करञ्जारिष्टनिर्गुण्डीरसो हन्याद्व्रणक्रमीन्
:न्
1 गुण्डयेन्नगजेनापीति ख.. , ञ.. च
:प् 53
धातकिचन्दनबलासमङ्गामधुकोत्पलैः ।अप्_284.035अब्।
दार्वीमेदोन्वितैर् लेपः समर्पिर्व्रणरोपणः
गुग्गुलुत्रिफलाव्योषसमांर्शैर् घृतयोगतः ।अप्_284.036अब्।
नाडी दुष्टव्रणं शूलम्भगन्दरमुखं हरेत्
हरितकीं मूत्रसिद्धां सतैललवणान्वितां ।अप्_284.037अब्।
प्रातः प्रातश् च सेवेत कफवातामयापहां(1)
त्रिकटुत्रिफलाक्वाथं(2) सक्षारलवणं पिवेत् ।अप्_284.038अब्।
कफवातात्मकेष्वेव विरेकः कफवृद्धिनुत्
पप्पलीपिप्पलीमूलवचाचित्रकनागरैः ।अप्_284.039अब्।
क्वाथितं वा पिवेत्पेयमामवातविनाशनं
रास्नां गुडुचीमेरण्डदेवदारुमहौषधं ।अप्_284.040अब्।
पिवेत् सर्वाङ्गिके वाते सामे सन्ध्यस्थिमज्जगे
दशमूलकशायं वा पिवेद्धा नागराम्भसा ।अप्_284.041अब्।
शुण्ठीगोक्षुरकक्वाथः प्रातः प्रातिर् निषेवितः
सामवातकटीशूलपाचनो रुक्प्रणाशनः ।अप्_284.042अब्।
समूलपत्रशाखायाः प्रसारण्याश् च तैलकं
गुडुच्याः सुरसः कल्कः चूर्णं वा क्वाथमेव च ।अप्_284.043अब्।
प्रभूतकालमासेव्य मुच्यते वातशोणितात्
पिप्पली वर्धमानं वा सेव्यं पथ्या गुडेन वा ।अप्_284.044अब्।
पटोलत्रिफलातीव्रकटुकासृतसाधितं(3)
पक्वं पीत्वा जयत्याशु सदाहं वातशोणितं ।अप्_284.045अब्।
:न्
1 कफवातविनाशिनीमिति ज..
2 त्रिकटुत्रिफलाकुष्ठमिति ञ..
3 पटोलत्रिफलाभिरुकटुकामृतसाधितमिति ख.. , छ.. , ञ.. च
:प् 54
गुग्गुलं कोष्णशीते(1) तु गुडुची त्रिफलाम्भसा
बलापुनर् नवैर् अण्डवृहतीद्वयगोक्षुरैः ।अप्_284.046अब्।
सहिङ्गु लवनैः पीतं सद्यो वातरुजापहं
कार्षिकं पिप्पलीमूलं पञ्चैव लवणानि च ।अप्_284.047अब्।
पिप्पली चित्रकं शुण्ठी त्रिफला त्रिवृता वचा
द्वौ क्षारौ शाद्वला दन्ती स्वर्णक्षीरी विषाणिका ।अप्_284.048अब्।
कोलप्रमाणां गुटिकां पिवेत् सौवीरकायुतां
शोथावपाके त्रिवृता प्रवृद्धे चोदरादिके ।अप्_284.049अब्।
क्षीरं शोथहरं दारु वर्षाभूर्नागरैः शुभम्
सेकस् तथार्कवर्षाभूनिम्बक्वाथेन शोथजित् ।अप्_284.050अब्।
व्योषगर्भं पलाशस्य त्रिगुणे भस्मवारिणि
साधितं पिवतः सर्पिः पतत्यर्शो न संशयः ।अप्_284.051अब्।
विश्वक्सेनावनिर्गुण्डीसाधितं चापि लावणं
विडङ्गानलसिन्धूत्थरास्नाग्रक्षारदारुभिः ।अप्_284.052अब्।
तैलञ्चतुर्गुणं सिद्धं कटुद्रव्यं जलेन वा
गण्डमालापहं तैलमभ्यङ्गात् गलगण्डनुत् ।अप्_284.053अब्।
शटीकुनागबलयक्वाथः क्षीररसे युतम्
पयस्यापिप्पलीवासाकल्कं सिद्धं क्षये हितम् ।अप्_284.054अब्।
वचाविडभयाशुण्ठीहिङ्गुकुष्ठाग्निदीप्यकान्
द्वित्रिषट्चतुरेकांशसप्तपञ्चाशिकाः क्रमात् ।अप्_284.055अब्।
चूर्णं पीतं हन्ति गुल्मं उदरं शूलकासनुत्
पाठानिकुम्भत्रिकटुत्रिफलाग्निषु साधितम् ।अप्_284.056अब्।
:न्
1 क्तोष्टुशीते ऽथेति ख..
:प् 55
मूत्रेण चूर्णगुटिका गुल्मप्लीहादिमर्दनी
वासानिम्बपटीलानि त्रिफला वातपित्तनुत्(1) ।अप्_284.057अब्।
लिह्यात् क्षौद्रेण विडङ्गं चूर्णं कृमिविनाशनम्
विडङ्गसैन्धवक्षारमूत्रेनापि हरीतकी ।अप्_284.058अब्।
शल्लकीवदरीजम्बुपियालाम्रार्जुनत्वचः
पीताः क्षीरेण मध्वक्ताः पृथक्शीणितवारणाः ।अप्_284.059अब्।
विल्वाम्रघातकीपाठाशुण्ठीमोचरसाः समाः
पीता रुन्धन्त्यतीसारं गुडतक्रेण दुर्जयम् ।अप्_284.060अब्।
चाङ्गेरीकोलदध्यम्बुनागरक्षारसंयुतम्
घृतयुक्क्वाथितं पेयं गुदंभ्रसे रुजापहम् ।अप्_284.061अब्।
विडङ्गातिविषामुस्तं दारुपाथाकलिङ्गकम्
मरीचेन समायुक्तं शोथातीसारनाशनम् ।अप्_284.062अब्।
शर्करासिन्धुशुण्ठीभिः कृष्णामधुगुडेन वा
द्वे द्वे खादेद्धरीतक्यौ जीवेद्वर्षशतं सुखी ।अप्_284.063अब्।
त्रिफला पिप्पलीयुक्ता सम्ध्वाज्या तथैव सा
चूर्नमामलकं तेन सुरसेन तु भवितम् ।अप्_284.064अब्।
मध्वाज्यशर्करायुक्तं लिढ्वा स्त्रीशः पयः पिवेत्
मासपिप्पलिशालीनां यवगोधूमयोस् तथा ।अप्_284.065अब्।
चूर्णभागैः समांशैश् च पचेत् पिप्पलीकां शुभां
तां भक्षयित्वा च पिवेत् शर्करामधुरं पयः ।अप्_284.066अब्।
नवश् चटकवज्जम्भेद् दशवारान् स्त्रियं ध्रुवम्
समङ्गाधातकीपुष्पलोध्रनीलोत्पलानि च ।अप्_284.067अब्।
:न्
1 त्रिपला चाम्लपित्तनुदिति ख.. , ञ.. च
:प् 56
एतत् क्षीरेन दातव्यं स्त्रीणां प्रदरनशनं
वीजङ्कौरण्टकञ्चापि मधुकं श्वेतचन्दनं ।अप्_284.068अब्।
पद्मोत्पलस्य मूलानि मधुकं शर्करातिलान्
द्रवमाणेषु गर्भेषु गर्भस्यापनमुत्तमं ।अप्_284.069अब्।
देवदारु नभः कुष्ठं(1) नलदं विश्वभेषजं
लेपः काञ्चिकमम्पष्टस्तैलयुक्तः शिरोर्तिनुत् ।अप्_284.070अब्।
वस्त्रपूतं क्षिपेत् कोष्णं मिन्धूत्यं कर्णशूलनुत्
लशुनार्द्रकशिग्रूणां कदल्या वा रसःपृथक् ।अप्_284.071अब्।
बलाशतावरीरास्नामृताः मैरीयकेः पिवेत्
त्रिफलासहितं सर्पिस्तिमिरघ्नमनुत्तमं ।अप्_284.072अब्।
त्रिफलाव्योषसिन्धूप्त्यैर् घृतं सिद्धं पिवेन्नरः
चाक्षुष्यम्भेदनं हृद्यं(2) दीपनं क्रफरोगनुत् ।अप्_284.073अब्।
नीलोत्पलस्य किञ्जल्कं गोशकृद्रससंयुतं
गुटिकाञ्जनमेतत् स्यात् दिनरात्र्यन्धयोर्हितं ।अप्_284.074अब्।
यष्टीमधुवचाकृष्णावीजानां कुटजस्य च
कल्केनालोड्य निम्बस्य कषायो वमनाय सः ।अप्_284.075अब्।
स्निग्धस्विन्नयवन्तोयं प्रदातव्यं विरेचनम्
अन्यथा योजितं कुर्यात् मन्दाग्निं गौरवारुचिं ।अप्_284.076अब्।
पथ्यासैन्धवकृष्णानां(3) चूर्णमुष्णाम्बुना पिवेत्
विरेकः सर्वरोगघ्नः श्रेष्ठो नाराचसंज्ञकः ।अप्_284.077अब्।
:न्
1 कृष्णमिति ख..
2 कुष्ठमिति ञ..
3 पथ्यासैन्धवकुष्ठानामिति ख..
:प् 57
सिद्धयोगा मुनिभ्यो ये आत्रेयेण प्रदर्शिताः ।अप्_284.077च्द्।
सर्वरोगहराः सर्वयोगाग्र्याः सुश्रुतेन हि
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0