अग्नि पुराण · अध्याय 283
:ए इत्य् आग्नेये महापुराणे नानारोगहराण्यौषधानि नाम
द्व्यशीत्यधिकद्विशततमो ऽध्यायः ॥
:न्
1 पञ्चविशतिरिति ञ.. , ट.. च
2 कर्पूरजहुकातैलमिति ख.. । कर्पूरजानुकातैलमिति ज..
:प् 48
% छप्तेर् {283}
:श् अथ त्र्यशीत्यधिकद्विशततमो ऽध्यायः
मन्त्ररूपौषधकथनं
धन्वन्तरिर् उवाच
आयुरारोग्यकर्तर ओंकारद्याश् च नाकदाः ।अप्_283.001अब्।
ओंकारः परमो मन्त्रस्तं जप्त्वा चामरो भवेत्
गायत्री परमो मन्त्रस्तं जप्त्वा भुक्तिमुक्तिभाक् ।अप्_283.002अब्।
ओं नमो नारायणाय मन्त्रः सर्वार्थसाधकः
ओं नमो भगवते वासुदेवाय सर्वदः ।अप्_283.003अब्।
ओं हूं नमो विष्णवे मन्त्रोयञ्चौषधं परं
अनेन देवा ह्य् असुराः सश्रियो निरुजो ऽभवत् ।अप्_283.004अब्।
भूतानामुपकारश् च तथा धर्मो महौषधम्
धर्मः सद्धर्मकृद्धर्मी एतैर् धर्मैश् च निर्मलः ।अप्_283.005अब्।
श्रीदः श्रीषः श्रीनिवासः श्रीधरःश्रीनिकेतनः
श्रियः पतिः श्रीपरम एतैः श्रियमवाप्नुयात् ।अप्_283.006अब्।
कामी कामप्रदः कामः कामपालस् तथा हरिः
आनन्दो माधवश् चैव नाम कामाय वै हरेः ।अप्_283.007अब्।
रामः परशुरामश् च नृसिंहो विष्णुरेव च
त्रिविक्रमश् च नामानि जप्तव्यानि जिगीषुभिः ।अप्_283.008अब्।
विद्यामभ्यस्यतां नित्यं जप्तव्यः पुरुषोत्तमः
दामोदरो बन्धहरः पुष्कराक्षो ऽक्षिरोगनुत् ।अप्_283.009अब्।
हृषीकेशो भयहरो जपेदौषधकर्मणि
:प् 49
अच्युतञ्चामृतं मन्त्रं सङ्ग्रामे चापराजितः ।अप्_283.010अब्।
जलतारे नारसिंहं पूर्वादौ क्षेमकामवान्
चक्रिणङ्गदिनञ्चैव शार्ङ्गिणं खड्गिनं स्मरेत् ।अप्_283.011अब्।
नारायणं सर्वकाले नृसिंहो ऽखिलभीतिनुत्
गरुडध्वजश् च विषहृत् वासुदेवं सदाजपेत् ।अप्_283.012अब्।
धान्यादिस्थापने स्वप्ने अनन्ताच्युतमीरयेत्
नारायणञ्च दुःस्वप्ने दाहादौ जलशायिनं ।अप्_283.013अब्।
हयग्रीवञ्च विद्यार्थी जगत्सूतिं सुताप्तये ।अप्_283.013च्द्।
बलभद्रं शौरकार्ये(1) एकं नामार्थसाधकम्(2)
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0