भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 282

282.001

:ए इत्य् आग्नेये महापुराणे वृक्षायुर्वेदो
नामैकाशीत्यधिकद्विशततमो ऽध्यायः ॥
:प् 43
% छप्तेर् {282}
:श् अथ द्व्यशीत्यधिकद्विशततमो ऽध्यायः
नानारोगहराण्यौषधानि
धन्वन्तरिर् उवाच
सिंही शटी(1) निशायुग्मं वत्सकं क्वाथसेवनं ।अप्_282.001अब्।
शिशोः सर्वातिसारेषु स्तन्यदोषेषु शस्यते

282.002

शृङ्गीं सकृष्णातिविषां चूर्णितां मधुना लिहेत् ।अप्_282.002अब्।
एका चातिविशा काशच्छर्दिज्वरहरी शिशोः

282.003

बालैः सेव्या वचा साज्या सदुग्धा वाथ तैलयुक् ।अप्_282.003अब्।
यष्टिकां शङ्खपुष्पीं वा बालः क्षीरान्वितां पिवेत्

282.004

वाग्रूपसम्पद्युक्तायुर्मेधाश्रीर्वर्धते शिशोः ।अप्_282.004अब्।
वचाह्यग्निशिखावासाशुण्ठीकृष्णानिशागदं

282.005

सयष्टिसैन्धवं बालः प्रातर्मेधाकरं पिवेत् ।अप्_282.005अब्।
देवदारुमहाशिग्रुफलत्रयपयोमुचां

282.006

क्वाथः सकृष्णा मृद्वीका कल्कः सर्वान् कृमीन्हरेत् ।अप्_282.006अब्।
त्रिफलाभृङ्गविश्वानां रसेषु मधुसर्पिषोः

282.007

मेषीक्षीरे च गोमूत्रे सिक्तं रोगे हितं शिशोः ।अप्_282.007अब्।
नासारक्तहरो नस्याद्दुर्वारस इहोत्तमः

282.008

लशुनार्द्रकशिग्रूणां रसः कर्णस्य पूरणम् ।अप्_282.008अब्।
तैलमार्द्रकजात्यं वा शूलहा(2) चौष्ठरोगनुत्(3)

282.009

:न्
1 सिंही षष्टीति ख..
2 शूलहा इत्य् अत्र पुंस्त्वनिर्देश आर्षः
3 मूत्रहा शोषरोगनुदिति ञ..
:प् 44
जातीपत्रं फलं व्योषं कवलं मूत्रकं निशा ।अप्_282.009अब्।
दुग्धक्वाथे ऽभयाकल्के सिद्धं तैलं द्विजार्तिनुत्

282.010

धान्याम्बु नारिकेलं गोमूत्रं क्रमूकविश्वयुक् ।अप्_282.010अब्।
क्वाथितं कबलं कार्यमधिजिह्वाधिशान्तये

282.011

साधितं लाङ्गलीकल्के तैलं निर्गुण्डिकारसैः ।अप्_282.011अब्।
गण्डमालागलगण्डौ नाशयेन्नस्यकर्मणा

282.012

पल्लवैर् अर्कपूतीकस्नुहीरुग्घातजातिकैः ।अप्_282.012अब्।
उद्वर्तयेत् सगोमूत्रः सर्वत्वग्दोषनाशनैः

282.013

वाकुची सतिला भुक्ता वत्सरात् कुष्ठनाशनी ।अप्_282.013अब्।
पथ्या भल्लातकी तैलगुडपिण्डी तु कुष्ठजित्

282.014

पूतीकवह्निरजनी त्रिफलाव्योषचूर्णयुक् ।अप्_282.014अब्।
तक्रं गुदाङ्कुरे पेयं भक्ष्या वा सगुडाभया

282.015

फलदार्वीविषाणान्तु क्वाथो धात्रीरसो ऽथवा ।अप्_282.015अब्।
पातव्यो रजनीकल्कः क्षौद्राक्षौद्रप्रमेहिणा

282.016

वासागर्भो व्याधिघातक्वाथ एरण्डतैलयुक् ।अप्_282.016अब्।
वातशोणितहृत् पानात् पिप्पली स्यात् प्लीहाहरी

282.017

सेव्या जठरिणा कृष्णा स्नुक्षीरवहुभाविता ।अप्_282.017अब्।
पयो वा रच्यदन्त्याग्निविडङ्गव्योषकल्कयुक्

282.018

ग्रन्थिकोग्राभया कृष्णा विडङ्गाक्ता घृते स्थिता ।अप्_282.018अब्।
सांसन्तक्रं ग्रहण्यर्शःपाण्डुगुल्मकृमीन् हरेत्

282.019

फलत्रयामृता वासा तिक्तभूनिम्बजस् तथा ।अप्_282.019अब्।
क्वाथः समाक्षिको हन्यात् पाण्डुरोगं सकामलं

282.020

रक्तपित्ती पिवेद्वासासुरसं ससितं मधु ।अप्_282.020अब्।
:प् 45
वरीद्राक्षाबलाशुण्ठीसाधितं वा पयः पृथक्

282.021

वरी विदारी पथ्या बलात्रयं सवासकं ।अप्_282.021अब्।
श्वदंष्ट्रामधुसर्पिर्भ्यामालिहेत् क्षयरोगवान्

282.022

पथ्याशिग्रुकरञ्जार्कत्वक्सारं मधुसिन्धुमत् ।अप्_282.022अब्।
समूत्रं विद्रधिं हन्ति परिपाकाय तन्त्रजित्

282.023

त्रिवृता जीवती दन्ती मञ्जिष्ठा शर्वरीद्वयं ।अप्_282.023अब्।
तार्क्षजं निम्बपत्रञ्च लेपः शस्तो भगन्दरे

282.024

रुग्घातजनीलाक्षाचूर्णाजक्षौद्रसंयुता ।अप्_282.024अब्।
वासोवत्तिर्व्रणे योज्या शोधनी गतिनाशनी

282.025

श्यामायष्टिनिशालोध्रपद्मकोत्पलचन्दनैः ।अप्_282.025अब्।
समरीचैः शृतं तैलं क्षीरे स्याद्ब्रणरोहणं

282.026

श्रीकार्पासदलैर् भस्मफलोपलवणा निशा ।अप्_282.026अब्।
तत्पिण्डीस्वेदनं ताम्रे सतैलं स्यात् क्षतौषधं

282.027

कुम्भीसारं पयोयुक्तं वह्निदग्धं व्रणे लिपेत् ।अप्_282.027अब्।
तदेव नाशयेत्सेकान्नारिकेलरजोघृतम्

282.028

विष्वाजमोदसिन्धूत्थचिञ्चात्वग्भिः समाभया ।अप्_282.028अब्।
तक्रेणोष्णाम्बुना वाथ पीतातीसारनाशनी

282.029

वत्सकातिविषाविश्वविल्लमुस्तशृतं जलं ।अप्_282.029अब्।
सामे पुराणे ऽतीसारे सामृक्शूले च पाययेत्

282.030

अङ्गारदग्धं सुगतं सिन्धुमुष्णाम्बुना पिवेत् ।अप्_282.030अब्।
शूलवानथ वा तद्धि सिन्धुहिंगुकणाभया

282.031

कटुरोहोत्कणातङ्कलाजचूर्णं(1) मधुप्लुतं ।अप्_282.031अब्।
:न्
1 कटुरोहोत्पलातङ्कलाजचूर्णमिति ट..
:प् 46
वस्त्रच्छिद्रगतं वक्त्रे न्यस्तं तृष्णां विनाशयेत्

282.032

पाठादार्वीजातिदलं द्राक्षामूलफलत्रयैः(1) ।अप्_282.032अब्।
साधितं समधु क्वाथं कवलं मुखपापहृत्

282.033

कृष्णातिविषतिक्तेन्द्रदारूपाठापयोमुचां ।अप्_282.033अब्।
क्वाथो मूत्रे शृतः क्षौद्री सर्वकण्ठगदापहः

282.034

पथ्यागोक्षुरदुस्पर्शराजवृक्षशिलाभिदां ।अप्_282.034अब्।
कषायः समधुः पीतो मूत्रकृच्छ्रं व्यपोहति

282.035

वंशत्वग्वरुणक्वाथः शर्कराश्मविघातनः ।अप्_282.035अब्।
शाखोटक्वाथसक्षौद्रक्षीराशी श्लीपदी भवेत्

282.036

मासार्कत्वक्पयस्तैलं मधुसिक्तञ्च सैन्धवं ।अप्_282.036अब्।
पादरोगं हरेत्सर्पिर्जालकुक्कुटजं तथा

282.037

शुण्ठीसीवर्चलाहिङ्गुचूर्णं शूण्ठीरसैर् घृतम् ।अप्_282.037अब्।
रुजं हरेदथ क्वाथो विद्धि बद्धाग्निसाधने

282.038

सौवर्चलाग्निहिङ्गूनां सदीप्यानां रसैर् युतं ।अप्_282.038अब्।
विडदीप्यकयुक्तं वा तक्रं गुल्मातुरः पिवेत्

282.039

धात्रीपटोलमुद्गानां क्वाथः साज्यो विसर्पहा ।अप्_282.039अब्।
शुण्ठीदारुनवाक्षीरक्वाथो मूत्रान्वितो ऽपरः

282.040

सव्योषायोरजःक्षारः फलक्वाथश् च शोथहृत् ।अप्_282.040अब्।
गुडशिग्रुत्रिवृद्धिश् च सैन्धवानां रजोयुतः

282.041

त्रिवृताफलकक्वाथः सगुडः स्याद्विरेचनः ।अप्_282.041अब्।
वचाफलकषायोत्थं पयो वमनकृभवेत्

282.042

त्रिफलायाः पलशतं पृथग्भृङ्गजभावितम् ।अप्_282.042अब्।
:न्
1 द्राक्षामृतफलत्रयैर् इति ञ.. , ट.. च
:प् 47
विडङ्गं लोहचूर्णञ्च दशभागसमन्वितम्

282.043

शतावरीगुडुच्यग्निपलानां शतविंशतिः(1) ।अप्_282.043अब्।
मध्वाज्यतिलजैर् लिह्याद्बलीपलितवर्जितः

282.044

शतमब्दं हि जीवेत सर्वरोगविवर्जितः ।अप्_282.044अब्।
त्रिफला सर्वरोगघ्नी समधुः शर्क्वरान्विता

282.045

सितामधुघृतैर् युक्ता सकृष्णा त्रिफला तथा ।अप्_282.045अब्।
पथ्याचित्रकशुण्ठाश् च गुडुचीमुषलीरजः

282.046

सगुडं भक्षितं रोगहरं त्रिशतवर्षकृत् ।अप्_282.046अब्।
किञ्चिच्चूर्णं जवापुष्पं पिण्डितं विसृजेज्जले

282.047

तैलं भवेद् घृताकारं किञ्चिच्चूर्णं जलान्वितं ।अप्_282.047अब्।
धूपार्थं दृश्यते चित्रं वृषदंशजरायुना

282.048

पुनर्माक्षिकधूपेन दृश्यते तद्यथा पुरा ।अप्_282.048अब्।
कर्पूरजलकाभेकतैलं(2) पाटलिमूलयुक्

282.049

पिष्ट्वा लिप्य पदे द्वे च चरेदङ्गारके नरः ।अप्_282.049अब्।
तृणौत्थानादिकं व्यूह्य दर्शयन्वै कुतूहलं

282.050

विषग्रहरुजध्वंसक्षुद्रनर्म च कामिकं ।अप्_282.050अब्।
तत्ते षट्कर्मकं प्रोक्तं सिद्धिद्वयसमाश्रयं

282.051

मन्त्रध्यानौषधिकथामुद्रेज्या यत्र मुष्टयः ।अप्_282.051अब्।
चतुर्वर्गफलं प्रोक्तं यः पठेत्स दिवं व्रजेत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc