भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 281

281.001

:ए इत्य् आग्नेये महापुराणे रसादिलक्षणं
नामाशीत्यधिकद्विसततमो ऽध्यायः ॥
% छप्तेर् {281}
:श् अथैकाशीत्यधिकद्विशततमो ऽध्यायः
वृक्षायुर्वेदः
धन्वन्तरिर् उवाच
वृक्षायुर्वेदमाख्यास्ये प्लक्षश्चोत्तरतः शुभः ।अप्_281.001अब्।
प्राग्वटो याम्यतस्त्वाम्र आप्ये ऽश्वत्थः कर्मेण तु

281.002

दक्षिणां दिशमुत्पन्नाः समीपे कण्टकद्रुमाः ।अप्_281.002अब्।
उद्यानं गृहवासे(1) स्यात् तिलान् वाप्यथ पुष्पितान्

281.003

गृह्णीयाद्रोपयेद्वृक्षान् द्विजञ्चन्द्रं प्रपूज्य च ।अप्_281.003अब्।
ध्रुवाणि पञ्च वायव्यं हस्तं प्राजेशवैष्णवं

281.004

नक्षत्राणि तथा मूलं शस्यन्ते द्रुमरोपणे ।अप्_281.004अब्।
प्रवेशयेन्नदीवाहान् पुष्करिण्यान्तु(2) कारयेत्

281.005

:न्
1 गृहवामे इति ञ..
2 पुष्करिण्यान्त्विति पाठो न सम्यक् प्रतिभाति
:प् 42
हस्ता मघा तथा मैत्रमाद्यं पुष्यं सवासवं ।अप्_281.005अब्।
जलाशयसमारम्भे वारुणञ्चोत्तरात्रयम्

281.006

संपूज्य वरुणं विष्णुं पर्जन्यं तत् समाचरेत् ।अप्_281.006अब्।
अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः

281.007

अशोकः कदली जम्बुस् तथा वकुलदाडिमाः ।अप्_281.007अब्।
सायं प्रातस्तु घर्मर्तौ शीतकाले दिनान्तरे

281.008

वर्षारत्रौ भुवः शोषे सेक्तव्या रोपिता द्रुमाः ।अप्_281.008अब्।
उत्तमं विंशतिर्हस्ता मध्यमं षोडशान्तरम्

281.009

स्थानात् स्थानान्तरं कार्यं वृक्षाणां द्वादशावरं ।अप्_281.009अब्।
विफलाः स्युर्घना वृक्षाः शस्त्रेणादौ हि शोधनम्

281.010

विडङ्गघृतपङ्काक्तान् सेचयेच्छीतवारिणा ।अप्_281.010अब्।
फलनाशे कुलथैश् च मासैर् मुद्गैर् यवैस्तिलैः

281.011

घृतशीतपयःसेकः फलपुष्पाय सर्वदा ।अप्_281.011अब्।
आविकाजशकृच्चूर्णम् यवचूर्णं तिलानि च

281.012

गोमांसमुदकञ्चैव सप्तरात्रं निधापयेत् ।अप्_281.012अब्।
उत्सेकः सर्ववृक्षाणां फलपुष्पादिवृद्धिदः

281.013

मत्स्याम्भसा तु सेकेन वृद्धिर्भवति शाखिनः ।अप्_281.013अब्।
विडङ्गतण्डुलोपेतं मत्स्यं मांसं हि दोहदं ।अप्_281.013च्द्।
सर्वेषामविशेषेण वृक्षाणां रोगमर्दनम्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc