अग्नि पुराण · अध्याय 280
:ए इत्य् आग्नेये महापुराणे सर्वरोगहराण्यौषधानि
नामोनाशीत्यधिकद्विशततमो ऽध्यायः
:न्
तथोल्कानामुष्मणामध्वसेविनामिति ख..
:प् 38
% छप्तेर् {280}
:श् अथाशीत्यधिकद्विशततमो ऽध्यायः ॥
रसादिलक्षणं
धन्वन्तरिर् उवाच
रसादिलक्षणं वक्ष्ये भेषजानां गुणं शृणु ।अप्_280.001अब्।
रसवीर्यविपाकज्ञो नृपादीन्रक्षयेन्नरः
रसाः स्वाद्वम्ललवणाः सोमजाः परिकीर्तिताः ।अप्_280.002अब्।
कटुतिक्तकषायानि तथाग्नेया महाभुज
त्रिधा विपाको द्रव्यस्य कट्वम्ललवणात्मकः ।अप्_280.003अब्।
द्विधा वीय्य समुद्दिष्टमुष्णं शीतं तथैव च
अनिर्देश्यप्रभावश् च ओषधीनां द्विजोत्तम ।अप्_280.004अब्।
मधुरश् च कषायश् च तिक्तश् चैव तथा रसः
शीतवीर्याः समुद्दिष्टाः शेषास्तूष्णाःप्रकीर्तिताः ।अप्_280.005अब्।
गुडुची तत्र तिक्तपि भवत्युष्णातिवीर्यतः
उष्णा कषायापि तथा पथ्या भवति मानद ।अप्_280.006अब्।
मधुरोपि तथा मांस उष्ण एव प्रकीर्तितः
लवणो मध्रश् चैव विपाकमधुरौ स्मृतौ ।अप्_280.007अब्।
अम्लोष्णश् च तथा प्रोक्तः शेषाः कटुविपाकिनः
वीर्यपाके विपर्यस्ते प्रभावात्तत्र निश् चयः ।अप्_280.008अब्।
मधुरो ऽपि कटुः पाके यच्च क्षौद्रं(1) प्रकीर्तितं
क्वाथयेत् षोडशगुणं विवेद्द्रव्याच्चतुर्गुणम् ।अप्_280.009अब्।
:न्
1 यवक्षौद्रमिति ख..
:प् 39
कल्पनैषा कषायस्य यत्र नोक्तो विधिर्भवेत्
कषायन्तु भवेत्तोयं स्नेहपाके चतुर्गुणं(1) ।अप्_280.010अब्।
द्रव्यतुल्यं समुद्धृत्य द्रव्यं स्नेहं क्षिपेद्बुधः
तावत्प्रमाणं द्रव्यस्य स्नेहपादं ततः क्षिपेत् ।अप्_280.011अब्।
तोयवर्जन्तु यद्द्रव्यं स्नेहद्रव्यं तथा भवेत्
संवर्तितौषधः पाकः स्नेहानां परिकीर्तितः ।अप्_280.012अब्।
तत्तुल्यता तु लेह्यस्य तथा भवति सुश्रुत(2)
स्वच्छमल्पौषधं क्वाथं कषायञ्चोक्तवद्भवेत् ।अप्_280.013अब्।
अक्षं चूर्णस्य निर्दिष्टं कषायस्य चतुष्पलं
मध्यमैषा स्मृता मात्रा नास्ति मात्राविकल्पना ।अप्_280.014अब्।
वयः कालं बलं वह्निं देशं द्रव्यं रुजं तथा
समवेक्ष्य महाभाग मात्रायाः कल्पना भवेत् ।अप्_280.015अब्।
सौम्यास्तत्र रसाः प्रायो विज्ञेया धातुवर्धनाः
मधुरास्तु विशेषेण विज्ञेया धातुवर्धनाः ।अप्_280.016अब्।
दोषाणाञ्चैव धातूनां द्रव्यं समगुणन्तु यत्
तदेव वृद्धये ज्ञेयं विपरीतं क्षमावहम् ।अप्_280.017अब्।
उपस्तम्भत्रयं प्रोक्तं देहे ऽस्मिन्मनुजोत्तम
आहारो मैथुनं निद्रा तेषु यत्नः सदा भवेत् ।अप्_280.018अब्।
असेवनात् सेवनाच्च अत्यन्तं नाशमाप्नुयात्
क्षयस्य बृंहणं कार्यं स्थुलदेहस्य कर्षणम् ।अप्_280.019अब्।
रक्षणं मध्यकायस्य देहभेदास्त्रयो मताः
:न्
1 स्नेहपाके च तद्गुणमिति ख..
2 तत्तुल्यताप्यस्य तथा यथा भवति सुश्रुत इति ख..
:प् 40
उपक्रमद्वयं प्रोक्तं तर्पणं वाप्यतर्पणं ।अप्_280.020अब्।
हिताशी च मिताशी च जीर्णाशी च तथा भवेत्
ओषधीनां पञ्चविधा तथा भवति कल्पना ।अप्_280.021अब्।
रसः कल्कः शृतः शीतः फाण्डश् च मनुजोत्तम
रसश् च पीडको ज्ञेयः कल्क आलोडिताद् भवेत् ।अप्_280.022अब्।
क्वथितश् च शृतो ज्ञेयः शीतः पर्युषितो निशां
सद्योभिशृतपूतं यत् तत् फाण्टमभिधीयते ।अप्_280.023अब्।
करणानां शतञ्चैव षष्टिश् चैवाधिका स्मृता
यो वेत्ति स ह्य् अजेयः स्थात्सम्बन्धे वाहुशौण्डिकः ।अप्_280.024अब्।
आहारशुद्धिरग्न्यर्थमग्निमूलं बलं नृणां
ससिन्धुत्रिफलाञ्चाद्यात्सुराज्ञि अभिवर्णदां ।अप्_280.025अब्।
जाङ्गलञ्च रसं सिन्धुयुक्तं दधि पयः कणां
रसाधिकं समं कुर्यान्नरो वाताधिको ऽपि वा ।अप्_280.026अब्।
निदाघे मर्दनं प्रोक्तं शिशिरे च समं बहु
वसन्ते मध्यमं ज्ञेयन्निदाघे मर्दनोल्वणं ।अप्_280.027अब्।
त्वचन्तु प्रथमं मर्द्यमङ्गञ्च तदनन्तरं
स्नायुरुधिरदेहेषु अस्थि भातीव मांसलं ।अप्_280.028अब्।
स्कन्धौ बाहू तथैवेह तथा जङ्घे सजानुनी
अरिवन्मर्दयेत् प्रज्ञो जत्रु वक्षश् च पूर्ववत् ।अप्_280.029अब्।
अङ्गसन्धिषु सर्वेषु निष्पीड्य बहुलं तथा
प्रसारयेदङ्गसन्धीन्न च क्षेपेण चाक्रमात् ।अप्_280.030अब्।
नीजीर्णे तु श्रमं कुर्यान्न भुक्त्वा पीतवान्नरः
दिनस्य तु चतुर्भाग ऊर्ध्वन्तु प्रहरार्धके ।अप्_280.031अब्।
:प् 41
व्यायामं नैव कर्तव्यं स्नायाच्छीताम्बुना सकृत्
वार्युष्णञ्च श्रमं जह्याद्धृदा श्वासन्न धारयेत् ।अप्_280.032अब्।
व्यायामश् च कफं हन्याद्वातं हन्याच्च मर्दनं
स्नानं पित्ताधिकं हन्यात्तस्यान्ते चातपाः प्रियाः ।अप्_280.033अब्।
आतपक्लेशकर्मादौ क्षेमव्यायामिनो नराः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0