अग्नि पुराण · अध्याय 279
:ए इत्य् आग्नेये महापुराणे सिद्धौषधानि
नामाष्ट्सप्तत्यधिकद्विशततमो ऽध्यायः
% छप्तेर् {279}
:श् अथैकोनाशीत्यधिकद्विशततमो ऽध्यायः
सर्वरोगहराण्यौषधानि
धन्वन्तरिर् उवाच
शारीरमानमागन्तुसहजा व्याधयो मताः ।अप्_279.001अब्।
शारीरा ज्वरकुष्ठाद्या क्रोधाद्या मानसा मताः
आगन्तवो विघातोत्था सहजाः क्षुज्जरादयः ।अप्_279.002अब्।
शारीरागन्तुनाशाय सूर्यवारे घृतं गुडम्
लवणं सहिरण्यञ्च विप्रायापूपमर्पयेत् ।अप्_279.003अब्।
चन्द्रे चाभ्यङ्गदो विप्रे सर्वरोगैः प्रमुच्यते
तैलं शनैश् चरे दद्यादाश्विने गोरसान्नदः ।अप्_279.004अब्।
घृतेन पयसा लिङ्गं संस्नाप्य स्याद्रुगुज्झितः
:प् 34
गायत्र्या हावयेद्वह्नौ दूर्वान्त्रिमधुराप्लुताम् ।अप्_279.005अब्।
यस्मिन् भे व्याधिमाप्नोति तस्मिन् स्नानं बलिः शुभे
मानसानां रुजादीनां विष्णोः स्तोत्रं हरं भवेत् ।अप्_279.006अब्।
वातपित्तकफा दोषा धातवश् च तथा शृणु
भुक्तं पक्वाशयादन्नं द्विधा याति च सुश्रुत ।अप्_279.007अब्।
अंशेनैकेन किट्टद्वं रसताञ्चापरेण च
किट्टभागो मलस्तत्र विन्मूत्रस्वेददूषिकाः ।अप्_279.008अब्।
नासामलङ्कर्णमलं तथा देहमलञ्च यत्
रसभागाद्रसस्तत्र समाच्छोणिततां व्रजेत् ।अप्_279.009अब्।
मांसं रक्तत्तितो मेदो मेदसो ऽस्थ्नश् च सम्भवः
अस्थ्नो मज्जा ततः शुक्रं शुकाद्रागस्तथौजसः ।अप्_279.010अब्।
देशमार्तिं बलं शक्तिं कालं प्रकृतिमेव च
ज्ञात्वा चिकित्सतं कुर्याद्भेषजस्य तथा बलम् ।अप्_279.011अब्।
तिथिं रिक्तान्त्यजेद् भौमं मन्दभन्दारुणोग्रकम्
हरिगोद्विजचन्द्रार्कसुरादीन् प्रतिपूज्य च ।अप्_279.012अब्।
शृणु मन्त्रमिमं विद्वन् भेषजारम्भमाचरेत्
ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः ।अप्_279.013अब्।
ऋषयश् चौषधिग्रामा भूतसङ्घाश् च पान्तु ते
रसायनमिवर्षीणां देवानाममृतं यथा ।अप्_279.014अब्।
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते
वातश्लेष्मातको देशो बहुवृक्षो बहूदकः ।अप्_279.015अब्।
अनूपड्तिबिख्यातो जाङ्गलस्तद्विवर्जितः
किञ्चिद्वृक्षोदको देशस् तथा साधारणः स्मृतः ।अप्_279.016अब्।
:प् 35
जाङ्गलः पित्तबहुलो मध्यः साधारणः स्मृतः
रूक्ष्मः शीतश् चलो वायुः पित्तमुष्णं कटुत्रयम् ।अप्_279.017अब्।
स्थिराम्लस्निग्धमधुरं बलाशञ्च प्रचक्षते
वृद्धिः समानैर् एतेषां विपरीतैर् विपर्ययः ।अप्_279.018अब्।
रसाः स्वाद्वम्ललवणाः श्लेष्मला वायुनाशनाः
कटुतिक्तकषायाश् च वातलाः श्लेष्मनाशनाः ।अप्_279.019अब्।
कट्वम्ललवणा ज्ञेयास् तथा पित्तविवर्धनाः
तिक्तस्वादुकषायाश् च तथा पित्तविनाशनाः ।अप्_279.020अब्।
रसस्यैतद्गुणं नास्ति विपाकस्यैतदिष्यते
वीर्योष्णाः कफवातघ्नाः शीताः पित्तविनाशनाः ।अप्_279.021अब्।
प्रभावतस् तथा कर्म ते कुर्वन्ति च सुश्रुत
शिशिरे च वसन्ते च निदाघे च तथा क्रमात् ।अप्_279.022अब्।
चयप्रकोपप्रशमाः कफस्य तु प्रकीर्तिताः
निदाघवर्षारात्रौ च तथा शरदि सुश्रुत ।अप्_279.023अब्।
चयप्रकोपप्रशमाः पवनस्य प्रकीर्तिताः
मेघकाले च शरदि हेमन्ते च यथाक्रमात् ।अप्_279.024अब्।
चयप्रकोपप्रशमास् तथा पित्तस्य कीर्तिताः
वर्षाद्यो विसर्गस्तु हेमन्ताद्यास् तथा त्रयः ।अप्_279.025अब्।
शिशिराद्यास् तथादानं ग्रीष्मान्ता ऋतवस्त्रयः
सौम्यो विसर्गस्त्वादानमाग्नेयं परिकीर्तितम् ।अप्_279.026अब्।
वर्षादींस्त्रीनृतून् सोमश् चरन् पर्यायशो रसान्
जनयत्यम्ललवणमधुरांस्त्रीन् यथाक्रमम् ।अप्_279.027अब्।
शिशिरादीनृतूनर्कश् चरन् पर्ययशो रसान्
:प् 36
विवर्धयेत्तथा तिक्तकषायकटुकान् क्रमात् ।अप्_279.028अब्।
यथा रजन्यो वर्धन्ते वलमेकं हि वर्धते
क्रमशो ऽथ मनुष्याणां हीयमानासु हीयते ।अप्_279.029अब्।
रात्रिभुक्तदिनानाञ्च वयसश् च तथैव च
आदिमध्यावसानेषु कफपित्तसमीरणाः ।अप्_279.030अब्।
प्रकोपं यान्ति कोपादौ काले तेषाञ्चयः स्मृतः
प्रकोपोत्तरके काले शमस्तेषां प्रकीर्तितः ।अप्_279.031अब्।
अदिभोजनतो विप्र तथा चाभोजनेन च
रोगा हि सर्वे जायन्ते वेगोदीरणधारणैः ।अप्_279.032अब्।
अन्नेन कुक्षेर्द्वावंशावेकं पानेन पूरयेत्
आश्रयं पवनादीनां तथैकमवशेषयेत् ।अप्_279.033अब्।
व्याधेर् निदानस्य तथा विपरीतमथौषधम्
कर्तव्यमेतदेवात्र मया सारं प्रकीर्तितम् ।अप्_279.034अब्।
नाभेरूर्ध्वमधश् चैव गुदश्रोण्योस्तथैव च
बलाशपित्तवातानां देहे स्थानं प्रकीर्तितं ।अप्_279.035अब्।
तथापि सर्वगाश् चैते देहे वायुर्विशेषतः
देहस्य मध्ये हृदयं स्थानं तन्मनसः स्मृतम् ।अप्_279.036अब्।
कृशो ऽल्पकेशश् चपलो बहुवाग्विषमानलः
व्योमगश् च तथा स्वप्ने वातप्रकृतिरुच्यते ।अप्_279.037अब्।
अकालपलितः क्रोधी प्रस्वेदी मधुरप्रियः
स्वप्ने च दीप्तिमत्प्रेक्षी पित्तप्रकृतिरुच्यते ।अप्_279.038अब्।
दृढाङ्गः स्थिरचित्तश् च सुप्रभः स्निग्धसूर्धजः
शुद्धाम्बुदर्शी स्वप्ने च कफप्रकृतिको नरः ।अप्_279.039अब्।
:प् 37
तामसा राजसाश् चैव सात्विकाश् च तथा स्मृताः
मनुष्या मुनिर्शादूल वातपित्तकफात्मकाः ।अप्_279.040अब्।
रक्तपित्तं व्यवायाच्च गुरुकर्मप्रवर्तनैः
कदन्नभोजनाद्वायुर्देहे शोकाच्च कुप्यति ।अप्_279.041अब्।
विदाहिनां तथोल्कानामुष्णान्नाध्वनिसेविनां(1)
पित्तं प्रकोपमायाति भयेन च तथा द्विज ।अप्_279.042अब्।
अत्यम्बुपानगुर्वन्नभोजिनां भुक्तशायिनाम्
श्लेकेष्माप्रकोपमायाति तथा ये चालसा जनाः ।अप्_279.043अब्।
वाताद्युत्थानि रोगाणि ज्ञात्वा शाम्यानि लक्षणैः
अस्थिभङ्गः कषायत्वमास्ये शुष्कास्यता तथा ।अप्_279.044अब्।
जृम्भणं लोमहर्षश् च वातिकव्याधिलक्षणम्
नखनेत्रशिराणान्तु पीतत्वं कटुता मुखे ।अप्_279.045अब्।
तृष्णा दाहोष्णता चैव पित्तव्याधिनिदर्शनम्
आलस्यञ्च प्रसेकश् च गुरुता मधुरास्यता ।अप्_279.046अब्।
उष्णाभिलाषिता चेति श्लैष्मिकव्याधिलक्षणम्
स्निग्धोष्णमन्नमभ्यङ्गस्तैलपानादि वातनुत् ।अप्_279.047अब्।
आज्यं क्षीरं सिताद्यञ्च चन्द्ररश्म्यादि पित्तनुत्
सक्षौद्रं त्रिफलातैलं व्यायामादि कफापहम् ।अप्_279.048अब्।
सर्वरोगप्रशान्त्यै स्यद्विष्णोर्ध्यानञ्च पूजनम्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0