अग्नि पुराण · अध्याय 278
:ए इत्य् आग्नेये महापुराणे पुरुवंशवर्णनं नाम
सप्तसप्तत्यधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {278}
:श् अथाष्टसप्तत्यधिकद्विशततमो ऽध्यायः
सिद्धौषधानि
अग्निर् उवाच
आयुर्वेदं प्रवक्ष्यामि सुश्रुताय यमब्रवीत् ।अप्_278.001अब्।
देवो धन्वन्तरिः सारं मृतसञ्जीवनीकरं
सुश्रुत उवाच
आयुर्वेदं मम ब्रूहि नराश्वेभरुगर्दनम् ।अप्_278.002अब्।
सिद्धयोगान्सिद्धमन्त्रान्मृतसञ्जीवनीकरान्
धन्वन्तरिर् उवाच
रक्षन् बलं हि ज्वरितं लङ्घितं भोजयेद्भिषक् ।अप्_278.003अब्।
सविश्वं लाजमण्डन्तु तृड्ज्वरान्तं शृतं जलम्
मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः ।अप्_278.004अब्।
षडहे च व्यतिक्रान्ते तित्तकं पाययेद्ध्रुवं
स्नेहयेत्तक्तदोषन्तु(1) ततस्तञ्च विरेचयेत् ।अप्_278.005अब्।
जीर्णाः षष्टिकनीवाररक्तशालिप्रमोदकाः
तद्विधास्ते ज्वरेष्विष्टा यवानां विकृतिस् तथा ।अप्_278.006अब्।
मुद्गा मसूराश् च णकाः कुलत्थाश् च सकुष्ठकाः
:न्
1 पक्वदोषन्त्विति ञ..
:प् 28
आटक्यो नारकाद्याश् च कर्कोटककतोल्वकम् ।अप्_278.007अब्।
पटोलं सफलं निम्बं पर्पटं दाडिमं ज्वरे
अधोगे वमनं शस्तमूर्ध्वगे च विरेचनम् ।अप्_278.008अब्।
रक्तपित्ते तथा पानं षडङ्गं शुण्ठिवर्जितम्
शक्तुगोधूमलाजाश् च यवशालिमसूरकाः ।अप्_278.009अब्।
सकुष्ठचणका मुद्गा भक्ष्या गोधूमका हिताः
साधिता घृतदुग्धाभ्यां क्षौद्रं वृषरसो मधु ।अप्_278.010अब्।
अतीसारे पुराणानां शालीनां भक्षणं हितं
अनभिष्यन्दि यच्चान्नं लोध्रवल्कलसंयुतम् ।अप्_278.011अब्।
मारुतं वर्जयेद् यत्नः कार्यो गुल्मेषु सर्वथा
वाट्यं क्षीरेण चाश्नीयाद्वास्तूकं घृतसाधितं ।अप्_278.012अब्।
गोधूमशालयस्तिक्ता हिता जठरिणामथ
गोधूमशालयो मुद्गा ब्रह्मर्क्षखदिरो ऽभया ।अप्_278.013अब्।
पञ्चकोलञ्जाङ्गलाश् च निम्बधात्र्यः पटोलकाः
मातुलङ्गरसाजातिशुष्कमूलकसैन्धवाः ।अप्_278.014अब्।
कुष्ठिनाञ्च तथा शस्तं पानार्थे खदिरोदकं
मसूरसुद्गौ पेयार्थे भोज्या जिर्णाश् च शालयः ।अप्_278.015अब्।
निम्बपर्पटकैः शाकैर् जाङ्गलानां तथा रसः
विडङ्गं मरिचं मुस्तं कुष्ठं लोध्रं सुवर्चिका ।अप्_278.016अब्।
मनःशिला च वालेयः कुष्ठहा मूत्रपेषितः
अपूपकुष्ठकुल्माषयवाद्या मेहिनां हिताः ।अप्_278.017अब्।
यवान्नविकृतिर्मुद्गा कुलत्था जीर्णशालयः
तिक्तरुक्षाणि शाकानि तिक्तानि हरितानि च ।अप्_278.018अब्।
:प् 29
तैलानि तिलशिग्रुकविभीतकेङ्गुदानि च
मुद्गाः सयवगोधूमा धान्यं वर्षस्थतञ्च यत् ।अप्_278.019अब्।
जाङ्गलस्य रसः शस्तो भोजने राजयक्ष्मिणां
कौलत्थमौद्गको रास्नाशुष्कमूलकजाङ्गलैः ।अप्_278.020अब्।
पूपैर् वा विस्करैः सिद्धैर् दधिदाडिमसाधितैः
मातुलङ्गरसक्षौद्रद्राक्षाव्योषादिसंस्कृतैः ।अप्_278.021अब्।
यवगोधूमशाल्यन्नैर् भोजयेच्छ्वासकासिनं
दषमूलवलारास्नाकुलत्थैर् उपसाधिताः ।अप्_278.022अब्।
पेयाः पूपरसाः क्वाथाः श्वासहिक्कानिवारणाः
शुष्कमूलककौलत्थमूलजाङ्गलजैरसैः(?) ।अप्_278.023अब्।
यवगोधूमशाल्यन्नं जीर्णम् सोशीरमाचरेत्
सोथवान् सगुडां पथ्यां खादेद्वा गुडनागरम् ।अप्_278.024अब्।
तक्रञ्च चित्रकञ्चोभौ ग्रहणीरोगनाशनौ
पुराणयवगोधूमशालयो जङ्गलो रसः ।अप्_278.025अब्।
मुद्गामलकखर्जूरमृद्वीकावदराणि च
मधु सर्पिः पयः शक्रं निम्बपर्पटकौ वृषम् ।अप्_278.026अब्।
तक्रारिष्टाश् च(1) शस्यन्ते सततं वातरोगिणाम्
हृद्रोगिणो विरेच्यास्तु पिप्पल्यो हिक्किनां हिताः ।अप्_278.027अब्।
तक्रावलालसिन्धूनि मुक्तानि शिशिराम्भसा
मुक्ताः सौवर्चलाजादि मद्यं शस्तं मदात्यये(2) ।अप्_278.028अब्।
सक्षौद्रपयसा लाक्षां पिवेच्च क्षतवान्नरः
:न्
1 भद्राविष्टाश्चेति ख..
2 सदामये इति ञ.. । दमात्यये इति ट..
:प् 30
क्षयं मांसरसाहारो वह्निसंरक्षणाज्जयेत् ।अप्_278.029अब्।
शालयो भोजने रक्ता नीवारकलमादयः
यवान्नविकृतिर्मासं शाकं सौवर्चलं शटी ।अप्_278.030अब्।
पथ्या तथैवार्शसां यन्मण्डं तक्रञ्च वारिणा(1)
मुस्ताभ्यासस् तथा लेपश्चित्रकेण हरिद्रया ।अप्_278.031अब्।
यवान्नविकृतिः शालिर्वास्तूकं ससुवर्चलम्
त्रपुषर्वारुगोधूमाः क्षीरेक्षुघृतसंयुताः ।अप्_278.032अब्।
मूत्रकृच्छ्रे च शस्ताः स्युः पाने मण्डसुरादयः
लाजाः शक्तुस् तथा क्षौद्रं शून्यं मांसं परूषकम् ।अप्_278.033अब्।
वार्ताकुलावशिखिनश्छर्दिघ्नाः पानकानि च
शाल्यन्नन्तोयपयसी केवलोष्णे शृते ऽपि वा ।अप्_278.034अब्।
तृष्णाघ्ने मुस्तगुडयोर्गुटिका वा मुखे धृता
यवान्नविकृतिः पूपं(2) शुष्कमूलकजन्तथा ।अप्_278.035अब्।
शाकं पटोलवेत्राग्रमुरुस्तम्भविनाशनम्
मुद्गाढकमसूराणां सतिलैर् जाङ्गलैरसैः(?) ।अप्_278.036अब्।
ससैन्धवघृतद्राक्षाशुण्ठ्यामलककोलजैः
यूषैः पुराणगोधूमयवशाल्यन्नमभ्यसेत् ।अप्_278.037अब्।
विसर्पी ससिताक्षौद्रमृद्वीकादाडिमोदकम्
रक्तयष्टिकगोधूमयवमुद्गादिकं लघु ।अप्_278.038अब्।
काकमारी च वेत्राग्रं वास्तुकञ्च सुवर्चला
वातशोणितनाशाय तोयं शस्तं सितं मधु ।अप्_278.039अब्।
:न्
1 पथ्या तथैव काशस्य मण्डं तक्रञ्च वारुणमिति ख.. , ञ.. ,
च
2 यूषमिति ख.. , ज.. च
:प् 31
नाशारोगेशु च हितं घृतं दुर्वाप्रसाधितम्
भृङ्गराजरसे सिद्धं तैलं धात्रीरसे ऽपि वा ।अप्_278.040अब्।
नश्यं सर्वामयेष्विष्टं मूर्धजन्तूद्भवेषु च
शीततोयान्नपानञ्च तिलानां विप्र भक्षणम् ।अप्_278.041अब्।
द्विजदार्ढ्यकरं प्रोक्तं तथा तुष्टिकरम्परम्
गण्डूषं तिलतैलेन द्विजदार्ढ्यकरं परं ।अप्_278.042अब्।
विडङ्गचूर्णं गोमूत्रं सर्वत्र कृमिनाशने
धात्रीफलान्यथाज्यञ्च शिरोलेपनमुत्तमम् ।अप्_278.043अब्।
शिरोरोगविनाशाय स्निग्धमुष्णञ्च भोजनम्
तैलं वा वस्तमूत्रञ्च कर्णपूरणमुत्तमम् ।अप्_278.044अब्।
कर्णशूलविनाशाय सर्वशुक्तानि(1) वा द्विज
गिरिमृच्चन्दनं लाक्षा मालती कलिका तथा ।अप्_278.045अब्।
संयोज्या या कृता वर्तिः क्षतशुक्रहरी तु सा
व्योषं त्रिफलया युक्तं तुच्छकञ्च तथा जलम् ।अप्_278.046अब्।
सर्वाक्षिरोगशमनं तथा चैव रसाञ्जनं
आज्यभृष्टं शिलापिष्टं लोध्रकाञ्जिकसैन्धवैः ।अप्_278.047अब्।
आश्च्योतनाविनाशाय सर्वनेत्रामये हितम्
गिरिमृच्चन्दनैर् लेपो वहिर्नेत्रस्य शस्यते ।अप्_278.048अब्।
नेत्रामयविघातार्थं त्रिफलां शीलयेत् सदा
रात्रौ तु मधुसर्पिर्भ्यां दीर्घमायुर्जिजीविषुः ।अप्_278.049अब्।
शतावरीरसे सिद्धौ वृष्यौ क्षीरघृतौ स्मृतौ
कलम्बिकानि माषाश् च वृष्यौ क्षीरघृतौ तथा ।अप्_278.050अब्।
:न्
1 सर्वशुक्लान्नीति ख..
:प् 32
आयुष्या त्रिफला ज्ञेया पूर्ववन्मधुकान्विता
मधुकादिरसोपेता बलीपलितनाशिनी ।अप्_278.051अब्।
वचासिद्धघृतं विप्र भूतदोषविनाशनम्
कव्यं बुद्धिप्रदञ्चैव(1) तथा सर्वार्थसाधनम् ।अप्_278.052अब्।
वलाकल्ककषायेण सिद्धमभ्यञ्जने हितम्
रास्नासहचरैर् वापि तैलं वातविकारिणाम् ।अप्_278.053अब्।
अनभिष्यन्दि यच्चान्नं तद्ब्रणेषु प्रशस्यते
शक्तुपिण्डी तथैवाम्ला पाचनाय प्रशस्यते ।अप्_278.054अब्।
पक्वस्य च तथा भेदे निम्बचूर्णञ्च रोपणे
तथा शूच्युपचारश् च(2) बलिकर्म विशेषतः ।अप्_278.055अब्।
सूतिका च तथा रक्षा प्राणिनान्तु सदा हिता
भक्षणं निम्बपत्राणां सर्पदष्टस्य भेषजम् ।अप्_278.056अब्।
तालनिम्बदलङ्केश्यं जीर्णन्तैलं यवाघृतम्
धूपो वृश्चिकदष्टस्य शिखिपत्रघृतेन वा ।अप्_278.057अब्।
अर्कक्षीरेण संपिष्टं लोपा वीजं पलाशजं
वृश्चिकार्तस्य कृष्णा वा शिवा च फलसंयुता(3) ।अप्_278.058अब्।
अर्कक्षीरं तिलं तैलं पललञ्च गुडं समम्
पानाज्जयति दुर्वारं श्वविषं शीघ्रमेव तु ।अप्_278.059अब्।
पीत्वा मूलं त्रिवृत्तुल्यं तण्डुलीयस्य सर्पिषा
सर्पकीटविषाण्याशु जयत्यतिबलान्यपि ।अप्_278.060अब्।
चन्दनं पद्मकङ्कुष्ठं लताम्बूशीरपाटलाः
:न्
1 कन्ठ्यं वृद्धिप्रदञ्चैवेति ख..
2 प्रत्युपचारैश्चेति ख..
3 कलसंयुतेति क..
:प् 33
निर्गुण्डी शारिवा सेलुर्लूताविषहरो गदः ।अप्_278.061अब्।
शिरोविरेचनं शस्तं गुडनागरकं द्विज
स्नेहपाने तथा वस्तौ तैलं धृतमनुत्तमम् ।अप्_278.062अब्।
स्वेदनीयः परो वह्निः शीताम्भःस्तम्भनं परम्
त्रिवृद्धि रेचने श्रेष्ठा वमने मदनं तथा ।अप्_278.063अब्।
वस्तिर्विरेको वमनं तैलं सर्पिस् तथा मधु ।अप्_278.063च्द्।
वातपित्तबलाशानां क्रमेण परमौषधं
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0