भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 277

277.001

:ए इत्य् आग्नेये महापुराणे राजवंशवर्णनं नाम
षट्सप्तत्यधिकद्विशततमो ऽध्यायः
:न्
1 दधिवामनोभूदिति ख.. , छ.. , ञ.. , च..
:प् 23
% छप्तेर् {277}
:श् अथ सप्तसप्रत्यधिकद्विशततमो ऽध्यायः
पुरुवंशवर्णनं
अग्निर् उवाच
पुरोर्जनमेजयो ऽभूत्प्राचीन्नन्तस्तु तत्सुतः ।अप्_277.001अब्।
प्राचीन्नन्तान्मनस्त्युस्तु तस्माद्वीतमयो नृपः

277.002

शुन्धुर्वीतमयाच्चाभूच्छुन्धोर्बहुविधः(1) सुतः ।अप्_277.002अब्।
बहुविधाच्च संयातिरहोवादी च तत्सुतः

277.003

तस्य पुत्रो ऽथ भद्राशोअ भद्राश्वस्य दशात्मजाः ।अप्_277.003अब्।
ऋचेयुश् च कृषेयुश् च सन्नतेयुस् तथात्मजः

277.004

घृतेयुश् च चितेयुश् च स्थण्डिलेयुश् च सत्तमः ।अप्_277.004अब्।
धर्मेयुः सन्नतेयुश् च कृचेयुर्मतिनारकः

277.005

तंसुरोघः प्रतिरथः पुरस्तो मतिनारजाः ।अप्_277.005अब्।
आसीत्पतिरथात्कण्वः कण्वान्मेधातिथिस्त्वभूत्

277.006

तंसुरोघाच्च चत्वारो दुष्मन्तो ऽथ प्रवीरकः ।अप्_277.006अब्।
सुमन्तश्चानयो वीरो दुष्मन्ताद्भरतो ऽभवत्

277.007

शकुन्तलायान्तु बली यस्य नाम्ना तु भारताः ।अप्_277.007अब्।
सुतेषु मातृकोपेन नष्टेषु भरतस्य च

277.008

ततो मरुद्भिरानीय पुत्रः स तु वृहस्पतेः ।अप्_277.008अब्।
संक्रामितो भरद्वाजः क्रतुभिर्वितथो ऽभवत्

277.009

स चापि वितथः पुत्रान् जनयामास पञ्च वै ।अप्_277.009अब्।
:न्
1 शग्भुर्वीतमयाश्चाभूच्छम्भोर्बहुविध इति ख.. , ज.. , च..
:प् 24
सुहोत्रञ्च सुहोतारङ्गयङ्गर्भन्तथैव च

277.010

कपिलश् च महात्मानं सुकेतुञ्च सुतद्वयम् ।अप्_277.010अब्।
कौशिकञ्च गृत्सपतिं तथा गृत्सपतेः सुताः

277.011

ब्रह्माणाः क्षत्रिया वैश्याः काशे दीर्घतमाः(1)सुताः ।अप्_277.011अब्।
ततो धन्वन्तरिश्चासीत्तत्सुतो ऽभूच्च केतुमान्

277.012

केतुमतो हेमरथो दिवोदास इतिश्रुतः ।अप्_277.012अब्।
प्रतर्दनो दिवोदासाद्भर्गवत्सौ प्रतर्दनात्

277.013

वत्सादनर्क आसीच्च अनर्कात् क्षेमको ऽभवत् ।अप्_277.013अब्।
क्षेमकद्वर्षकेतुश् च वर्षकेतोर्विभुः स्मृतः(2)

277.014

विभोरानर्तः पुत्रो ऽभूद्विभोश् च सुकुमारकः ।अप्_277.014अब्।
सुकुमारात्सत्यकेतुर्वत्सभूमिस्तु वत्सकात्

277.015

सुहोत्रस्य वृहत्पुत्रो वृहतस्तनयास्त्रयः ।अप्_277.015अब्।
अजमीढो द्विमीढश् च पुरुमीढश् च वीर्यवान्

277.016

अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान्(3) ।अप्_277.016अब्।
जह्नोरभूदजकाश्वो बलाकाश्वस्तदात्मजः

277.017

वलाकाश्वस्य कुशिकः कुशिकात् गाधिरिन्द्रकः ।अप्_277.017अब्।
गाधेः सत्यवती कन्या विश्वामित्रः सूतोत्तमः

277.018

देवरातः कतिमुखा विश्वामित्रस्य ते सुताः ।अप्_277.018अब्।
शुनःशेफो ऽष्टकश्चान्यो ह्य् अजमीढात् सुतो ऽभवत्

277.019

नीलिन्यां शान्तिरपरः पुरुजातिः सुशान्तितः ।अप्_277.019अब्।
:न्
1 काशदीर्घतमा इति ज..
2 सुत इति ख.. , छ.. , ज.. , च
3 प्रभाववानिति ख..
:प् 25
पुरुजातेस्तु वाह्याश्वो वाह्याश्च्वात् पञ्च पार्थिवाः

277.020

मुकुलः सृञ्जयश् चैव राजा वृहदिषुस् तथा ।अप्_277.020अब्।
यवीनरश् च(1) कृमिलः पाञ्चाला इति विश्रुताः

277.021

मुकुलस्य तु मौकुल्याः क्षेत्रोपेता द्विजातयः ।अप्_277.021अब्।
चञ्चाश्वो मुकुलाज्जज्ञे चञ्चाश्वान्मिथुनं ह्य् अभुत्

277.022

दिवोदासो ह्य् अहल्या च अहल्यायां शरद्वतात् ।अप्_277.022अब्।
शतानन्दः शतानन्दात् सत्यधृन्मिथुनन्ततः

277.023

कृपः कृपी किवोदासान्मैत्रेयः सोमपस्ततः ।अप्_277.023अब्।
सृञ्जयात् पञ्चधनुषः सोमदत्तश् च तत्सुतः

277.024

सहदेवः सोमदत्तात् सहदेवात्तु सोमकः ।अप्_277.024अब्।
आसीच्च सोमकाज्जन्तुर्जन्तोश् च पृषतः सुतः

277.025

पृषताद्द्रुपदस्तस्माद्धृष्टद्युम्नो ऽथ तत्सुतः ।अप्_277.025अब्।
धृष्ठकेतुश् च धूमिन्यामृक्षो ऽभूदजमीढतः

277.026

ऋक्षात्सम्वरणो जज्ञे कुरुः सम्वरणात्ततः ।अप्_277.026अब्।
यः प्रयागादपाक्रम्य कुरुक्षेत्रञ्चकार ह

277.027

कुरोः सुधन्वा सुधनुः परिक्षिच्चारिमेजयः ।अप्_277.027अब्।
सुधन्वनः सुहोत्रो ऽभूत् सुहोत्राच्च्यवनो ह्य् अभूत्

277.028

वशिष्ठपरिचाराभ्यां सप्तासन् गिरिकासुताः ।अप्_277.028अब्।
वृहद्रथः कुशो वीरो यदुः प्रत्यग्रहो बलः

277.029

मत्स्यकाली कुशाग्रो ऽतो ह्य् आसीद्राज्ञो वृहद्रथात् ।अप्_277.029अब्।
कुशाग्राद्वृषभो जज्ञे तस्य सत्यहितः सुतः

277.030

सुधन्वा तत्सुतश्चोर्ज ऊर्जादासीच्च सम्भवः ।अप्_277.030अब्।
:न्
1 यवीनचश्चेति ख.., छ.. , ञ.. , च
:प् 26
सम्भवाच्च जरासन्धः सहदेवश् च तत्सुतः

277.031

सहदेवादुदापिश् च उदापेः श्रुतकर्मकः ।अप्_277.031अब्।
परिक्षितस्य दायादो धार्मिको जनमेजयः

277.032

जनमेजयात्त्रसदस्युर्जह्नोस्तु सुरथः सुतः ।अप्_277.032अब्।
श्रुतसेनोग्रसेनौ च भीमसेनश् च नामतः

277.033

जनमेजयस्य पुत्रौ तु सुरथो महिमांस् तथा ।अप्_277.033अब्।
सुरथाद्विदूरथो ऽभूदृक्ष आसीद्विदूरथात्

277.034

ऋक्षस्य तु द्वितीयस्य भीमसेनो ऽभवत्सुतः ।अप्_277.034अब्।
प्रतीपो भीमसेनात्तु प्रतीपस्य तु शान्तनुः

277.035

देवापिर्वाह्लिकश् चैव सोमदत्तस्तु शान्तनोः ।अप्_277.035अब्।
वाह्लिकात्सोमदत्तो ऽभुद्भूरिर्भूरिस्रवाः शलः

277.036

गङ्गायां शान्तनोर्भीष्मः काल्यायां विचित्रवीर्यकः ।अप्_277.036अब्।
कृष्णद्वैपायनश् चैव क्षेत्रे वैचित्रवीर्यके

277.037

धृतरष्ट्रञ्च पाण्डुञ्च विदुरञ्चाप्यजीजनत् ।अप्_277.037अब्।
पाण्डोर्युधिष्ठिरः कुन्त्यां भीमश् चैवार्जुनस्त्रयः

277.038

नकुलः सहदेवश् च पाण्डोर्माद्य्राञ्च दैवतः ।अप्_277.038अब्।
अर्जुनस्य च सौभद्रः परिक्षिदभिमन्युतः

277.039

द्रौपदी पाण्डवानाञ्च प्रिया तस्यां युधिष्ठिरात् ।अप्_277.039अब्।
प्रतिविन्ध्यो भीमसेनाच्छ्रुतकीर्तिर्धनञ्जयात्(1)

277.040

सहदेवाच्छ्रुतकर्मा शतानीकस्तु नाकुलिः ।अप्_277.040अब्।
भीमसेनाद्धिडिम्बायामन्य आसीद् घटीत्कचः

277.041

एते भूता भविष्याश् च नृपाः संख्या न विद्यते ।अप्_277.041अब्।
:न्
1 अत्र पाठः पतितः धनञ्जयात् क उत्पन्न इति
विशेषाप्राप्तेः
:प् 27
गताः कालेन कालो हि हरिस्तं पूजयेद्द्विज
होममग्नौसमुद्दिश्य कुरु सर्वप्रदं यतः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc