भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 263

263.001

:ए इत्य् आग्नेये महापुराणे उत्पातशान्तिर्नाम
द्विषष्ट्यधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {263}
:श् अथ त्रिषष्ट्यधिकद्विशततमो ऽध्यायः
देवपूजावैश्वदेवबलिः
पुष्कर उवाच
देवपूजादिकं कर्म वक्ष्ये चोत्पातमर्दनम् ।अप्_263.001अब्।
आपोहिष्टेति तिसृभिः स्नातो ऽर्घ्यं विओष्णवेर्पयेत्

263.002

हिरण्यवर्णा इति च पाद्यञ्च तिसृभिर्द्विज ।अप्_263.002अब्।
शन्न आपो ह्य् आचमनमिदमापो ऽभिषेचनं

263.003

रथे अक्षे च तिसृभिर्गन्धं युवेति(1) वस्त्रकं ।अप्_263.003अब्।
पुष्पं पुष्पवतीत्येवं धूपन्धूपोसि चाप्यथ

263.004

तेजोसि शुक्रं दीपं स्यान्मधुपर्कं दधीति च ।अप्_263.004अब्।
हिरण्यगर्भ इत्य् अष्टावृचः प्रोक्ता निवेदने

263.005

अन्नस्य मनुजश्रेष्ठ पानस्य च सुगन्धिनः ।अप्_263.005अब्।
चामरव्यजनोपानच्छत्रं यानासने तथा

263.006

:न्
1 गन्धं स्वधेति क.. , ग.. ,घ.. , ज.. च
:प् 464
यत् किञ्चिदेवमादि स्यात्सावित्रेण निवेदयेत् ।अप्_263.006अब्।
पौरुषन्तु जपेत् सूक्तं तदेव जुहुयात्तथा

263.007

अर्चाभवे तथा वेद्याञ्जले पूर्णघते तथा ।अप्_263.007अब्।
नदीतीरे ऽथ कमले शान्तिः स्याद्विष्णुपूजनात्

263.008

ततो होमः प्रकर्तव्यो दीप्यमाने विभावसौ ।अप्_263.008अब्।
परिसम्मृज्य पर्युक्ष्य परिस्तीर्य परिस्तरैः

263.009

सर्वान्नाग्रं समुद्धृत्य जुहुयात् प्रयतस्ततः ।अप्_263.009अब्।
वासुदेवाय देवाय प्रभवे चाव्ययाय च

263.010

अग्नये चैव सोमाय मित्राय वरुणाय च ।अप्_263.010अब्।
इन्द्राय च महाभाग इन्द्राग्निभ्यां तथैव च

263.011

विश्वेभ्यश् चैव देवेभ्यः प्रजानां पतये नमः ।अप्_263.011अब्।
अनुमत्यै तथा राम धन्वन्तरय एव च

263.012

वास्तोष्पत्यै ततो देव्यै ततः स्विष्टिकृते ऽग्नये ।अप्_263.012अब्।
सचतुर्थ्यन्तनाम्ना(1) तु हुत्वैतेभ्यो बलिं हरेत्

263.013

तक्षोपतक्षमभितः पूर्वेणाग्निमतः परम् ।अप्_263.013अब्।
अश्वानामपि धर्मज्ञ ऊर्णानामानि चाप्यथ

263.014

निरुन्धी धूम्रिणीका च अस्वपन्ती(2) तथैव च ।अप्_263.014अब्।
मेघपत्नी(3) च नामानि सर्वेषामेव भार्गव

263.015

आग्नेयाद्याः क्रमेणाथ ततः शक्तिषु निक्षिपेत् ।अप्_263.015अब्।
नन्दिन्यै च सुभाग्यै च सुमङ्गल्यै च भार्गव

263.016

:न्
1 स चतुर्थीकनाम्नेति पाठः साधुः
2 अश्वपर्णीति ज..
3 मेघपर्णीति ज..
:प् 465
भद्रकाल्यै ततो दत्वा स्थूणायाञ्च तथा श्रिये ।अप्_263.016अब्।
हिरण्यकेश्यै च तथा वनस्पतय एव च

263.017

धर्माधर्ममयौ द्वारे गृहमध्ये ध्रुवाय च ।अप्_263.017अब्।
मृत्यवे च वहिर्दद्याद्वरुणायोदकाशये

263.018

भूतेभ्यश् च बहिर्दद्याच्छरणे धनदाय च ।अप्_263.018अब्।
इन्द्रायेन्द्रपुरुषेभ्यो दद्यात् पूर्वेण मानवः

263.019

यमाय तत्पुरुषेभ्यो दद्याद्दक्षिणतस् तथा ।अप्_263.019अब्।
वरुणाय तत्पुरुषेभ्यो दद्यात्पश्चिमतस् तथा

263.020

सोमाय सोमपुरुषेभ्य उदग्दद्यादनन्तरं ।अप्_263.020अब्।
ब्रह्मणे ब्रह्मपुरुषेभ्यो मध्ये दद्यात्तथैव च

263.021

आकाशे च तथा चोर्ध्वे स्थण्डिलाय क्षितौ तथा ।अप्_263.021अब्।
दिवा दिवाचरेभ्यश् च रात्रौ रात्रिचरेषु च

263.022

बलिं वहिस् तथा दद्यात्सायं प्रातस्तु प्रत्यहं ।अप्_263.022अब्।
पिण्डनिर्वपणं कुर्यात् प्रातः सायन्न कारयेत्

263.023

पित्रे तु प्रथमं दद्यात्तत्पित्रे तदनन्तरम् ।अप्_263.023अब्।
प्रपितामहाय तन्मात्रे पितृमात्रे ततो ऽर्पयेत्

263.024

तन्मात्रे दक्षिणाग्रेषु कुशेष्वेवं यजेत् पितॄन् ।अप्_263.024अब्।
इन्द्रवारुणवायव्या याम्या वा नैरृताय ये

263.025

ते काकाः पितृगृहन्तु इमं पिण्डं मयोद्वृतम् ।अप्_263.025अब्।
काकपिण्डन्तु मन्त्रेण शुनः पिण्डं प्रदापयेत्

263.026

विवस्वतः कुले जातौ द्वौ श्यावशबलौ(1) शुनौ ।अप्_263.026अब्।
तेषां पिण्डं प्रदास्यामि पथि रक्षन्तु मे सदा

263.027

:न्
1 श्यामशबलाविति ज.. , ञ.. , ट.. च
:प् 466
सौरभेय्यः(1) सर्वहिताः पवित्राः पापनाशनाः(2) ।अप्_263.027अब्।
प्रतिगृह्णन्तु मे ग्रासं गावस्त्रैलोक्यमातरः

263.028

ग्रोग्रासञ्च स्वस्त्ययनं कृत्वा भिक्षां प्रदापयेत् ।अप्_263.028अब्।
अतिथीन्दीनान् पूजयित्वा गृही भुञ्जीत च स्वयं

263.029

ओं भूः स्वाहा ओं भूवः स्वाहा ओं स्वः स्वाहा ओं
भूर्भुवः स्वः स्वाहा
ओं देवकृतस्यैनसो ऽवयजनमसि स्वाहा ओं पितृकृतस्यैनसो
ऽवयजनमसि स्वाहा ओं आत्मकृतस्यैनसो ऽवयजनमसि स्वाहा ओं
मनुष्यकृतस्यैनसो ऽवयजनमसि स्वाहा ओं एनस एनसो ऽवयजनमसि
स्वाहा । यच्चाहमेनो विद्वांश् चकार यच्चविद्वांस्तस्य सर्वस्यैनसो
ऽवयजनमसि स्वाहा अग्नये स्विष्टिकृते स्वाहा ओं प्रजापतये स्वाहा
॥
विष्णुपूजावैश्वदेवबलिस्ते कीर्तितो मया ॥29

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc