अग्नि पुराण · अध्याय 262
:ए इत्य् आग्नेये महापुराणे अथर्वविधानं
नामैकषष्ट्यधिकद्विशततमो ऽध्यायः
:न्
1 क्रुद्धं भूपं प्रसादयेदिति घ.. , ज.. , झ.. च
:प् 460
% छप्तेर् {262}
:श् अथ द्विषष्ठ्यधिकद्विशततमो ऽध्यायः
उत्पातशान्तिः
पुष्कर उवाच
श्रीसूक्तं प्रतिवेदञ्च ज्ञेयं लक्ष्मीविवर्धनं ।अप्_262.001अब्।
हिरण्यवर्णा हरिणीमृचः पञ्चदश श्रियः
रथेष्वक्षेषु वाजेति चतस्रो यजुषि श्रियः ।अप्_262.002अब्।
स्रावन्तीयं तथा साम श्रीसूक्तं सामवेदके
श्रियं धातर्मयि धेहि प्राक्तमाथर्वणे तथा ।अप्_262.003अब्।
श्रीसूक्तं यो जपेद्भक्त्या हुत्वा श्रीस्तस्य वै भवेत्
पद्मानि चाथ विल्वानि हुत्वाज्यं वा तिलान् श्रियः ।अप्_262.004अब्।
एकन्तु पौरुषं सूक्तं प्रतिवेदन्तु सर्वदं
सूक्तेन द्दद्यान्निष्पापो ह्य् एकैकया(1) जलाञ्जलिं ।अप्_262.005अब्।
स्नात एकैकया पुष्पं विष्णोर्दत्वाघहा भवेत्
स्नात एकैकया दत्वा फलं स्यात् सर्वकामभाक् ।अप्_262.006अब्।
महापापोपपान्तो भवेज्जप्त्वा तु पौरुषं
कृच्छ्रैर् विशुद्धो जप्त्वा च हुत्वा स्नात्वाथ सर्वभाक् ।अप्_262.007अब्।
अष्टादशभ्यः शान्तिभ्यस्तिस्रो ऽन्याः शान्तयो वराः
अमृता चाभयवा सौम्या सर्वोत्पातविमर्दनाः ।अप्_262.008अब्।
अमृता सर्वदवत्या अभया ब्रह्मदैवता
सौम्या च सर्वदैवत्या एका स्यात्सर्वकामदा ।अप्_262.009अब्।
:न्
1 ह्य् एकैकश इति क.. , घ.. , छ.. , ञ.. च
:प् 461
अभयाया मणिः कार्यो वरुणस्य भृगूत्तम
शतकाण्डो ऽमृतायाश् च सौम्यायाः शङ्कजो मणिः ।अप्_262.010अब्।
तद्दैवत्यास् तथा मन्त्राः सिद्धौ(1) स्यान्मणिबन्धनं
दिव्यान्तरीक्षभौमादिसमुत्पातार्दना इमाः ।अप्_262.011अब्।
दिव्यान्तरीक्षभौमन्तु अद्भुतं त्रिविधं शृणु
ग्रहर्क्षवैकृतं दिव्यमान्तरीक्षन्निबोध मे ।अप्_262.012अब्।
उल्कापातश् च दिग्दाहः परिवेशस्तथैव च
गन्धर्वनगरञ्चैव वृष्टिश् च विकृता च या ।अप्_262.013अब्।
चरस्थिरभवं भूमौ भूकम्पमपि भूमिजं
सप्ताहाभ्यनतरे वृष्टावद्भुतं भयकृद्भवेत् ।अप्_262.014अब्।
शान्तिं विना त्रिभिर्वषैर् अद्भुतं भयकृद्भवेत्
देवतार्चाः(2) प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति च ।अप्_262.015अब्।
आरठन्ति(3) च रोदन्ति प्रस्विद्यन्ते हसन्ति च
अर्चाविकारोपशमो ऽभ्यर्च्य हुत्वा प्रजापतेः ।अप्_262.016अब्।
अनग्निर्दीप्यते यत्र राष्ट्रे च भृशनिस्वनं
न दीप्यते चेन्धनवांस्तद्राष्ट्रं पाड्यते नृपैः ।अप्_262.017अब्।
अग्निवैकृत्यशमनमग्निमन्त्रैश् च भार्गव
अकाले फलिता वृक्षाः क्षीरं रक्तं स्रवन्ति च ।अप्_262.018अब्।
वृक्षोत्पातप्रशमनं शिवं पूज्य च कारयेत्
अतिवृष्टिरनावृष्टिर्दुर्भिक्षायोभयं मतं ।अप्_262.019अब्।
:न्
1 सिद्ध्या इति घ.. , ञ.. च
2 देवताश्चेति ख.. , छ.. च
3 आवटन्तीति ख.. , घ.. , छ.. , ञ.. च
:प् 462
अनृतौ त्रिदिनारब्धवृष्टिर्ज्ञेया भयाय हि
वृष्टिवैकृत्यनाशः स्यात्पर्जण्येन्द्वर्कपूजनात् ।अप्_262.020अब्।
नगरादपसर्पन्ते समीपमुपयान्ति च
नद्यो ह्रदप्रश्रवणा विरसाश् च भवन्ति च ।अप्_262.021अब्।
शलिलाशयवैकृत्ये जप्तव्यो वारुणो मनुः
अकालप्रसवा नार्यः कालतो वाप्रजास् तथा ।अप्_262.022अब्।
विकृतप्रसवाश् चैव युग्मप्रसवनादिकं
स्त्रीणां प्रसववैकृत्ये स्त्रीविप्रादिं प्रपूजयेत् ।अप्_262.023अब्।
वडवा हस्तिनी गौर्वा यदि युग्मं प्रसूयते
विजात्यं विकृतं वापि षड्भिर्मासैर् म्रियेत वै ।अप्_262.024अब्।
विकृतं वा प्रसूयन्ते परचक्रभयं भवेत्
होमः प्रसूतिवैकृत्ये जपो विप्रादिपूजनं ।अप्_262.025अब्।
यानि यानान्ययुक्तानि युक्तानि न वहन्ति च
आकाशे तूर्यनादाश् च महद्भयमुपस्थितं ।अप्_262.026अब्।
प्रविशन्ति यदा ग्राममारण्या मृगपक्षिणः
अरण्यं यान्ति वा ग्राम्याः जलं यान्ति स्थलोद्भवाः ।अप्_262.027अब्।
स्थलं वा जलजा यान्ति राजद्वारादिके शिवाः
प्रदोषे कुक्कुटो वासे शिवा चार्कोदये भवेत् ।अप्_262.028अब्।
गृहङ्कपोतः प्रविशेत् क्रव्याहा मूर्ध्नि लीयते
मधुरां मक्षिकां कुर्यात् काको मैथुनगो दृशि ।अप्_262.029अब्।
प्रासादतोरणोद्यानद्वारप्राकारवेश्मनां
अनिमित्तन्तु पतनं दृढानां राजमृत्यवे ।अप्_262.030अब्।
रजसा वाथ धूमेन दिशो यत्र समाकुलाः
:प् 463
केतूदयोपरागौ च छिद्रता शशिसूर्ययोः ।अप्_262.031अब्।
ग्रहर्क्षविकृतिर्यत्र तत्रापि भयमादिशेत्
अग्निर्यत्र म दीप्येत स्रवन्ते चोदकम्भकाः ।अप्_262.032अब्।
मृतिर्भयं शून्यतादिरुत्पातानां फलम्भवेत्
द्विजदेवादिपूजाभ्यः शान्तिर्जप्यैस्तु होमतः ॥33
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0