अग्नि पुराण · अध्याय 264
:ए इत्य् आग्नेये महापुराणे देवपूजावैश्वदेवबलिर्नाम
त्रिषष्ट्यधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {264}
:श् अथ चतुःषष्ठ्यधिअकद्विशततमो ऽध्यायः
दिक्पालादिस्नानं
अग्निर् उवाच
सर्वार्थसाधनं स्नानं वक्ष्ये शान्तिकरं शृणु ।अप्_264.001अब्।
स्नापयेच्च सरित्तीरे ग्रहान् विष्णुं विचक्षणः
:न्
1 सौरभेया इति क.. , घ.. , छ.. , ञ.. च
2 पुष्पराशय इति ज.. , ट.. च
:प् 467
देवालये ज्वरार्त्यादौ विनायकग्रहार्दिते ।अप्_264.002अब्।
विद्यार्थिनो ह्रदे गेहे जयकामस्य तीर्थके
पद्मिन्यां स्नापयेन्नारीं गर्भो यस्याः स्रवेत्तथा ।अप्_264.003अब्।
अशोकसन्निधौ स्नायाज्जातो यस्या विनश्यति
पुष्पार्थिनाञ्च पुष्पाढ्ये पुत्रार्थिनाञ्च सागरे ।अप्_264.004अब्।
गृहसौभाग्यकामानां सर्वेषां विष्णुसन्निधौ
वैष्णवे रेवतीपुष्ये सर्वेषां स्नानमुत्तमं ।अप्_264.005अब्।
स्नानकामस्य सप्ताहम्पूर्वमुत्सादनं स्मृतं
पुनर् नवां रोचनाञ्च शताङ्गं गुरुणी त्वचं ।अप्_264.006अब्।
मधूकं रजनी द्वे च तगरन्नागकेशरम्
अम्बरीञ्चैव मञ्जिष्ठां मांसीयासकमर्दनैः ।अप्_264.007अब्।
प्रियङ्गुसर्षपं कुष्ठम्बलाम्ब्राह्मीञ्च कुङ्कुमं
पञ्चगव्यं शक्तुमिश्रं उद्वर्त्य स्नानमाचरेत् ।अप्_264.008अब्।
मण्डले कर्णिकायाञ्च विष्णुं ब्राह्मणमर्चयेत्
दक्षे वामे हरं पूर्वं पत्रे पूर्वादिके क्रमात् ।अप्_264.009अब्।
लिखेदिन्द्रादिकान्देवान् सायुधान् सहबान्धवान्(1)
स्नानमण्डलकान् दिक्षु कुर्याच्चैव विदिक्षु च ।अप्_264.010अब्।
विष्णुब्रह्मेशशक्रादींस्तदस्त्राण्यर्च्य होमयेत्
एकैकस्य त्वष्टशतं समिधस्तु तिलान् धृतं ।अप्_264.011अब्।
भद्रः सुभद्रः सिद्धार्थः कलसाः पुष्टिवर्धनाः
अमोघश्चित्रभानुश् च पर्जन्यो ऽथ सुदर्शनः ।अप्_264.012अब्।
स्थापयेत्तु वटानेनान् साश्विरुद्रमरुद्गणान्
:न्
1 सहवाहनानिति घ.. , ज.. च
:प् 468
विश्वे देवस् तथा दैत्या वसवो मुनयस् तथा ।अप्_264.013अब्।
आवेशयन्तु सुप्रीतास् तथान्या अपि देवताः
ओषधीर् निक्षिपेत् कुम्भे जयन्तीं विजयां जयां ।अप्_264.014अब्।
शतावरीं शतपुष्पां विष्णुक्रान्तापराजिताम्
ज्योतिष्मतीमतिबलाञ्चन्दनोशीरकेशरं ।अप्_264.015अब्।
कस्तूरिकाञ्च कर्पूरं बालकं पत्रकं त्वचं
जातीफलं लवङ्गञ्च मृत्तिकां पञ्चगव्यकं ।अप्_264.016अब्।
भद्रपीठे स्थितं साध्यं स्नापयेयुर्द्विजा बलात्
राजाभिषेकमन्त्रोक्तदेवानां होमकाः पृथक् ।अप्_264.017अब्।
पूर्णाहुतिन्ततो दत्वा गुरवे दक्षिणां ददेत्
इन्द्रो ऽभिषिक्तो गुरुणा पुरा दैत्यान् जघान ह ।अप्_264.018अब्।
दिक्पालस्नानङ्कथितं संग्रामादौ जयादिकं
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0