अग्नि पुराण · अध्याय 260
:ए इत्य् आगेनेये महापुराणे यजुर्विधानं
नामोनषष्ट्यधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {260}
:श् अथ षष्ठ्यधिकद्विशततमो ऽध्यायः
सामविधानं
पुष्कर उवाच
युजुर्विधानङ्कथितं वक्ष्ये साम्नां विधानकं ।अप्_260.001अब्।
संहितां वैष्णवीञ्जप्त्वा हुत्वा स्यात् सर्वकामभाक्
संहिताञ्छान्दसीं साधु जप्त्वा प्रीणाति शङ्करं ।अप्_260.002अब्।
स्कन्दीं पैत्र्यां संहिताञ्च जप्त्वा स्यात्तु प्रसादवान्
:न्
1 भागत इति क.. , ग.. , छ.. , ञ.. च
2 प्रवादीशं सोपदितीति ख.. , छ.. च
3 सर्वशान्तिकरन्तथेति घ.. , ञ.. च
:प् 455
यत इन्द्र भजामहे हिंसादोषविनाशनं ।अप्_260.003अब्।
अवकीर्णी मुच्यते च अग्निस्तिग्मेति वै जपन्
सर्वपापहरं ज्ञेयं परितोयञ्च तासु च(1) ।अप्_260.004अब्।
अविक्रेयञ्च विक्रीय जपेद्घृतवतीति च
अयानो देव सवितुर्ज्ञेयन्दुःस्वप्ननाशनं ।अप्_260.005अब्।
अबोध्यग्निरितिमन्त्रेण घृतं राम यथाविधि
अभ्युक्ष्य घृतशेषेण मेखलाबन्ध इष्यते ।अप्_260.006अब्।
स्त्रीणां यासान्तु गर्भाणि पतन्ति भृगुसत्तम
मणिं जातस्य बालस्य वध्नीयात्तदनन्तरं ।अप्_260.007अब्।
सोमं राजानमेतेन व्याधिभिर्विप्रमुच्यते
सर्पसाम प्रयुञ्जीनो नाप्नुयात् सर्पजम्भयं ।अप्_260.008अब्।
माद्य त्वा वाद्यतेत्येतद्धुत्वा विप्रः सहस्रशः
शतावरिमणिबद्ध्वा नाप्नुयाच्छस्त्रतो भयं ।अप्_260.009अब्।
दीर्घतमसोर्क इति हुत्त्वान्नं प्राप्नुयाद्बहु
स्वमध्यायन्तीति जपन्न म्रियेत पिपासया(2) ।अप्_260.010अब्।
त्वमिमा ओषधी ह्य् एतज्जप्त्वा व्याधिं न वाप्नुयात्
पथि देवव्रतञ्जप्त्वा भयेभ्यो विप्रमुच्यते ।अप्_260.011अब्।
यदिन्द्रो मुनये त्वेति हुतं सौभाग्यवर्धनं
भगो न चित्र इत्य् एवं नेत्रयो रञ्जनं हितं ।अप्_260.012अब्।
सौभाग्यवर्धनं राम नात्र कार्य विचारणा
जपेन्द्रेति वर्गञ्च तथा सौन्भाग्यवर्धनं ।अप्_260.013अब्।
:न्
1 परितोयं युतायुतमिति ज.. , ट.. च
2 पिपासित इति घ.. , ञ.. च
:प् 456
परि प्रिया हि वः कारिः(1) काम्यां संश्रावयेत् स्त्रियं
सा तङ्कामयते राम नात्र कार्या विचारणा ।अप्_260.014अब्।
रथन्तरं वामदेव्यं ब्रह्मवर्चसवर्धनं
प्राशयेद्बालकं नित्यं वचाचूर्णं घृतप्लुतं ।अप्_260.015अब्।
इन्द्रमिद्गाथिनं जप्त्वा भवेच्छ्रुतिधरस्त्वसौ
हुत्वा रथन्तरञ्जप्त्वा पुत्रमाप्नोत्यसंशयं ।अप्_260.016अब्।
मयि श्रीरिति मन्त्रोयं जप्तव्यः श्रीविवर्धनः
वैरूप्यस्याष्टकं नित्यं प्रयुञ्जानः श्रियं लभेत् ।अप्_260.017अब्।
सप्ताष्टकं प्रयुञ्जानः सर्वान् कामानवाप्नुयात्
गव्येषुणेति यो नित्यं सायं प्रातरतन्त्रितः ।अप्_260.018अब्।
उपस्थानं गवां कुर्यात्तस्य स्युस्ताः सदा गृहे
घृताक्तन्तु यवद्रोणं वात आवातु भेषजं ।अप्_260.019अब्।
अनेन विधिवत् सर्वां मायां व्यपोहति
प्रदेवो दासेन तिलान् हुत्वा कार्मणकृन्तनं ।अप्_260.020अब्।
अभि त्वा पूर्वपीतये वषट्कारसमन्वितं
वासकेध्मसहस्रन्तु हुतं युद्धे जयप्रदं ।अप्_260.021अब्।
हस्त्यश्वपुरुषान् कुर्याद्बुधः पिष्टमयान् शुभान्
परकीयानथोद्देश्य प्रधानपुरुषांस् तथा ।अप्_260.022अब्।
सुस्विन्नान् पिष्टकवरान् क्षुरेणोत् कृत्य भागशः
अभि त्वा शूर णोनुमो मन्त्रेणानेन मन्त्रवित् ।अप्_260.023अब्।
कृत्वा सर्षपतैलाक्तान् क्रोधेन(2) जुहुयात्ततः
:न्
1 परिप्रियादेव कारिरिति ख.. , छ.. च । परिप्रियादेव कविरिति घ.. , ञ.. च
2 मन्त्रेणेति ख.. , छ.. , ज.. च
:प् 457
एतत् कृत्वा बुधः कर्म संग्रामे जयमाप्नुयात् ।अप्_260.024अब्।
गारुडं वामदेव्यञ्च रथन्तरवृहद्रथौ
सर्वपापप्रशमनाः कथिताः संशयं विना
॥25
:ए इत्य् आग्नेये महापुराणे सामविधानं नाम
षष्ट्यधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {261}
:श् अथैकषष्ठ्यधिकद्विशततमो ऽध्यायः
अथर्वविधानं
पुष्कर उवाच
साम्नां विधानं कथितं वक्ष्ये चाथर्वणामथ ।अप्_261.001अब्।
शान्तातीयं गणं हुत्वा शान्तिमाप्नोति मानवः
भैषज्यञ्च गणं हुत्वा सर्वान्रोगान् व्यापोहति ।अप्_260.002अब्।
त्रिसप्तीयं गणं हुत्वा सर्वपापैः प्रमुच्यते
क्वचिन्नाप्नोति च भयं हुत्वा चैवाभयङ्गणं ।अप्_260.003अब्।
न क्वचिज्जायते राम गणं हुत्वा पराजितं
आयुष्यञ्च गणं हुत्वा अपमृत्युं व्यपोहति ।अप्_260.004अब्।
स्वस्तिमाप्नोति सर्वत्र हुत्वा स्वस्त्ययनङ्गणं
श्रेयसा योगमाप्नोति शर्मवर्मगणन्तथा ।अप्_260.005अब्।
वास्तोष्पत्यगणं हुत्वा वास्तुदोषान् व्यपोहति
तथा रौद्रगणं हुत्वा सर्वान् दोषान् व्यपोहति ।अप्_260.006अब्।
एतैर् दशगुणैर् होमी ह्य् अष्टादशसु शान्तिषु
:प् 458
वैष्णवी शान्तिरैन्द्री च ब्राह्मी रौद्री तथैव च ।अप्_260.007अब्।
वायव्या वारुणी चैव कौवेरी भार्गवी तथा
प्राजापत्या तथा त्वाष्ट्री कौमारी वह्निदेवता ।अप्_260.008अब्।
मारुद्गणा च गान्धारी शान्तैर् नैरृतकी तथा
शान्तिराङ्गिरसी याम्या पार्थिवी सर्वकामदा ।अप्_260.009अब्।
यस्त्वां मृत्युरिति ह्य् एतज्जप्तं मृत्युविनाशनं
सुपर्णस्त्वेति हुत्वा च भुजगैर् नैव बाध्यते ।अप्_260.010अब्।
इन्द्रेण दत्तमित्येतत् सर्वकामकरम्भवेत्
इन्द्रेण दत्तमित्येतत् सर्वबाधाविनाशनं ।अप्_260.011अब्।
इमा देवीति मन्त्रश् च सर्वशान्तिकरः परः
देवा मरुत इत्य् एतत् सर्वकामकरम्भवेत् ।अप्_260.012अब्।
यमस्य लोकादित्येतत् दुःस्वप्नशमनम्परं
इन्द्रश् च पञ्चबणिजेति(1) हुतं स्त्रीणां सौभाग्यवर्धनं ।अप्_260.013अब्।
कामो मे वाजीति हुतं स्त्रीणां सौभाग्यवर्धनं
तुभ्यमेव जवीमन्नित्ययुतन्तु हुतम्भवेत् ।अप्_260.014अब्।
अग्ने गोभिन्न इत्य् एतत्(2) मेधावृद्धिकरम्परं
ध्रुवं ध्रुवेणेति हुतं स्थानलाभकरं भवेत् ।अप्_260.015अब्।
अलक्तजीवेति शुना कृषिलाभकरं भवेत्
अहन्ते भग्न इत्य् एतत् भवेत्सौभाग्यवर्धनं ।अप्_260.016अब्।
ये मे पाशस् तथाप्येतत् बन्धनाम्नोक्षकारणं
शपन्त्वहन्निति रिपून् नाशयेद्धोमजाप्यतः ।अप्_260.017अब्।
:न्
1 इन्द्र वनं वनिक् चेतीति घ.. , ज.. च
2 अग्ने सौभाग्य इत्य् एतदिति ज..
:प् 459
त्वमुत्तममितीत्येतद्यशोबुद्धिविवर्धनं
यथा मृगमतीत्येतत् स्त्रीणां सौभाग्यवर्धनं ।अप्_260.018अब्।
येन चेहदिदञ्चैव गर्भलाभकरं भवेत्
अयन्ते योनिरित्येतत् पुत्रलाभकरं भवेत् ।अप्_260.019अब्।
शिवः शिवाभिरित्येतत् भवेत्सौभाग्यवर्धनं(1)
वृहस्पतिर् नः परिपातु पथि स्वस्त्ययनं भवेत् ।अप्_260.020अब्।
मुञ्चामि त्वेति कथितमपमृत्युनिवारणं
अथर्वशिरसो ऽध्येता सर्वपापैः प्रमुच्यते ।अप्_260.021अब्।
प्राधान्येन तु मन्त्राणां किञ्चित् कर्म तवेरितं
वृक्षाणां यज्ञियानान्तु समिधः प्रथमं हविः ।अप्_260.022अब्।
आज्यञ्च व्रीहयश् चैव तथा वै गौरसर्षपाः
अक्षतानि तिलाश् चैव दधिक्षीरे च भार्गव ।अप्_260.023अब्।
दर्भास्तथैव दूर्वाश् च विल्वानि कमलानि च
शान्तिपुष्टिकराण्याहुर्द्रव्याण्येतानि सर्वशः ।अप्_260.024अब्।
तैलङ्कणानि धर्मज्ञ राजिका रुधिरं विषं
समिधः कण्टकोपेता अभिचारेषु योजयेत् ।अप्_260.025अब्।
आर्षं वै दैवतं छन्दो विनियोगज्ञ आचरेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0