भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 259

259.001

:ए इत्य् आग्नेये महापुराणे ऋग्विधानं
नामाष्टपञ्चाशदधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {259}
:श् अथोनषष्ट्यधिकद्विशततमो ऽध्यायः
यजुर्विधानं
पुष्कर उवाच
यजुर्विधानं वक्ष्यामि भुक्तिमुक्तिप्रदं शृणु ।अप्_259.001अब्।
ओंकारपूर्विका राम महाव्याहृतयो मताः

259.002

सर्वकल्मषनाशिन्यः सर्वकामप्रदास् तथा ।अप्_259.002अब्।
आज्याहुतिसहस्रेण देवानाराधयेद्बुधः

259.003

मनसः काङ्क्षितं राम मनसेप्सितकामदं ।अप्_259.003अब्।
शान्तिकामो यवैः कुर्यात्तिलैः पापापनुत्तये

259.004

धान्यैः सिद्धार्थकैश् चैव सर्वकाम करैस् तथा ।अप्_259.004अब्।
औदुम्बरीभिरिध्माभिः पसुकामस्य शस्यते

259.005

दध्ना चैवान्नकामस्य पयसा शान्तिमिच्छतः ।अप्_259.005अब्।
अपामार्गसमिद्धस्तु कामयन् कनकं बहु

259.006

:प् 447
कन्याकामो घृताक्तानि युग्मशो ग्रथितानि तु ।अप्_259.006अब्।
जातीपुष्पाणि जुहुयाद्ग्रामार्थी तिलतण्डुलान्

259.007

वश्यकर्मणि शाखोढवासापामार्गमेव च ।अप्_259.007अब्।
विषासृङ्मिश्रसमिधो व्याधिघातस्य भार्गव

259.008

क्रुद्धस्तु जुहुयात्सम्यक् शत्रूणां बधकाम्यया ।अप्_259.008अब्।
सर्वव्रीहिमयीं कृत्वा राज्ञः प्रतिकृतिं द्विज

259.009

सहस्रशस्तु जुहुयाद्राजा वशगतो भवेत् ।अप्_259.009अब्।
वस्त्रकामस्य पुष्पाणि दर्वा व्याधिविनाशिनी

259.010

ब्रह्मवर्चसकामस्य वासोग्रञ्च विधीयते ।अप्_259.010अब्।
प्रत्यङ्गिरेषु जुहुयात्तुषकण्टकभस्मभिः

259.011

विद्वेषणे च पक्ष्माणि काककौशिकयोस् तथा ।अप्_259.011अब्।
कापिलञ्च घृतं हुत्वा तथा चन्द्रग्रहे द्विज

259.012

वचाचूर्णेन सम्पातात्समानीय च तां वचां ।अप्_259.012अब्।
सहस्रमन्त्रितां भुक्त्वा मेधावी जायते नरः

259.013

एकादशाङ्गुलं शङ्कु लौहं खादिरमेव च(1) ।अप्_259.013अब्।
द्विषतो बधोसीति जपन्निखनेद्रिपुवेश्मनि

259.014

उच्चाटनमिदं कर्म शत्रूणां कथितं तव ।अप्_259.014अब्।
चक्षुष्या इति जप्त्वा च विनष्टञ्चक्षुराप्नुयात्

259.015

उपयुञ्जत इत्य् एदनुवाकन्तथान्नदं ।अप्_259.015अब्।
तनूनपाग्ने सदिति दूर्वां हुत्वार्तिवर्जितः

259.016

भेषजमसीति दध्याज्यैर् होमः पशूपसर्गनुत्(2) ।अप्_259.016अब्।
:न्
1 खादिरमेव वेति ग.. , घ.. , ञ.. च
2 पशूपसर्गहेति क.. , छ.. च
:प् 448
त्र्यम्वकं यजामहे होमः सौभाग्यवर्धनः

259.017

कन्यानाम गृहीत्वा तु कन्यलाभकरः परः ।अप्_259.017अब्।
भयेषु तु जपन्नित्यं भयेभ्यो विप्रमुच्यते

259.018

धुस्तूरपुष्पं सघृतं हुत्वा स्यात् सर्वकामभाक् ।अप्_259.018अब्।
हुत्वा तु गुग्गुलं राम स्वप्ने पश्यति शङ्करं

259.019

युञ्जते मनो ऽनुवाकं जप्त्वा दीर्घायुराप्नुयात् ।अप्_259.019अब्।
विष्णोरवाटमित्येतत्(1) सर्वबाधाविनाशनं

259.020

रक्षोघ्नञ्च यशस्यञ्च तथैव विजयप्रदं ।अप्_259.020अब्।
अयत्नो अग्निरित्येतत् संग्रामे विजयप्रदं

259.021

इदमापः प्रवहत स्नाने पापापनोदनं ।अप्_259.021अब्।
विश्वकर्मन्नु हविषा सूचीं लौहीन्दशाङ्गुलाम्

259.022

कन्याया निखनेद्द्वारि सान्यस्मै न प्रदीयते ।अप्_259.022अब्।
देव सवितरेतेन जुहुयाद्बलकामो द्विजोत्तम

259.023

अग्नौ स्वाहेति जुहुयाद्बलकामो द्विजोत्तम ।अप्_259.023अब्।
तिलैर् यवैश् च धर्मज्ञ तथापामार्गतण्डुलैः

259.024

सहस्रमन्त्रितां कृत्वा तथा गोरोचनां द्विज ।अप्_259.024अब्।
तिलकञ्च तथा कृत्वा जनस्य प्रियतामियात्

259.025

रुद्राणाञ्च तथा जप्यं सर्वाघविनिसूदनं ।अप्_259.025अब्।
सर्वकर्मकरो होमस् तथा सर्वत्र शन्तिदः

259.026

अजाविकानामश्वानां कुञ्जराणां तथा गवां ।अप्_259.026अब्।
मनुष्याणान्नरेन्द्राणां बालानां योषितामपि

259.027

ग्रामाणां नगरानाञ्च देशानामपि भार्गव ।अप्_259.027अब्।
:न्
1 विष्णोर्विराटमित्येतदिति घ.. , ञ.. च । विष्टोरराटमित्येतदिति क.. ,
ज.. , ट.. च
:प् 449
उपद्रुतानां धर्मज्ञ व्याधितानां तथैव च

259.028

मरके समनुप्राप्ते रिपुजे च तथा भये ।अप्_259.028अब्।
रुद्रहोमः परा शान्तिः पायसेन घृतेन च

259.029

कुष्माण्डघृतहोमेन सर्वान् पापान् व्यपोहति ।अप्_259.029अब्।
शक्तुयावकभैक्षाशी नक्तं मनुजसत्तम

259.030

बहिःस्नानरतो मासान्मुच्यते ब्रह्महत्यया ।अप्_259.030अब्।
मधुवातेति मन्त्रेण होमादितो ऽखिलं लभेत्

259.031

दधि क्राव्नेति हुत्वा तु पुत्रान् प्राप्नोत्यसंशयं ।अप्_259.031अब्।
तथा घृतवतीत्येतदायुष्यं स्यात् घृतेन तु

259.032

स्वस्तिन इन्द्र इत्य् एतत्सर्वबाधाविनाशनं ।अप्_259.032अब्।
इह गावः प्रज्यायध्वमिति पुष्टिविवर्धनम्

259.033

घृताहुतिसहस्रेण तथा लक्ष्मीविनाशनं ।अप्_259.033अब्।
श्रुवेण देवस्य त्वेति हुत्वापामार्गतण्डुलं

259.034

मुच्यते विकृताच्छीघ्रमभिचारान्न संशयः ।अप्_259.034अब्।
रुद्र पातु पलशस्य समिद्भिः कनकं लभेत्

259.035

शिवो भवेत्यग्न्युत्पाते व्रीहिभिर्जुहुयान्नरः ।अप्_259.035अब्।
याः सेना इति चैतच्च तस्करेभ्यो भयापहम्

259.036

यो अस्मभ्यमवातीयाद्धुत्वा कृष्णतिलान्नरः ।अप्_259.036अब्।
सहस्रशो ऽभिचाराच्च मुच्यते विकृताद्द्विज

259.037

अन्नेनान्नपतेत्येवं हुत्वा चान्नमवाप्नुयात् ।अप्_259.037अब्।
हंसः शुचिः सदित्येतज्जप्तन्तोये ऽघनाशनं

259.038

चत्वारि भङ्गेत्येतत्तु सर्वपापहरं जले ।अप्_259.038अब्।
देवा यज्ञेति जप्त्वा तु ब्रह्मलोके महीयते

259.039

:प् 450
वसन्तेति च हुत्वाज्यं आदित्याद्वरमाप्नुयात् ।अप्_259.039अब्।
सुपर्णोसीति चेत्यस्य कर्मव्याहृतिवद्भवेत्

259.040

नमः स्वाहेति त्रिर्जप्त्वा बन्धनान्मोक्षमाप्नुयात् ।अप्_259.040अब्।
अन्तर्जले त्रिरावर्त्य द्रुपदा सर्वपापमुक्

259.041

इह गावः प्रजायध्वं मन्त्रोयं बुद्धिवर्धनः ।अप्_259.041अब्।
हुतन्तु सर्पिषा दध्ना पयसा पायसेन वा

259.042

शतम् य(1) इति चैतेन हुत्वा पर्णफलाणि च ।अप्_259.042अब्।
आरोग्यं श्रियमाप्नोति जीवितञ्च चिरन्तथा

259.043

ओषधीः प्रतिमोदग्ध्वं(2) वपने लवने ऽर्थकृत् ।अप्_259.043अब्।
अश्वावती पायसेन होमाच्छान्तिमवाप्नुयात्

259.044

तस्मा इति च मन्त्रेन बन्धनस्थो विमुच्यते ।अप्_259.044अब्।
युवा सुवासा इत्य् एव वासांस्याप्नोति चोत्तमम्

259.045

मुञ्चन्तु मा शपथ्यानि सर्वान्तकविनाशनम्(3) ।अप्_259.045अब्।
मा माहिंसीस्तिलाज्येन हुतं रिपुविनाशनं(4)

259.046

नमो ऽस्तु सर्वसर्पेभ्यो घृतेन पायसेन तु ।अप्_259.046अब्।
कृणुधवं राज इत्य् एतदभिचारविनाशनं

259.047

दूर्वाकाण्डायुतं हुत्वा काण्डात् काण्डेति मानवः ।अप्_259.047अब्।
ग्रामे जनपदे वापि मरकन्तु शमन्नयेत्

259.048

रोगार्तो मुच्यते रोगात् तथा दुःखात्तु दुःखितः ।अप्_259.048अब्।
:न्
1 शतञ्चेति ट.. । शतं वेति क..
2 औषधयः प्रतिमोदध्यमिति ज..
3 सर्वकिल्विषनाशनमिति घ.. , ञ.. च
4 विघ्नविनाशनमिति क.. , छ.. च
:प् 451
औडुम्बरीश् च समिधो मधुमान्नो वनस्पतिः

259.049

हुत्वा सहस्रशो राम धनमाप्नोति मानवः ।अप्_259.049अब्।
सौभाग्यं महदाप्नोति व्यवहारे तथा त्रयम्

259.050

अपां गर्भमिति हुत्वा देवं वर्षापयेद्ध्रुवम् ।अप्_259.050अब्।
अपः पिवेति च तथा हुत्वा दधि घृतं मधु

259.051

प्रवर्तयति धर्मज्ञ महावृष्टिमनन्तरं ।अप्_259.051अब्।
नमस्ते रुद्र इत्य् एतत् सर्वोपद्रवनाशनं

259.052

सर्वशान्तिकरं प्रोक्तं महापातकनाशनं ।अप्_259.052अब्।
अध्यवोचदित्यनेन रक्षणं व्याधितस्य तु

259.053

रक्षोघ्नञ्च यशस्यञ्च चिरायुःपुष्टिवर्धनम् ।अप्_259.053अब्।
सिद्धार्थकानां क्षेपेण पथि चैतज्जपन् सुखी

259.054

असौ यस्ताम्र इत्य् एतत् पठन्नित्यं दिवाकरं ।अप्_259.054अब्।
उपतिष्ठेत धर्मज्ञ सायं प्रातरतन्द्रितः

259.055

अन्नमक्षयमाप्नोति दीर्घमायुश् च विन्दति ।अप्_259.055अब्।
प्रमुञ्च(1) धन्वन्नित्येतत् षड्भिरायुधमन्त्रणं

259.056

रिपूणां भयदं युद्धेनात्रकार्या विचारणा ।अप्_259.056अब्।
मानो महान्त इत्य् एवं बालानां शान्तिकारकं

259.057

नमो हिरण्यवाहवे इत्य् अनुवाकसप्तकम् ।अप्_259.057अब्।
राजिकां कटुतैलाक्तां जुहुयाच्छत्रुनाशनीं

259.058

नमो वः किरिकेभ्यश् च पद्मलक्षाहुतैर् नरः ।अप्_259.058अब्।
राज्यलक्ष्मीमवाप्नोति तथा बिल्वैः सुवर्णकम्

259.059

इमा रुद्रायेति तिलैर् होमाच्च धनमाप्यते ।अप्_259.059अब्।
:न्
1 प्रयुञ्जेति ग.. , घ.. , ञ.. च
:प् 452
दूर्वाहोमेन चान्येन सर्वव्याधिविवर्जितः

259.060

आशुः शिशान इत्य् एतदायुधानाञ्च रक्षणे ।अप्_259.060अब्।
संग्रामे कथितं राम सर्वशत्रुनिवर्हणं

259.061

राजसामेति जुहुयात् सहस्रं पञ्चभिर्द्विज ।अप्_259.061अब्।
आज्याहुतीनां धर्मज्ञ चक्षूरोगाद्विमुच्यते

259.062

शन्नो वनस्पते गेहे होमः स्याद्वास्तुदोषनुत् ।अप्_259.062अब्।
अग्न आयूंसि हुत्वाज्यं द्वेषं नाप्नोति केनचित्

259.063

अपां फेनेति लाजाभिर्हुत्वा जयमवाप्नुयात् ।अप्_259.063अब्।
भद्रा इतीन्द्रियैर् हीनो जपन् स्यात् सकलेन्द्रियः

259.064

अग्निश् च पृथिवी चेति वशीकरणमुत्तमम् ।अप्_259.064अब्।
अध्वनेति जपन् मन्त्रं व्यवहारे जयी भवेत्

259.065

ब्रह्म राजन्यमिति च कर्मारम्भे तु सिद्धिकृत् ।अप्_259.065अब्।
संवत्सरोसीति धृतैर् लक्षहोमादरोगवान्

259.066

केतुं कृण्वन्नितीत्येतत् संग्रामे जयवर्धनम् ।अप्_259.066अब्।
इन्द्रोग्निर्धर्म इत्य् एतद्रणे धर्मनिबन्धनम्(1)

259.067

धन्वा नागेति मन्त्रश् च धनुर्ग्राहनिकः परः ।अप्_259.067अब्।
यजीतेति तथा मन्त्रो विज्ञेयो ह्य् अभिमन्त्रणे

259.068

मन्त्रश्चाहिरथेत्येतच्छराणां(2) मन्त्रणे भवेत् ।अप्_259.068अब्।
वह्नीनां पितरित्येतत्तूर्णमन्त्रः प्रकीर्तितः

259.069

युञ्जन्तीति तथाश्वानां योजने मन्त्र उच्यते ।अप्_259.069अब्।
आशुः शिशान इत्य् एतद्यत्रारम्भणमुच्यते

259.070

:न्
1 धर्मविवर्धनमिति ज..
2 मन्त्रश् च हि रथ ह्य् एतच्छराणामिति क.. , छ.. ,च
:प् 453
विष्णोः क्रमेति मन्त्रश् च रथारोहणिकः परः ।अप्_259.070अब्।
आजङ्घेतीति चाश्वानां ताडनीयमुदाहृतं

259.071

याः सेना अभित्वरीति परसैन्यमुखे जपेत् ।अप्_259.071अब्।
दुन्दुभ्य इति चाप्येतद्दुन्दुभीताड्नं भवेत्

259.072

एतैः पूर्वहुतैर् मन्त्रैः कृत्वैवं विजयी भवेत् ।अप्_259.072अब्।
यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः

259.073

रथमुत्पादयेच्छीघ्रं संग्रामे विजयप्रदम् ।अप्_259.073अब्।
आ कृष्णेति तथैतस्य कर्मव्याहृतिवद्भवेत्

259.074

शिवसंकल्पजापेन(1) समाधिं मनसो लभेत् ।अप्_259.074अब्।
पञ्चनद्यः पञ्चलक्षं हुत्वा लक्ष्मीमवाप्नुयात्

259.075

यदा बधून्दक्षायणां मन्त्रेणानेन मन्त्रितम् ।अप्_259.075अब्।
सहस्रकृत्वः कनकं धारयेद्रिपुवारणं

259.076

इमं जीवेभ्य द्रति च शिलां लोष्ट्रञ्चतुर्दिशं ।अप्_259.076अब्।
क्षिपेद्गृहे तदा तस्य न स्याच्चौरभयं निशि

259.077

परिमेगामनेनेति(2) वशीकरणमुत्तमं ।अप्_259.077अब्।
हन्तुमभ्यागतस्तत्र वशीभवति मानवः

259.078

भक्ष्यताम्वूलपुष्पाद्यं मन्त्रितन्तु प्रयच्छति ।अप्_259.078अब्।
यस्य धर्मज्ञ वशगः सोम्य शीघ्रं भविष्यति

259.079

शन्नो मित्र इतीत्येतत् सदा सर्वत्र शान्तिदं ।अप्_259.079अब्।
गणानां त्वा गणपतिं कृत्वा होमञ्चतुष्पथे

259.080

वशीकुर्याज्जगत्सर्वम् सर्वधान्यैर् असंशयम् ।अप्_259.080अब्।
:न्
1 शिवसंकल्प इत्य् एतदिति घ.. , ज.. च
2 पराङ्ने गायनेनेतीति क..
:प् 454
हिरण्यवर्णाः शुचयो मन्त्रोयमभिषेचने

259.081

शन्नो देवीरभिष्टये तथा शान्तिकरः परः ।अप्_259.081अब्।
एकचक्रेति मन्त्रेण हुतेनाज्येन भागशः(1)

259.082

ग्रहेभ्यः शान्तिमाप्नोति प्रसादं न च संशयः ।अप्_259.082अब्।
गावो भग इति द्वाभ्यां हुत्वाज्यङ्गा अवाप्नुयात्

259.083

प्रवादांशः सोपदिति(2) गृहयज्ञे विधीयते ।अप्_259.083अब्।
देवेभ्यो वनस्पत इति द्रुमयज्ञे विधीयते

259.084

गायत्री वैष्णवी ज्ञेया तद्विष्णोः परमम्पदं ।अप्_259.084अब्।
सर्वपापप्रशमनं सर्वकामकरन्तथा(3)

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc