अग्नि पुराण · अध्याय 258
:ए इत्य् आग्नेये महापुराणे वाक्पारुष्यादिप्रकरणं नाम
सप्तपञ्चाशदधिकद्विशतत्मो ऽध्यायः ॥
:प् 437
% छप्तेर् {258}
:श् अथाष्टपञ्चाशदधिकद्विशततमो ऽध्यायः
ऋग्विधानं
अग्निर् उवाच
ऋग्यजुःसामाथर्वविधानं पुष्करोदितम् ।अप्_258.001अब्।
भुक्तिमुक्तिकरं जप्याद्धोमाद्रामाय तद्वदे
पुष्कर उवाच
प्रतिवेदन्तु कर्माणि कार्याणि प्रवदामि ते ।अप्_258.002अब्।
प्रथमं ऋग्विधानं वै शृणु त्वं भुक्तिमुक्तिदम्
अन्तर्जले तथा होमे जपती मनसेप्सितम् ।अप्_258.003अब्।
कामं करोति गायत्री प्राणायामाद्विशेषतः
गायत्र्या दशसाहस्रो जपो नक्ताशनो द्विज ।अप्_258.004अब्।
बहुस्नातस्य तत्रैव सर्वकल्मषनाशनः
दशायुतानि जप्त्वाथ हविष्याशी स मुक्तिभाक् ।अप्_258.005अब्।
प्रणवो हि परं ब्रह्म तज्जपः सर्वपापहा
ओंकारशतजप्तन्तु नाभिमात्रोदके स्थितः ।अप्_258.006अब्।
जलं पिवेत् स सर्वैस्तु पापैर् वै(1) विप्रमुच्यते
मात्रात्रयं त्रयो वेदास्त्रयो देवास्त्रयो ऽग्नयः ।अप्_258.007अब्।
महाव्याहृतयः सप्त लोका होमो ऽखिलाघहा
गायत्री परमा जाप्या महाव्याहृतयस् तथा ।अप्_258.008अब्।
अन्तर्जले तथा राम प्रोक्तश् चैवाघमर्षणः
अग्निमीले पुरोहितं सूत्को ऽयं वह्निदैवतः ।अप्_258.009अब्।
:न्
1 पापैर् हि विप्रमुच्यत इति ग.. , घ.. , ञ.. च
:प् 438
शिरसा धारयन् वह्निं यो जपेत्परिवत्सरम्
होमं त्रिषवणं भैक्ष्यमनग्निज्वलनञ्चरेत् ।अप्_258.010अब्।
अतः परमृचः सप्त वाय्वाद्या याः प्रकीर्तिताः
ता जपन् प्रयतो नित्यमिष्टान् कामान् समश्नुते ।अप्_258.011अब्।
मेधाकामो जपेन्नित्यं सदसन्यमिति त्यचम्
अन्वयो यन्निमाः प्रोक्ताः नवर्चो मृत्युनाशनाः ।अप्_258.012अब्।
शुनःशेफमृषिं बद्धः सन्निरुद्धो ऽथ वा(1) जपेत्
मुच्यते सर्वपापेभ्यो गदी वाप्यगदो भवेत् ।अप्_258.013अब्।
य इच्छेच्छाश्वतं कामं मित्रं प्राज्ञं पुरन्दरं
ऋग्भिः षोड्शभिः कुर्यादिन्द्रियस्येति दिने दिने ।अप्_258.014अब्।
हिरण्यस्तूपमित्येतज्जपन् शत्रून् प्रबाधते
क्षेमी भवति चाध्वानो ये ते पन्था जपन् नरः ।अप्_258.015अब्।
रौद्रीभिःषड्भिरीशानं स्तूयाद्यो वै दिने दिने
चरुं वा कल्पयेद्रौद्रं तस्य शान्तिः परा भवेत् ।अप्_258.016अब्।
उदित्युदन्तमादित्यमुपतिष्ठन् दिने दिने
क्षिपेज्जलाञ्जलीन् सप्त मनोदुःखविनाशनं ।अप्_258.017अब्।
द्विषन्तमित्यथार्धर्चं यद्विप्रान्तं जपन् स्मरेत्
आगस्कृत् सप्तरात्रेण विद्वेषमधिगच्छति ।अप्_258.018अब्।
आरोग्यकामी रोगी वा प्रस्कन्नस्योत्तमं जपेत्
उत्तमस्तस्य चार्धर्चो जपेद्वै विविधासने ।अप्_258.019अब्।
उदयत्यायुरक्ष्यय्यं तेजो मध्यन्दिने जपेत्
:न्
1 सन्निबद्धो ऽथेति क.. , ख.. , ज.. च
:प् 439
अस्तं प्रतिगते सूर्ये द्विषन्तं प्रतिबाधते ।अप्_258.020अब्।
न वयश्चेति सूक्तानि जपन् शत्रून्नियच्छति
एकादश सुपर्णस्य सर्वकामान्विनिर्दिशेत् ।अप्_258.021अब्।
आध्यात्मिकीः क इत्य् एता जपन्मोक्षमवाप्नुयात्
आ नो भद्रा इत्य् अनेन दीर्घमायुरवाप्नुयात् ।अप्_258.022अब्।
त्वं सोमेति च सूक्तेन नवं पश्येन्निशाकरं
उपतिष्ठेत् समित्पाणिर्वासांस्याप्नोत्यसंशयं ।अप्_258.023अब्।
आयुरीप्सन्निममिति कौत्स सूक्तं सदा जपेत्
आपनः शोशुचदिति स्तुत्वा मध्ये दिवाकरं ।अप्_258.024अब्।
यथा मुञ्चति चेषोकां तथा पापं प्रमुञ्चति
जातवेदस इत्य् एतज्जपेत् स्वस्त्ययनं पथि ।अप्_258.025अब्।
भयैर् विमुच्यते सर्वैः स्वस्तिमानाप्नुयात् गृहान्
व्युष्टायाञ्च तथा रात्र्यामेतद्दुःस्वप्ननाशनं ।अप्_258.026अब्।
प्रमन्दिनेति सूयन्त्या जपेद्गर्भविमोचनं
जपन्निन्द्रमिति स्नातो वैश्यदेवन्तु सप्तकं ।अप्_258.027अब्।
मुञ्चत्याज्यं तथा जुह्वत् सकलं किल्विषं नरः
इमामिति जपन् शश्वत् कामानाप्नोत्यभीप्सितान् ।अप्_258.028अब्।
मानस्तोक इति द्वाभ्यां त्रिरात्रोपोषितः शुचिः
औडुम्बरीश् च जुहुयात्समिधश्चाज्यसंस्कृताः ।अप्_258.029अब्।
छित्त्वा सर्वान्मृत्युपाशान् जीवेद्रोगविवर्जितः
ऊर्ध्वबाहुरनेनैव स्तुत्वा सम्भुं तथैव च ।अप्_258.030अब्।
मानस्तोकेति च ऋचा शिखाबन्धे कृते नरः
अघृष्यः सर्वभूतानां जायते संशयं विना ।अप्_258.031अब्।
:प् 440
चित्रमित्युपतिष्ठेत त्रिसन्ध्यं भास्करं तथा
समित्पाणिर्नरो नित्यमीप्सितं धनमाप्नुयात् ।अप्_258.032अब्।
अथ स्वप्नेति च जपन् प्रातर्मध्यन्दिने दिने
दुःस्वप्नञ्चार्हते कृत्स्नं भोजनञ्चाप्नुयाच्छुभम्(1) ।अप्_258.033अब्।
उभे पुमानिति तथा रक्षोघ्नः परिकीर्तितः
उभे वासा इति ऋचो जपन् कामानवाप्नुयात् ।अप्_258.034अब्।
न सागन्निति च जपन् मुच्यते चाततायिनः
कया शुभेति च जपन् जातिश्रैष्ठमवाप्नुयात् ।अप्_258.035अब्।
इमन्नृसोममित्येतत् सर्वान् कामानवाप्नुयात्
पितरित्युपतिष्ठेत नित्यमर्थमुपस्थितं(2) ।अप्_258.036अब्।
अग्ने नयेति सूक्तेन घृतहोमश् च मार्गगः
वीरान्नयमवाप्नोति सुश्लोकं यो जपेत् सदा ।अप्_258.037अब्।
कङ्कतो नेति सूक्तेन विषान् सर्वान् व्यपोहति
यो जात इति सूक्तेन सर्वान् कामानवाप्नुयात् ।अप्_258.038अब्।
गणानामिति सूक्तेन श्निग्धमाप्नोत्यनुत्तमं
यो मे राजन्नितीमान्तु दुःस्वप्नशमनीमृचं ।अप्_258.039अब्।
अध्वनि प्रस्थितो यस्तु पश्येच्छत्रूं समुत्थितं
अप्रशस्तं प्रशस्तं वा कुविदङ्ग इमं जपेत् ।अप्_258.040अब्।
द्वाविंशकं जपन् सूक्तमाध्यात्मिकमनुत्तमं
पर्वसु प्रयतो नित्यमिष्टान् कामान् समश्नुते ।अप्_258.041अब्।
कृणुष्वेति जपन् सूक्तं जुह्वदाज्यं समाहितः
:न्
1 भोजनञ्चाप्नुयाच्छतमिति ख.. , ग.. , घ.. , ज.. च
2 नित्यमन्नमुपस्थितमिति क.. , छ.. च
:प् 441
आरातीनां हरेत् प्राणान् रक्षांस्यपि विनाशयेत् ।अप्_258.042अब्।
उपतिष्ठेत् स्वयं वह्निं परित्यृचा दिने दिने
तं रक्षति स्वयं वह्निर्विश्वतो विश्वतोमुखः ।अप्_258.043अब्।
हंसः शुचिः सदित्येतच्छुचिरीक्षेद्दिवाकरं
कृषिं प्रपद्यमानस्तु स्थालीपाकं यथाविधि ।अप्_258.044अब्।
जुहुयात् क्षेत्रमध्ये तु स्वनीस्वाहास्तु पञ्चभिः
इन्द्राय च मरुद्भ्यस्तु पर्जन्याय भगाय च ।अप्_258.045अब्।
यथालिङ्गन्तु विहरेल्लाङ्गलन्तु कृषीबलः
युक्तो धान्याय सीतायै सुनासीरमथोत्तरं ।अप्_258.046अब्।
गन्धमाल्यैर् नमस्कारैर् यजेदेताश् च देवताः
प्रवापने प्रलवने खलसीतापहारयोः ।अप्_258.047अब्।
अमोघङ्कर्म भवति वर्धते सर्वदा कृषिः
समुद्रादिति सूक्तेन कामानाप्नोति पावकात् ।अप्_258.048अब्।
विश्वानर इति द्वाभ्यां य ऋग्भ्यां वह्निमर्हति
स तरत्यापदः सर्वा यशः प्राप्नोति चाक्षयं ।अप्_258.049अब्।
विपुलां श्रियमाप्नोति जयं प्राप्नोत्यनुत्तमं
अग्ने त्वमिति च स्तुत्वा धनमाप्नोति वाञ्छितं ।अप्_258.050अब्।
प्रजाकामो जपेन्नित्यं वरुणदैवतत्रयं
स्वस्त्या त्रयं जपेत् प्रातः सदा स्वस्त्ययनं महत् ।अप्_258.051अब्।
स्वस्ति पन्था इति प्रोच्य स्वस्तिमान् व्रजते ऽध्वनि
विजिगीषुर्वनस्पते शत्रूणां व्याधितं भवेत्(1) ।अप्_258.052अब्।
स्त्रिया गर्भप्रमूढाया गर्भमोक्षणमुत्तमं
:न्
1 व्याधिकम्भवदिति ट..
:प् 442
अच्छावदेति सूक्तञ्च वृष्टिकामः प्रयिओजयेत् ।अप्_258.053अब्।
निराहारः क्लिन्नवासा न चिरेण प्रवर्षति
मनसः काम इत्य् एतां पशुकामो नरो जपेत् ।अप्_258.054अब्।
कर्दमेन इति स्नायात्प्रजाकामः शुचिव्रतः
अश्वपूर्वा इति स्नायाद्राज्यकामस्तु मानवः ।अप्_258.055अब्।
राहिते चर्मणि स्नायात् ब्राह्मणस्तु यथाविधि
राजा चर्मणि वैयाघ्रे छागे वैश्यस्तथैव च ।अप्_258.056अब्।
दशसाहस्रिको होमः प्रत्येकं परिकीर्तितः
आगार इति सूक्तेन गोष्ठे गां लोकमातरं ।अप्_258.057अब्।
उपतिष्ठेद्व्रजेच्चैव यदिच्छेत्ताः सदाक्षयाः
उपेतितिसृभीराज्ञो दुन्दुभिमभिमन्त्रयेत् ।अप्_258.058अब्।
तेजो बकञ्च प्राप्नोति शत्रुञ्चैव नियच्छति
तृणपाणिर्जपेत्सूक्तुं रक्षोघ्नं दस्युन्भिर्वृतः ।अप्_258.059अब्।
ये के च उमेत्यृचं जप्त्वा दीर्घमायुराप्नुयात्(1)
जीमूतसूक्तेन तथा सेनाङ्गान्यभिमन्त्रयेत् ।अप्_258.060अब्।
यधा लिङ्गं ततो राजा विनिहन्ति रणे रिपून्
आग्नेयेति त्रिभिःसूक्तैर् धनमाप्नोति चाक्षयं ।अप्_258.061अब्।
अमीवहेति सूक्तेन भूतानि स्थापयेन्निशि
सबाधे विषमे दुर्गे बन्धा वा निर्गतः क्वचित् ।अप्_258.062अब्।
पलायन् वा गृहीतो वा सूक्तमेतत्तथा जपेत्
त्रिरात्रं नियतोपोष्य श्रापयेत् पायसञ्चरुं ।अप्_258.063अब्।
तेनाहुतिशतं पूर्णं जुहुयात् त्र्यम्बकेत्यृचा
:न्
1 अवाप्तवानिति ट..
:प् 443
समुद्दिश्य महादेवं जीवेदब्दशतं सुखं ।अप्_258.064अब्।
तच्चक्षुरित्यृचा स्नात उपतिष्ठेद्दिवाकरं
उद्यन्तं मध्यगञ्चैव दीर्घमायुर्जिजीविषुः ।अप्_258.065अब्।
इन्द्रा सोमेति सूक्तन्तु कथितं शत्रुनाशनं
यस्य लुप्तं व्रतं मोहाद्व्रात्यैर् वा संसृजेत्सह ।अप्_258.066अब्।
उपोष्याज्यं स जुहुयात्त्वमग्ने व्रतपा इति
आदित्येत्यृक् च सम्राजं(1) जप्त्वा वादे जयी भवेत् ।अप्_258.067अब्।
महीति च चतुष्केण मुच्यते महतो भयात्
ऋचं महीति जप्त्वा यदि ह्य् एतत् सर्वकामानवाप्नुयात् ।अप्_258.068अब्।
द्वाचत्वारिंशतिं चैन्द्रं जप्त्वा नाशयते रिपून्
वाचं महीति जप्त्वा च प्राप्नोत्यारोग्यमेव च ।अप्_258.069अब्।
शन्नो भवेति द्वाभ्यान्तु भुक्त्वान्नं प्रयतः शुचिः
हृदयं पाणिना स्पृष्ट्वा व्याधिभिर् नाभिभूयते ।अप्_258.070अब्।
उत्तमेदमिति स्नातो हुत्त्वा शत्रुं प्रमापयेत्
शन्नोग्न इति सूक्तेन हुतेनान्नमवाप्नुयात् ।अप्_258.071अब्।
कन्या वारर्षिसूक्तेन दिग्दोषाद्विप्रमुच्यते
यदत्य कव्येत्युदिते जप्ते ऽवश्यं जगद्भवेत् ।अप्_258.072अब्।
यद्वागिति च जप्तेन वाणी भवति संस्कृता(2)
वाचो विदितमिति त्वेतां जपन् वाचं समश्नुते ।अप्_258.073अब्।
पवित्राणां पवित्रन्तु पावमान्येत्यृचो मताः
वैखानसा ऋचस्त्रिंशत्पवित्राः परमा मताः ।अप्_258.074अब्।
:न्
1 आदित्येति प्रसंम्राजमिति ग.. , घ.. , ञ..
2 संस्थितेति क.. , छ.. , च..
:प् 444
ऋचो द्विषष्टिः प्रोक्ताश् च परस्वेत्यृषिसत्तम
सर्वकल्मषनाशाय पावनाय शिवाय च ।अप्_258.075अब्।
स्वादिष्टयेतिसूक्तानां सप्तषष्टिरुदाहृता
दशोत्तराण्यृचाञ्चैताः पावमान्यः शतानि षट् ।अप्_258.076अब्।
एतज्जपंश् च जुह्वच्च घोरं मृत्युभयं जयेत्
आपोहिष्टेति वारिस्थो जपेत्पापभयार्दने ।अप्_258.077अब्।
प्रदेवन्नेति नियतो जपेच्च मरुधन्वसु
प्राणान्तिके भये प्राप्ते क्षिप्रमायुस्तु विन्दति ।अप्_258.078अब्।
प्रावेयामित्यृचमेकां जपेच्च मनसा निशि
व्युष्टायामुदिते सूर्ये द्यूते जयमवाप्नुयात् ।अप्_258.079अब्।
मा प्रगामेति मूढश् च पन्थानं पथि विन्दति
क्षीणायुरिति मन्येत यङ्कञ्चित् सुहृदं प्रियं ।अप्_258.080अब्।
यत्तेयमिति तु स्नातस्तस्य मूर्धानमालभेत्
सहस्रकृत्वः पञ्चाहं तेनायुर्विन्दते महत् ।अप्_258.081अब्।
इदं मेध्येति जुहुयात् घृतं प्राज्ञः सहस्रशः
पशुकामो गवां गोष्ठे अर्थकामश् चतुष्पथे ।अप्_258.082अब्।
वयः सुपर्ण इत्य् एतां जपन् वै विन्दते श्रियं
हविष्यन्तीयमभ्यस्य सर्वपापैः प्रमुच्यते ।अप्_258.083अब्।
तस्य रोगा विनश्यन्ति कायाग्निर्वर्धते तथा
या ओषधयः स्वस्त्ययनं सर्वव्याधिविनाशनं ।अप्_258.084अब्।
वृहस्पते अतीत्येतद्वृष्टिकामः प्रयोजयेत्
सर्वत्रेति परा शान्तिर्ज्ञेया प्रतिरथस् तथा ।अप्_258.085अब्।
सूत सांकाश्यपन्नित्यं प्रजाकामस्य कीर्तितं
:प् 445
अहं रुद्रेति एतद्वाग्मी भवति मानवः ।अप्_258.086अब्।
न योनौ जायते विद्वान् जपन्रात्रीति रात्रिषु
रात्रिसूक्तं जपन्न्रात्री रात्रिं क्षेमी जयेन्नरः ।अप्_258.087अब्।
कल्पयन्तीति च जपन्नित्यं कृत्त्वारिनाशनं
आयुष्यञ्चैव वर्चस्यं सूक्तं दाक्षायणं महत् ।अप्_258.088अब्।
उत देवा इति जपेदामयघ्नं धृतव्रतः
अयमग्ने जनित्येतज्जपेदग्निभये सति ।अप्_258.089अब्।
अरण्यानीत्यरण्येषु जपेत्तद्भयनाशनं
ब्राह्म्नीमासाद्य सूक्ते द्वे ऋचं ब्राह्मीं शतावरीं ।अप्_258.090अब्।
पृथगद्भिर्घृतैर् वाथ मेधां लक्ष्मीञ्च विन्दति
मास इत्य् असपत्नघ्नं संग्रामं विजिगीषतः ।अप्_258.091अब्।
ब्रह्मणो ऽग्निः संविदानं गर्भमृत्युनिवारणं
अपहीति जपेत्सूक्तं शुचिर्दुस्वप्ननाशनं ।अप्_258.092अब्।
येनेदमिति वैजप्त्वा समाधिं विन्दते परं
मयो भूर्वात इत्य् एतत् गवां स्वस्त्ययनं परं ।अप्_258.093अब्।
शाम्बरीमिन्द्रजालं वा मायामेतेन वारयेत्
महीत्रीणामवरोस्त्विति पथि स्वस्त्ययनं जपेत् ।अप्_258.094अब्।
अग्नये विद्विषन्नेवं जपेच्च रिपुनाशनं
वास्तोष्पतेन मन्त्रेण यजेत गृहदेवताः ।अप्_258.095अब्।
जपस्यैष विधिः प्रोक्तो हुते ज्ञेयो विशेषतः
होमान्ते दक्षिणा देया पापशान्तिर्हुतेन तु ।अप्_258.096अब्।
हुतं शाम्यति चान्नेन अन्नहेमप्रदानतः
विप्राशिषस्त्वमोघाः स्युर्बहिःस्नानन्तु सर्वतः ।अप्_258.097अब्।
:प् 446
सिद्धार्थका यवा धान्यं पयो घृतं तथा
क्षीरवृक्षास्तथेध्मन्तु होमा वै सर्वकामदाः ।अप्_258.098अब्।
समिधः कण्ठकिन्यश् च राजिका रुधिरं विषं
अभिचारे तथा शैलं अशनं शक्तवः पयः ।अप्_258.099अब्।
दधि भैक्ष्यं फलं मूलमृग्विधानमुदाहृतं
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0