अग्नि पुराण · अध्याय 257
:ए इत्य् आग्नेये महापुराणे सीमाविवादादिनिर्णयो नाम
षट्पञ्चाशदधिकद्विशततमो ऽध्यायः ॥
:प् 429
% छप्तेर् {257}
:श् अथ सप्तपञ्चाशदधिकद्विशततमो ऽध्यायः
वाक्पारुष्यादिप्रकरणम्
अग्निर् उवाच
सत्यासत्यान्यथा स्तोत्रैर् न्यूनाङ्गेन्द्रियरोगिणां ।अप्_257.001अब्।
क्षेपं करोति चेद्दण्ड्यः पणानर्धत्रयोदश
अभिगन्तास्मि भगिनीम्मातरं वा तवेति च ।अप्_257.002अब्।
शपन्तं दापयेद्राजा पञ्चविंशतिकं दमं
अर्धो ऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च ।अप्_257.003अब्।
दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः
प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः ।अप्_257.004अब्।
वर्णानामानुलोम्येन तस्मादेवार्धहानितः
वाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः ।अप्_257.005अब्।
शत्यस्ततो ऽर्धिकः पादनासाकर्णिकरादिषु
अशक्तस्तु वदन्नेवन्दण्डनीयः पणान् दश ।अप्_257.006अब्।
तथा शक्तः प्रतिभुवं दद्यात् क्षेमाय तस्य तु(1)
पतनीयकृते क्षेपे दण्डी मध्यमसाहसः ।अप्_257.007अब्।
उपपातकयुक्ते तु दाप्यः प्रथमसाहसं
त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः ।अप्_257.008अब्।
:न्
1 दद्यादित्यत्र दाप्य इति पाठो भवितुं युक्तः
:प् 430
मध्यमो ज्ञातिपूगानां प्रथमो ग्रामदेशयोः
असाक्षिकहते चिह्नैर् युक्तिभिन्नागमेन च ।अप्_257.009अब्।
द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृताद्भयात्
भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः ।अप्_257.010अब्।
अमेध्यपार्ष्णिनिष्ठ्यूतस्पर्शने द्विगुणः स्मृतः
समेष्वेवं परस्त्रीषु द्विगुणस्तूत्तमेषु च ।अप्_257.011अब्।
हीनेष्वर्धं दमो मोहमदादिभिरदण्डनम्
विप्रपीडाकरं च्छेद्यमङ्गमब्राह्मणस्य तु ।अप्_257.012अब्।
उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः
उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ ।अप्_257.013अब्।
परस्परन्तु सर्वेषां शास्त्रे मध्यमसाहसः
पादकेशांशुककरोल्लुञ्चनेषु पणान् दश ।अप्_257.014अब्।
पीडाकर्षां शुकावेष्टपादाध्यासे शतन्दमः
शोणितेन विना दुःस्वङ्कुर्वन् काष्ठादिभिर्नरः ।अप्_257.015अब्।
द्वात्रिंशतं पणान्(1) दाप्यो द्विगुणं दर्शने ऽसृजः
करपाददतो भङ्गे च्छेदने कर्णनासयोः ।अप्_257.016अब्।
मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा
चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने ।अप्_257.017अब्।
कन्धराबाहुसक्थ्याञ्च भङ्गे मध्यमसाहसः
एकं घ्नतां बहूनाञ्च यथोक्ताद्द्विगुणा दमाः ।अप्_257.018अब्।
कलहापहृतं देयं दण्डस्तु द्विगुणः स्मृतः
दुःखमुत्पादयेद्यस्तु स समुत्थानजं व्ययम् ।अप्_257.019अब्।
:न्
1 द्वाविंशतिपणामिति ख..
:प् 431
दाप्यो दण्डञ्च यो यस्मिन् कलहे समुदाहृतः
तरिकः स्थलजं शुल्कं गृह्नन् दण्ड्यः पणान्दश ।अप्_257.020अब्।
ब्राह्मणप्रातिवेश्यानामेतदेवानिमन्त्रणे
अभिघाते तथा भेदे च्छेदे बुद्ध्यावपातने ।अप्_257.021अब्।
पणान्दाप्यः पञ्चदशविंशतिं तत्त्रयन्तथा
दुःस्वोत्पादिगृहे द्रव्यं क्षिपन् प्राणहरं तथा ।अप्_257.022अब्।
षाडशाद्यं पणात् दाप्यो द्वितीयो मध्यमन्दमम्
दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा ।अप्_257.023अब्।
दण्डः क्षुद्रपशूनां स्याद्द्विपणप्रभृतिः क्रमात्
लिङ्गस्य च्छेदने मृत्तौ मध्यमो मूल्यमेव च ।अप्_257.024अब्।
महापशूनामेतेषु स्थानेषु द्विगुणा दमाः
प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे ।अप्_257.025अब्।
उपजीव्यद्रुमाणान्तु विंशतेर्द्विगुणा दमाः(1)
यः साहसङ्कारयति स दाप्यो द्विगुणन्दमम् ।अप्_257.026अब्।
यस्त्वेवमुक्त्वाहं दाता कारयेत् स चतुर्गुणम्
आर्याक्रोशातिक्रमकृद्भ्रातृजायाप्रहारदः ।अप्_257.027अब्।
सन्दिष्टस्याप्रदाता च समुद्रगृहभेदकः
सामन्तकुलिकादीनामपकारस्य कारकः ।अप्_257.028अब्।
पञ्चाशत्पणिको दण्ड एषामिति विनिश् चयः
स्वच्छन्दविधवागामी विक्रुष्टे नाभिधावकः ।अप्_257.029अब्।
अकारणे च विक्रोष्टा चण्डालश्चोत्तमान् स्पृशन्
शूद्रः प्रव्रजितानाञ्च दैवे पैत्र्ये च भोजकः ।अप्_257.030अब्।
:न्
1 प्ररोहिशाखिनामित्यादिर्विंशतेर्द्विगुणा दमा इत्य् अन्तः
पाठः ख.. पुस्तके नास्ति
:प् 432
अयुक्तं शपथं कुर्वन्नयोग्यो योग्यकर्मकृत्
वृषक्षुद्रपशूनाञ्च पूंस्त्वस्य प्रतिघातकृत् ।अप्_257.031अब्।
साधारणस्यापलोपी दासीगर्भविनाशकृत्
पितापुत्रस्वसृभ्रातृदम्पत्याचार्यशिष्यकाः ।अप्_257.032अब्।
एषामपतितान्योन्यत्यागी च शतदण्डभाक्
वसानस्त्रीन् पणान् दण्ड्यो नेजकस्तु परांशुकम् ।अप्_257.033अब्।
विक्रयावक्रयाधानयाचितेषु पणान् दश
तुलाशासनमानानां कूटकृन्नाणकस्य च ।अप्_257.034अब्।
एभिश् च व्यवहर्ता यः स दाप्यो दण्डमुत्तमम्
अकूटं कूटकं ब्रूते कूटं यश्चाप्यकूटकम् ।अप्_257.035अब्।
स नाणकपरीक्षी तु दाप्यः प्रथमसाहसम्
भिषङ्मिथ्याचरन् दाप्यस्तिर्यक्षु प्रथमं दमम् ।अप्_257.036अब्।
मानुषे मध्यमं राजमानुषेषूत्तमन्तथा
अबध्यं यश् च बध्नाति बध्यं यश् च प्रमुञ्चति ।अप्_257.037अब्।
अप्राप्तव्यवहारञ्च स दाप्यो दममुत्तमम्
मानेन तुलया वापि यो ऽंशमष्टमकं हरेत् ।अप्_257.038अब्।
द्वाविंशतिपणान् दाप्यो वृद्धौ हानौ च कल्पितम्
भेषजस्नेहलवणगन्धान्यगुडादिषु ।अप्_257.039अब्।
पण्येषु प्रक्षिपन् हीनं पणान्दाप्यस्तु षोडश
सम्भूय कुर्वतामर्घं सबाधं कारुशिल्पिनां ।अप्_257.040अब्।
अर्थस्य ह्रासः वृद्धिं वा सहस्रो दण्ड उच्यते
राजानि स्थाप्यते यो ऽर्थः प्रत्यहं तेन विक्रयः ।अप्_257.041अब्।
क्रयो वा निस्रवस्तस्माद्बणिजां लाभकृत् स्मृतः
:प् 433
स्वदेशपण्ये तु शतं बणिज् गृह्णीत पञ्चकं ।अप्_257.042अब्।
दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयौ
पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवं ।अप्_257.043अब्।
अर्थो ऽनुग्रहकृत् कार्यः क्रेतुर्विक्रेतुरेव च
गृहीतमूल्यं यः पण्यं क्रेतुर्नैव प्रयच्छति ।अप्_257.044अब्।
सोदयन्तस्य दाप्यो ऽसौ दिग्लाभं वा दिगागते
विक्रीतमपि विक्रेयं पूर्वे क्रेतर्यगृह्णति ।अप्_257.045अब्।
हानिश्चेत् क्रेतृदोषेण क्रेतुरेव हि सा भवेत्
राजदैवोपघातेन पण्ये दोषमुपागते ।अप्_257.046अब्।
हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः
अन्यहस्ते च विक्रीतं दुष्टं वा दुष्टवद्यदि ।अप्_257.047अब्।
विक्रीनीते दमस्तत्र तन्मूल्यादद्विगुणो भवेत्
क्षयं वृद्धिञ्च बणिजा पण्यानामविजानता ।अप्_257.048अब्।
क्रीत्वा नानुशयः कार्यः कुर्वन् षड् भागदण्डभाक्
समवायेन बणिजां लाभार्थं कर्म कुर्वतां ।अप्_257.049अब्।
लभालाभौ यथा द्रव्यं यथा वा संविदा कृतौ
प्रतिषिद्धमनादिष्टं प्रमादाद्यच्च नाशितं ।अप्_257.050अब्।
स तद्दयाद्विप्रवाच्च रक्षिताद्दशमांशभाक्
अर्थप्रेक्षपणाद्विंशं भागं शुल्कं नृपा हरेत् ।अप्_257.051अब्।
व्यासिद्धं राजयोग्यञ्च विक्रीतं राजगामि तत्
मिथ्या वदन् परीमाणं शुल्कस्थानादपक्रमन् ।अप्_257.052अब्।
दाप्यस्त्वष्टगुणं यश् च सव्याजक्रयविक्रयौ
देशन्तरगते प्रेते द्रव्यं दायादबान्धवाः ।अप्_257.053अब्।
:प् 434
ज्ञातयो वा हरेयुस्तदागतास्तैर् विना नृपः
जिह्मं त्यजेयुर्निर्लोभमशक्तो ऽन्येन कारयेत् ।अप्_257.054अब्।
अनेन विधिराख्यात ऋत्विक्कर्षकर्मिणां
ग्राहकैर् गृह्यते चौरो लोप्त्रेणाथ पदेन वा ।अप्_257.055अब्।
पूर्वकर्मापराधी वा तथैवाशुद्धवासकः
अन्ये ऽपि शङ्कया ग्राह्या जातिनामादिनिह्नवैः ।अप्_257.056अब्।
द्यूतस्त्रीपानशक्ताश् च शुष्कभिन्नमुखस्वराः
परद्रव्यगृहाणाञ्च पृच्छका गूढचारिणः ।अप्_257.057अब्।
निराया व्ययवन्तश् च विनष्ट द्रव्यविक्रयाः
गृहीतः शङ्कया चौर्येनात्मानञ्चेद्विशोधयेत् ।अप्_257.058अब्।
दापयित्वा हृतं द्रव्यं चौरदण्डेन दण्डयेत्
चौरं प्रदाप्यापहृतं घातयेद्विविधैर् बुधैः ।अप्_257.059अब्।
सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद्विप्रवासयेत्
घातिते ऽपहृते दोषो ग्रामभर्तुरनिर्गते ।अप्_257.060अब्।
स्वसीम्नि दद्याद्ग्रामस्तु पदं वा यत्र गच्छति
पञ्चग्रामी वहिः क्रोशाद्दशग्राम्य.अथ वा पुनः ।अप्_257.061अब्।
वन्दिग्राहांस् तथा वाजिकुञ्जराणाञ्च हारिणः
प्रसह्य घातिनश् चैव शूलमारोपयेन्नरान् ।अप्_257.062अब्।
उत्क्षेपकग्रन्थिभेदौ करसन्दंशहीनकौ
कार्यौ द्वितीयापराधे करपादैकहीनकौ ।अप्_257.063अब्।
भक्तावकाशाग्न्युदकमन्त्रापकरणव्ययान्
दत्त्वा चौरस्य हन्तुर्वा जानतो दम उत्तमः ।अप्_257.064अब्।
शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः
:प् 435
उत्तमो वाधमो वापि पुरुषस्त्रीप्रमापणे ।अप्_257.065अब्।
शिलां बद्ध्वा क्षिपेदप्सु नरघ्नीं विषदां स्त्रियं
विषाग्निदां निजगुरुनिजापत्यप्रमापणीं ।अप्_257.066अब्।
विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत्
क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः ।अप्_257.067अब्।
राजपत्न्य् अभिगामी च दग्धव्यास्तु कटाग्निना
पुमान् संग्रहणे ग्राह्यः केशाकेशिपरस्त्रियाः ।अप्_257.068अब्।
स्वजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः
प्रातिलोम्ये बधः पुंसां नार्याः कर्णावकर्तनम् ।अप्_257.069अब्।
नीवीस्तनप्रावरणनाभिकेशावमर्दनम्
अदेशकालसम्भाषं सहावस्थानमेव च ।अप्_257.070अब्।
स्त्री निषेधे शतं दद्याद् द्विशतन्तु दमं पुमान्
प्रतिषेधे तयोर्दण्डो यथा संग्रहणे तथा ।अप्_257.071अब्।
पशून् गच्छंश्छतं दाप्यो हीनां स्त्रीं गाश् च मध्यमम्
अवरुद्धासु दासीषु भुजिष्यासु तथैव च ।अप्_257.072अब्।
गम्यास्वपि पुमान्दाप्यः पञ्चाशत् पणिकन्दमम्
प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः ।अप्_257.073अब्।
कुबन्धेनाङ्क्य गमयेदन्त्याप्रव्रजितागमे
न्यूनं वाप्यधिकं वापि लिखेद्यो राजशासनम् ।अप्_257.074अब्।
पारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः
अभक्षैर् दूषयन् विप्रं दण्ड उत्तमसाहसम् ।अप्_257.075अब्।
कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी
अङ्गहीनश् च कर्तव्यो दाप्यश्चोत्तमसाहसं ।अप्_257.076अब्।
:प् 436
शक्तो ह्य् अमोक्षयन् स्वामी दंष्ट्रिणः शृङ्गिणस् तथा
प्रथमं साहसं दद्याद्विक्रुष्टे द्विगुणं तथा ।अप्_257.077अब्।
अचौरञ्चौरे ऽभिवदन् दाप्यः पञ्चशतं दमं
राज्ञो ऽनिष्टप्रवक्तारं तस्यैवाक्रोशकं तथा ।अप्_257.078अब्।
मृताङ्गलग्नविक्रेतुर्गुरोस्ताडयितुस् तथा
तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ।अप्_257.079अब्।
राजयानासनारोढुर्दण्डो मध्यमसाहसः
द्विनेत्रभेदिनो राजद्विष्टादेशकृतस् तथा ।अप्_257.080अब्।
विप्रत्वेन च शूद्रस्य जीवतो ऽष्टशतो दमः
यो मन्येताजितो ऽस्मीति न्यायेनाभिपराजितः ।अप्_257.081अब्।
तमायान्तं पुनर्जित्वा दण्डयेद्द्विगुणं दमं
राज्ञान्यायेन यो दण्डो गृहीतो वरुणायतं ।अप्_257.082अब्।
विवेद्य दद्याद्विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतं
धर्मश्चार्थश् च कीर्तिञ्च लोकपङ्क्तिरुपग्रहः ।अप्_257.083अब्।
प्रजाभ्यो बहुमानञ्च स्वर्गस्थानञ्च शाश्वतम्
पश्यतो व्यवहारांश् च गुणाः स्युः सप्त भूपतेः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0