अग्नि पुराण · अध्याय 256
:ए इत्य् आग्नेये महापुराणे दायविभागो नाम
पञ्चपञ्चाशदधिकद्विशततमो ऽध्यायः ॥
:प् 424
% छप्तेर् {256}
:श् अथ षट्पञ्चाशदधिकद्विशततमो ऽध्यायः
सीमाविवादादिनिर्णयः
अग्निर् उवाच
सीम्नो विवादे क्षेत्रस्य सामन्ताः स्थविरा गणाः ।अप्_256.001अब्।
गोपाः सीमाकृषाणा ये सर्वे च वनगोचराः
नयेयुरेते सीमानं स्थलाङ्गारतुषद्रुमैः ।अप्_256.002अब्।
सेतुवल्मीकनिम्नास्थिचैत्याद्यैर् उपलक्षिताम्
सामन्ता वा समंग्रामाश् चत्वारो ऽष्टौ दशापि वा(1) ।अप्_256.003अब्।
रक्तस्रग्वसनाः सीमान्नयेयुः क्षितिधारिणः
अनृते तु पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ।अप्_256.004अब्।
अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवत्तकः
आरामायतनग्रामनिपानोद्यानवेश्मसु ।अप्_256.005अब्।
एष एव विधिर्ज्ञेयो वर्षाम्वुप्रवहेषु च
मर्यादायाः प्रभेदेषु क्षेत्रस्य हरणे तथा ।अप्_256.006अब्।
मर्यादायाश् च दण्ड्याः स्युरधमोत्तममध्यमाः
न निषेध्यो ऽल्पबाधस्तु सेतुः कल्याणकारकः ।अप्_256.007अब्।
परभूमिं हरन् कूपः स्वल्पक्षेत्रो बहूदकः
स्वामिने यो ऽनिवेद्यैव क्षेत्रे सेतुं प्रकल्पयेत् ।अप्_256.008अब्।
उत्पन्ने स्वामिनो भोगस्तदभावे महीपतेः
फालाहतमपि क्षेत्रं यो न कुर्यान्न कारयेत् ।अप्_256.009अब्।
:न्
1 चत्वारो ऽथ दशापि वेति ख.. , ग.. , ञ.. च
:प् 425
स प्रदाप्यो ऽकृष्टफलं क्षेत्रमन्येन कारयेत्
मासानष्टौ तु महिषी सत्यघातस्य कारिणी ।अप्_256.010अब्।
दण्डनीया तदर्धन्तु गौस्तदर्धमजाविकं
भक्षयित्वोपविष्टानां यथोक्ताद् द्विगुणो दमः ।अप्_256.011अब्।
सममेषां विवीतेपि स्वराष्ट्रं महिषीसमम्
यावत् सत्यं विनष्टन्तु तावत् क्षेत्री फलं लभेत् ।अप्_256.012अब्।
पालस्ताड्यो ऽथ गोस्वामी पूर्वोक्तं दण्डमर्हति
पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते ।अप्_256.013अब्।
अकामतः कामचारे चौरवद्दण्डमर्हति
महोत्क्षोत्सृष्टपशवः सूतिकागन्तुका च गौः ।अप्_256.014अब्।
पालो येषान्तु मोच्या दैवराजपरिप्लुताः
यथार्पितान् पशून् गोपोः सायं प्रत्यर्पयेत्तथा ।अप्_256.015अब्।
प्रमादमृतनष्टांश् च प्रदाप्यः कृतवेतनः
पालदोषविनाशे तु पाले दण्डो विधीयते ।अप्_256.016अब्।
अर्धत्रयोदशपणः स्वामिनो द्रव्यमेव च
ग्रामेच्छया गोप्रचारो भूमिराजवशेन वा ।अप्_256.017अब्।
द्विजस्तृणैधःपुष्पाणि सर्वतः स्ववदाहरेत्
धनुःशतं परीणाहो ग्रामक्षेत्रान्तरं भवेत् ।अप्_256.018अब्।
द्वे शते खर्वटस्य स्यान्नगरस्य चतुःशतम्
स्वं लभेतान्यविक्रीतं क्रेतुर्दोषो ऽप्रकाशिते ।अप्_256.019अब्।
हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः
नष्टापहृतमासाद्य हर्तारं ग्राहयेन्नरम् ।अप्_256.020अब्।
देशकालातिपत्तौ वा गृहीत्वा स्वयमर्पयेत्
:प् 426
विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् ।अप्_256.021अब्।
क्रेता मूल्यं समाप्नोति तस्माद्यस्तत्र विक्रयी
आगमेनोपभोगेन नष्टं भाव्यमतो ऽन्यथा ।अप्_256.022अब्।
पञ्चबन्धो दमस्तस्य राज्ञे तेनाप्यभाविते
हृतं प्रनष्टं यो द्रव्यं परहस्तादवाप्नुयात् ।अप्_256.023अब्।
अनिवेद्य नृपे दण्ड्यः स तु षन्नयतिं पणान्
शौल्किकैः स्थानपालैर् वा नष्टापहृतमाहृतं ।अप्_256.024अब्।
अर्वाक् संवत्सरात् स्वामी लभते परतो नृपः
पणानेकशफे दद्याच्चतुरः पञ्च मानुषे ।अप्_256.025अब्।
महिषोष्ट्रगवां द्वौ द्वौ पादं पादमजाविके
स्वकुटुम्बाविरोधेन देयं दारसुतादृते ।अप्_256.026अब्।
नान्वये सति सर्वस्वं देयं यच्चान्यसंश्रुतम्
प्रतिग्रहः प्रकाशः स्यात् स्थावरस्य विशेषतः ।अप्_256.027अब्।
देयं प्रतिश्रुतञ्चैव दत्वा नापहरेत् पुनः
दशैकपञ्चसप्ताहमासत्र्यहार्धमासिकं ।अप्_256.028अब्।
वीजायोवाह्यरत्नस्त्रीदोह्यपुंसां प्रतीक्षणम्
अग्नौ सुवर्णमक्षीणं द्विपलं रजते शते ।अप्_256.029अब्।
अष्टौ त्रपुणि सीसे च ताम्रे पञ्चदशायसि
शते दशपलावृद्धिरौर्णे कार्पासिके तथा ।अप्_256.030अब्।
मध्ये पञ्चपला ज्ञेया सूक्ष्मे तु त्रिपला मता
कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः ।अप्_256.031अब्।
न क्षयो न च वृद्धिस्तु कौशेये वल्कलेषु च
देशं कालञ्च भोगञ्च ज्ञात्वा नष्टे बलाबलम् ।अप्_256.032अब्।
:प् 427
द्रव्याणां कुशला ब्रूयुर्यत्तद्दाप्यमसंशयम्
बलाद्दासीकृतश् चौरैर् विक्रीतश्चापि मुच्यते ।अप्_256.033अब्।
स्वामिप्राणप्रदो भक्तत्यागात्तन्निष्क्रयादपि
प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकः ।अप्_256.034अब्।
वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः
कृतशिल्पोपि निवसेत् कृतकालं गुरोर्गृहे ।अप्_256.035अब्।
अन्तेवासी गुरुप्राप्तभोजनस्त्रत्फलप्तदः
राजा कृत्वा पुरे स्थानं ब्राह्मणान्न्यस्य तत्र तु ।अप्_256.036अब्।
त्रैविद्यं वृत्तिमद्ब्रूयात् स्वधर्मः पाल्यतामिति
निजधर्माविरोधेन यस्तु सामयिको भवेत् ।अप्_256.037अब्।
सो ऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश् च यः
गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः ।अप्_256.038अब्।
सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत्
कर्तव्यं वचनं सर्वैः समूहहितवादिभिः ।अप्_256.039अब्।
यस्तत्र विपरीतः स्यात्स दाप्यः प्रथमं दमम्
समूहकार्यप्रहितो यल्लभेत्तत्तदर्पयेत् ।अप्_256.040अब्।
एकादशगुणं दाप्यो यद्यसौ नार्पयेत् स्वयम्
वेदज्ञाः शुचयो ऽलुब्धा भवेयुः कार्यचिन्तकाः ।अप्_256.041अब्।
कर्तव्यं वचनं तेषां समूहहितवादिनां
श्रेणिनैगमपाखण्डिगणानामप्ययं विधिः ।अप्_256.042अब्।
भेदञ्चैषां नृपो रक्षेत् पूर्ववृत्तिञ्च पालयेत्
गृहीतवेतनः कर्म त्यजन् द्विगुणमावहेत् ।अप्_256.043अब्।
अगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः
:प् 428
दाप्यस्तु दशमं भागं बाणिज्यपशुसस्यतः ।अप्_256.044अब्।
अनिश्चित्य भृतिं यस्तु कारयेत्स महीक्षिता
देशं कालञ्च यो ऽतीयात् कर्म कुर्याच्च यो ऽन्यथा ।अप्_256.045अब्।
तत्र तु स्वामिनश्छन्दो ऽधिकं देयं कृते ऽधिके
यो यावत् कुरुते कर्म तावत्तस्य तु वेतनम् ।अप्_256.046अब्।
उभयोरप्यसाध्यञ्चेत् साध्ये कुर्याद्यथाश्रुतम्
अराजदैविकन्नष्टं भाण्डं दाप्यस्तु वाहकः ।अप्_256.047अब्।
प्रस्थानविघ्नकृच्चैव प्रदाप्यो द्विगुणां भृतिम्
प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजन् ।अप्_256.048अब्।
भृतिमर्धपथे सर्वां प्रदाप्यस्त्याजकोअपि च
ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं गतं ।अप्_256.049अब्।
गृह्णीयाद्धूर्तकितवादितराद्दशकं शतं
स सम्यक्पालितो दद्याद्राज्ञे भागं यथाकृतं ।अप्_256.050अब्।
जितमुद्ग्राहयेज्जेत्रे दद्यात्सत्यं वचः क्षमी
प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले ।अप्_256.051अब्।
जितं सशभिके स्थाने दापयेदन्यथा न तु
द्रष्टारो व्यवहाराणां साक्षिणश् च त एव हि ।अप्_256.052अब्।
राज्ञा सचिह्ना निर्वास्याः कूटाक्षोपधिदेविनः
द्यूतमेकमुखं कार्यं तस्करज्ञानकारणात् ।अप्_256.053अब्।
एष एव विधिर्ज्ञेयः प्राणिद्यूते समाह्वये
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0