अग्नि पुराण · अध्याय 255
:ए इत्य् आग्नेये महापुराणे दिव्यानि प्रमाणानि नाम
चतुःपञ्चाशदधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {255}
:श् अथ पञ्चपञ्चाशदधिकद्विशततमो ऽध्यायः
दायविभागकथनम्
अग्निर् उवाच
विभागञ्चेत् पिता कुर्यादिच्छया विभजेत् सुतान् ।अप्_255.001अब्।
ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः
यदि दद्यात् समानंशान् कार्याः पत्न्यः समांशिकाः ।अप्_255.002अब्।
न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेन वा
शक्तस्थानीहमानस्य किञ्चिद्दत्वा पृथक् क्रिया ।अप्_255.003अब्।
न्यूनाधिकविभक्तानां धर्म्यश् च पितृना कृतः
विभजेयुः सुताः पित्रोरूर्ध्वमृक्थमृणं समम् ।अप्_255.004अब्।
मातुर्दुहितरः शेषमृणात्ताभ्य ऋते ऽन्नयः
पितृद्रव्याविनाशेन यदन्यत् स्वयमर्जयेत् ।अप्_255.005अब्।
मैत्रमौद्वाहिकञ्चैव दायादानान्न तद्भवेत्
सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः ।अप्_255.006अब्।
:प् 421
अनेकपितृकाणान्तु पितृतो भागकल्पना
भूर्यापिता महोपात्ता निबन्धो द्रव्यमेव वा ।अप्_255.007अब्।
तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः
विभक्तेषु सुतो जातः सवर्णायां विभागभाक् ।अप्_255.008अब्।
दृश्याद्वा तद्विभागः स्यादायव्ययविशोधितात्
क्रमादभ्यागतं द्रव्यं हृतमभ्युद्धरेच्च यः ।अप्_255.009अब्।
दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च
पितृभ्यां यस्य यद्दत्तं तत्तस्यैव धनं भवेत् ।अप्_255.010अब्।
पितुरूर्ध्वं विभजतां माताप्यंशं समं हरेत्
असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः ।अप्_255.011अब्।
भागिन्यश् च निजादंशाद्दत्वांशन्तु तुरीयकं
चतुःस्त्रिद्व्येकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः ।अप्_255.012अब्।
क्षत्रजास्त्रिद्व्येकभागा विड्जास्तु द्व्येकभागिनः
अन्योन्यापहृतं द्रव्यं विभक्ते यत्तु दृश्यते ।अप्_255.013अब्।
तत् पुनस्ते समैर् अंशैर् विभजेरन्निति स्थितिः
अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ।अप्_255.014अब्।
उभयोरप्यसावृक्थी पिण्डदाता च धर्मतः
औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः ।अप्_255.015अब्।
क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा
गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः ।अप्_255.016अब्।
कानीनः कन्यकाजातो मातामहसुतो मतः
क्षतायामक्षतायां वा जातः पौनर्भवः सुतः ।अप्_255.017अब्।
दद्यान्माता पिता वा यं स पुत्री दत्तको भवेत्
:प् 422
क्रीतश् च ताभ्यां विक्रीतः कृत्रिमः स्यात् स्व्यं कृतः ।अप्_255.018अब्।
दत्तात्मा तु स्वयं दत्तो गर्भे वित्तः सहोढजः
उत्सृष्टो गृह्यते यस्तु सोपविद्धो भवेत् सुतः ।अप्_255.019अब्।
पिण्डदो ऽंशहरश् चैषां पूर्वाभावे परः परः
सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः ।अप्_255.020अब्।
जातो ऽपि दास्यां शूद्रस्य कामतो ऽंशहरो भवेत्
मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिकं ।अप्_255.021अब्।
अभ्रातृको हरेत् सर्वं दुहितॄणां सुतादृते
पत्नी दुहितरश् चैव पितरो भ्रातरस् तथा ।अप्_255.022अब्।
तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः
एषामभावे पूवस्य धनभागुत्तरोत्तरः ।अप्_255.023अब्।
स्वर्यात्स्य ह्य् अपुत्रस्य सर्ववर्णेष्वयं विधिः
वानप्रस्थयतिब्रह्मचारिणामृक्थभागिनः ।अप्_255.024अब्।
क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः
संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः ।अप्_255.025अब्।
दद्याच्चापहेरेच्चांशं जातस्य च मृतस्य च
अन्योदर्यस्तु संसृष्टी नान्योदर्यधनं हरेत् ।अप्_255.026अब्।
असंसृष्त्यपि चादद्यात्सोदर्यो नान्यमानृजः
पतितस्तत्सुतः क्लीवः पङ्गुरुन्मत्तको जडः ।अप्_255.027अब्।
अन्धो ऽचिकित्स्यरोगाद्या भर्तव्यास्तु निरंशकाः
औरसाः क्षेत्रजास्त्वेषां निर्दोषा भागहारिणः ।अप्_255.028अब्।
सुताश् चैषां प्रभर्तव्या यावद्वै भर्तृसात्कृताः
अपुत्रा योषितश् चैषां भर्तव्याः साधुवृत्तयः ।अप्_255.029अब्।
:प् 423
निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च
पितृमातृपतिभ्रातृदत्तमध्यग्न्युपागतं ।अप्_255.030अब्।
आधिवेदनिकुञ्चैव स्त्रीधनं परिकीर्तितं
बन्धुदत्तं तथा शुल्कमन्वाधेयकमेव च ।अप्_255.031अब्।
अप्रजायामतीतायां बान्धवास्तदवाप्नुयुः
अप्रजास्त्रीधनं भ्रत्तुर्ब्राह्म्यादिषु चतुर्ष्वपि ।अप्_255.032अब्।
दुहितृणां प्रसूता चेच्छ्रेषे तु पितृगामि तत्
दत्वा कन्यां हरन् दण्ड्यो व्ययं दद्याच्च सोदयम् ।अप्_255.033अब्।
मृतायां दत्तमादद्यात् परिशोध्योभयव्ययम्
दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके ।अप्_255.034अब्।
गृहीतं स्त्रीधनं भर्ता न स्त्रिये दातुमर्हति
अधिवित्तस्त्रियै दद्यादधिवेदनिकं समम् ।अप्_255.035अब्।
न दत्तं स्रीधनं यस्यै दत्ते त्वर्धं प्रकीर्तितम्
विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः ।अप्_255.036अब्।
विभागभावना ज्ञेया गृहक्षेत्रैश् च यौतिकैः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0