भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 254

254.001

:ए इत्य् आग्नेये महापुराणे व्यवहारो नाम
त्रिपञ्चाशदधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {254}
:श् अथ चतुःपञ्चाशदधिकद्विशततमो ऽध्यायः
दिव्यप्रमाणकथनं
अग्निर् उवाच
तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः ।अप्_254.001अब्।
धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः

254.002

पञ्चयज्ञक्रियायुक्ताः साक्षिणः पञ्च वा त्रयः ।अप्_254.002अब्।
यथाजाति यथावर्ण सर्वे सर्वेषु वा स्मृताः

254.003

स्त्रीवृद्धबालकितवमत्तोन्मत्ताभिशस्तकाः ।अप्_254.003अब्।
:प् 416
रङ्गावतारिपाषण्डिकूटकृद्विकलेन्द्रियाः

254.004

पतिताप्तान्नसम्बन्धिसहायरिपुतस्कराः ।अप्_254.004अब्।
अमाक्षिणः सर्वसाक्षी चौर्यपारुष्यसाहसे

254.005

उभयानुमतः साक्षी भवत्येकोपि धर्मवित् ।अप्_254.005अब्।
अब्रुवन् हि नरः साक्ष्यमृणं सदशबन्धकम्

254.006

राज्ञा सर्वं प्रदाप्यः स्यात् षट्चत्वारिंशके ऽह्ननि ।अप्_254.006अब्।
न ददाति हि यः साक्ष्यं जानन्नपि नराधमः

254.007

स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि ।अप्_254.007अब्।
साक्षिणः श्रावयेद्वादिप्रतिवादिसमीपगान्

254.008

ये पातककृतां लोका महापातकिनां तथा ।अप्_254.008अब्।
अग्निदानाञ्च ये लोका ये च स्त्रीबालघातिनां

254.009

तान् सर्वान् समवाप्नोति यः साक्ष्यमनृतं वदेत् ।अप्_254.009अब्।
सुकृतं यत्त्वया किञ्चिज्जन्मान्तरशतैः कृतम्

254.010

तत्सर्वं तस्य जानीहि यं पराजयसे मृषा ।अप्_254.010अब्।
द्वैधे बहूनां वचनं समेषु गुणिनान्तथा

254.011

गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तराः ।अप्_254.011अब्।
यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत्

254.012

अन्यथा वादिनो यस्य ध्रूवस्तस्य पराजयः ।अप्_254.012अब्।
उक्ते ऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तराः

254.013

द्विगुणा वान्यथा ब्रूयुः कूटाः स्युःपूर्वसाक्षिणः ।अप्_254.013अब्।
पृथक् पृथग्दण्डनीयाः कूटकृत्साक्षिणस् तथा

254.014

विवादाद्द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ।अप्_254.014अब्।
यः साक्ष्यं श्रावितो ऽन्येभ्यो निह्नुते तत्तमोवृतः

254.015

:प् 417
स दाप्यो ऽष्टगुणम् दण्डं ब्राह्मणन्तु विवासयेत् ।अप्_254.015अब्।
वर्णिनां हि बधो यत्र तत्र साक्ष्य.अनृतं वदेत्

254.016

यः कश्चिदर्थो ऽभिमतः स्वरुच्या तु परस्परं ।अप्_254.016अब्।
लेख्यं तु साक्षिमत् कार्यं तस्मिन् धनिकपूर्वकम्

254.017

समामासतदर्हाहर् नामजातिस्वगोत्रजैः ।अप्_254.017अब्।
सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम्

254.018

समाप्ते ऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् ।अप्_254.018अब्।
मतं मे ऽमुकपुत्रस्य यदत्रोपरिलेखितं

254.019

साक्षिणश् च स्वहस्तेन पितृनामकपूर्वकम् ।अप्_254.019अब्।
अत्राहममुकः साक्षी लिखेयुरिति ते समाः

254.020

अलिपिज्ञ ऋणी यः स्यालेकयेत् स्वमतन्तु सः ।अप्_254.020अब्।
साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपतः

254.021

उभयाभ्यर्थितेनैतन्मया ह्य् अमुकसूनुना ।अप्_254.021अब्।
लिखितं ह्य् अमुकेनेति लेखको ऽथान्ततो लिखेत्

254.022

विनापि साक्षिभिर् लेख्यं स्वहस्तलिखितञ्च यत् ।अप्_254.022अब्।
तत् प्रमाणं स्मृतं सर्वं बलोपधिकृतादृते

254.023

ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु ।अप्_254.023अब्।
आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते

254.024

देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा ।अप्_254.024अब्।
भिन्ने च्छिन्ने तथा दग्धे लेख्यमन्यत्तु कारयेत्

254.025

सन्दिग्धार्थविशुद्ध्यर्थं स्वहस्तलिखितन्तु यत् ।अप्_254.025अब्।
युक्तिप्राप्तिक्रियाचिह्नसम्बन्धागमहेतुभिः

254.026

लेख्यस्य पृष्ठे ऽभिलिखेत् प्रविष्टमधमर्णिनः ।अप्_254.026अब्।
:प् 418
धनी चोपगतं दद्यात् स्वहस्तपरिचिह्नितम्

254.027

दत्वर्णं पाटयेल्लेख्यं शुद्ध्यै चान्यत्तु कारयेत् ।अप्_254.027अब्।
साक्षिमच्च भवेद्यत्तु तद्दातव्यं ससाक्षिकं

254.028

तुलाग्न्यापो विषं कोषो दिव्यानीह विशुद्धये ।अप्_254.028अब्।
महाभियोगेष्वेतानि शीर्षकस्थे ऽभियोक्तरि

254.029

रुच्या वान्यतरः कुर्यादितरो वर्तयेच्छिरः ।अप्_254.029अब्।
विनापि शीर्षकात् कुर्यान्नृपद्रोहे ऽथ पातके

254.030

नासहस्राद्धरेत् फालं न तुलान्न विषन्तथा ।अप्_254.030अब्।
नृपार्थेष्वभियोगेषु वहेयुः शुचयः सदा

254.031

सहस्रार्थे तुलादीनि कोषमल्पे ऽपि दापयेत् ।अप्_254.031अब्।
शतार्धं दापयेच्छुद्धमशुद्धो दण्डभाग् भवेत्

254.032

सचेलस्नातमाहूय सूर्योदय उपोषितम् ।अप्_254.032अब्।
कारयेत्दर्वदिव्यानि नृपब्राह्मणसन्निधौ

254.033

तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणां ।अप्_254.033अब्।
अग्निर्ज्वलं वा शूद्रस्य यवाः सप्त विषस्य वा

254.034

तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः ।अप्_254.034अब्।
प्रतिमानसमीभूतो रेखां कृत्वावतारितः

254.035

आदित्यचन्द्रावनिलो ऽनलश् च द्यौर्भूमिरापोहृदयं यमश् च ।अप्_254.035अब्।
अहश् च रात्रिश् च उभे च सन्ध्ये धर्मश् च जानाति नरस्य वृत्तम्

254.036

त्वं तुले सत्यधामासि पुरा देवैर् विनिर्मिता ।अप्_254.036अब्।
सत्यं वदस्व कल्याणि संशयान्मां विमोचय

254.037

:प् 419
यद्यस्मि पापकृन्मातस्ततो मां त्वमधो नय ।अप्_254.037अब्।
शुद्धश्चेद्गमयोर्ध्वम्मां तुलामित्यभिमन्त्रयेत्

254.038

करौ विमृदितव्रीहेर्लक्षयित्वा ततो न्यसेत् ।अप्_254.038अब्।
सप्ताश्वप्त्यस्य पत्राणि तावत् सूत्रेण वेष्टयेत्

254.039

त्वमेव सर्वभूतानामन्तश् चरसि पावक ।अप्_254.039अब्।
साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यङ्गरे मम

254.040

तस्येत्युक्तवतो लौहं पञ्चाशत्पलिकं समम् ।अप्_254.040अब्।
अग्निर्वर्णं न्यसेत् पिण्डं हस्तयोरुभयोरपि

254.041

स तमादाय सप्तैव मण्डलानि शतैर् व्रजेत् ।अप्_254.041अब्।
षोडशाङ्गुलकं ज्ञेयं मण्डलं तावदन्तरम्

254.042

मुक्त्वाग्निं मृदितव्रीहिरदग्धः शुद्धिमाप्नुयात् ।अप्_254.042अब्।
अन्तरा पतिते पिण्डे सन्देहे वा पुनर्हरेत्

254.043

पवित्राणां पवित्र त्वं शोध्यं शोधय पावन ।अप्_254.043अब्।
सत्येन माभिरक्षस्व वरुणेत्यभिशस्तकम्

254.044

नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं विशेत् ।अप्_254.044अब्।
समकालमिषुं मुक्तमानीयान्यो जवो नरः

254.045

यदि तस्मिन्निमग्नाङ्गं पश्येच्च शुद्धिमाप्नुयात् ।अप्_254.045अब्।
त्वं विष ब्रह्मणः पुत्र सत्यधर्मे व्यवस्थित

254.046

त्रायस्वास्मादभीशापात् सत्येन भव मे ऽमृतम् ।अप्_254.046अब्।
एवमुक्त्वा विषं सार्ङ्गं भक्षयेद्धिमशैलजं

254.047

यस्य वेगैर् विना जीर्णं शुद्धिं तस्य विनिर्दिशेत् ।अप्_254.047अब्।
देवानुग्रान् समभ्यर्च्य तत्स्नानोदकमाहरेत्

254.048

संश्राव्य पापयेत्तस्माज्जलात्तु प्रसृतित्रयम् ।अप्_254.048अब्।
:प् 420
आचतुर्दशमादह्नो यस्य नो राजदैविकम्

254.049

व्यसनं जायते घोरं स शुद्धः स्यादसंशयम् ।अप्_254.049अब्।
सत्यवाहनशस्त्राणि गोवीजकनकानि च

254.050

देवतागुरुपादाश् च इष्टापूर्तकृतानि च ।अप्_254.050अब्।
इत्येते सुकराः प्रोक्ताः शपथाः स्वल्पसंशये

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc