भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 253

253.001

:ए इत्य् आग्नेये महापुराणे व्यवहारो नाम
द्विपञ्चाशदधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {253}
:श् अथ त्रिपञ्चाशदधिकद्विशततमो ऽध्यायः
व्यवहारकथनं
अग्निर् उवाच
गृहीतार्थः क्रमाद्दाप्यो धनिनामधमर्णिकः ।अप्_253.001अब्।
दत्वा तु ब्राह्मणायादौ नृपतेस्तदनन्तरम्

253.002

:प् 413
राज्ञाधमर्णिको दाप्यः साधिताद्दशकं स्मृतम् ।अप्_253.002अब्।
पञ्चकन्तु शतं दाप्यः प्राप्तार्थो ह्य् उत्तमर्णकः

253.003

हीनजातिं परिक्षीणमृणार्थं कर्म कारयेत् ।अप्_253.003अब्।
ब्राह्मणस्तु परिक्षीणः शनैर् दाप्यो यथोदयम्

253.004

दीयमानं न गृह्णाति प्रयुक्तं यः स्वकन्धनम् ।अप्_253.004अब्।
मध्यस्थस्थापितं तत्स्याद्वर्धते न ततः परं

253.005

ऋक्थग्राह ऋणं दाप्यो योषिद्ग्राहस्तथैव च ।अप्_253.005अब्।
पुत्रो ऽनन्याश्रितद्रव्यः पुत्रहीनस्य ऋक्थिनः

253.006

अविभुक्तैः कुटुम्बार्थं यदृणन्तु कृतम्भवेत् ।अप्_253.006अब्।
दद्युस्तदृक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि

253.007

न योषित् पतिपुत्राभ्यां न पुत्रेण कृतं पिता ।अप्_253.007अब्।
दद्यादृते कुटुम्बार्थान्न पतिः स्त्रीकृतं तथा

253.008

गोपशौण्डिकशैनूषरजकव्याधयोषितां ।अप्_253.008अब्।
ऋणं दद्यात्पतिस्त्वासां यस्माद्वृत्तिस्तदाश्रया

253.009

प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत् कृतं ।अप्_253.009अब्।
स्वयं कृतं वा यदृणं नान्यस्त्री दातुमर्हति

253.010

पितरि प्रोषिते प्रेते व्यसाभिप्लुते ऽथ वा(1) ।अप्_253.010अब्।
पुत्रपौत्रैर् ऋणन्देयं निह्नवे साक्षिभावितम्

253.011

सुराकामद्यूतकृतन्दण्डशुल्कावशिष्टकम् ।अप्_253.011अब्।
वृथा दानं तथैवेह पुत्रो दद्यान्न पैतृकम्

253.012

भ्रातॄणामथ दम्पत्योः पितुः पुत्रस्य चैव हि ।अप्_253.012अब्।
:न्
1 व्यसनाभिप्लुतेपि वेति ख.. , घ.. , ञ.. च
:प् 414
प्रतिभाव्यमृणं ग्राह्यमविभक्तेन च स्मृतम्(1)

253.013

दर्शने प्रत्यये दाने प्रतिभाव्यं विधीयते ।अप्_253.013अब्।
आधौ तु वितथे दाप्या वितथस्य सुता अपि

253.014

दर्शनप्रतिभूर्यत्र मृतः प्रात्ययिको ऽपि वा ।अप्_253.014अब्।
न तत्पुत्रा धनं दद्युर्दद्युर्दानाय ये स्थिताः

253.015

बहवः स्युर्यदि स्वांशैर् दद्युः प्रतिभुवो धनम् ।अप्_253.015अब्।
एकच्छायाश्रितेष्वेषु धनिकस्य यथा रुचि

253.016

प्रतिभूर्दापितो यत्र प्रकाशं धनिने धनम् ।अप्_253.016अब्।
द्विगुणं प्रतिदातव्यमृणिकैस्तस्य तद्भवेत्

253.017

स्वसन्ततिस्त्रीपशव्यं धान्यं द्विगुणमेव च ।अप्_253.017अब्।
वस्त्रं चतुर्गुणं प्रोक्तं रसश्चाष्टगुणस् तथा

253.018

आधिः प्रणश्येत् द्विगुणे धने यदि न मोक्ष्यते ।अप्_253.018अब्।
काले कालकृतं नश्येत् फलभोग्यो न नश्यति

253.019

गोप्याधिभोग्यो नावृद्धिः सोपकारे ऽथ भाविते ।अप्_253.019अब्।
नष्टो देयो विनष्टश् च दैवराजकृतादृते

253.020

आधेः स्वीकरणात्सिद्धौरक्षमाणोप्यसारताम् ।अप्_253.020अब्।
यातश्चेदन्य आधेयो धनभाग् वा धनी भवेत्

253.021

चरित्रं बन्धककृतं सवृद्धं दापयेद्वनं ।अप्_253.021अब्।
सत्यङ्कारकृतं द्रव्यं द्विगुणं प्रतिदापयेत्

253.022

उपस्थितस्य मोक्तव्य आधिर्दण्डो ऽन्यथा भवेत् ।अप्_253.022अब्।
प्रयोजके सति धनं कुलेन्यस्याधिमाप्नुयात्

253.023

तत्कालकृतमूल्यो वा तत्र तिष्ठेदवृद्धिकः ।अप्_253.023अब्।
:न्
1 प्रतिभाव्यमृणं साक्ष्यमविभक्तेन तत् स्मृतमिति ख.. , ग.. ,
घ.. , छ.. , ज.. , ट.. च
:प् 415
विना धारणकाद्वापि विक्रीणीते ससाक्षिकम्

253.024

यदा तु द्विगुणीभूतमृणमाधौ तदा खलु ।अप्_253.024अब्।
मोच्यश्चाधिस्तदुत्पाद्य प्रविष्टे द्विगुणे धने

253.025

व्यसनस्थमनाख्याय हस्ते ऽन्यस्य यदर्पयेत् ।अप्_253.025अब्।
द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत्

253.026

न दाप्यो ऽपहृतं तत्तु राजदैवकतस्करैः ।अप्_253.026अब्।
प्रेषश्चेन्मार्गिते दत्ते दाप्यो दण्डश् च तत्समम्

253.027

आजीवन् स्वेच्छया दण्ड्यो दाप्यस्तच्चापि सोदयं ।अप्_253.027अब्।
याचितावाहितन्यासे निक्षेपेष्वप्ययं विधिः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc