भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 252

252.001

:ए इत्य् आग्नेये महापुराणे धनुर्वेदो
नामैकपञ्चाशदधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {252}
:श् अथ द्विपञ्चाशदधिकद्विशततमो ऽध्यायः
व्यवहारकथनं
अग्निर् उवाच
व्यवहारं प्रवक्ष्यामि नयानयविवेकदं ।अप्_252.001अब्।
चतुष्पाच्च चतुःस्थानश् चतुःसाधन उच्यते

252.002

चतुर्हितश् चतुर्व्यापी चतुष्कारी च कीर्त्यते ।अप्_252.002अब्।
अष्टाङ्गो ऽष्टादशपदः शतशाखस्तथैव च

252.003

त्रियोनिर्द्व्यभियोगश् च द्विद्वारो द्विगतिस् तथा ।अप्_252.003अब्।
धर्मश् च व्यवहारश् च चरित्रं राजशासनं

252.004

चतुष्पाद्व्यवहाराणामुत्तरः पूर्वसाधकः ।अप्_252.004अब्।
तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु

252.005

:न्
1 वर्मिणन्त्विति घ.. , ञ.. च
:प् 407
चरित्रं सङ्ग्रहे पुंसां राजाज्ञायान्तु शासनं ।अप्_252.005अब्।
सामाभ्युपायसाध्यत्वाच्चतुःसाधन उच्यते

252.006

चतुर्णामाश्रमाणाञ्च रक्षणात्स चतुर्हितः ।अप्_252.006अब्।
कर्तारं साक्षिणश् चैव सत्यान्राजानमेव च

252.007

व्याप्नोति पादगो यस्माच्चतुर्व्यापी ततः स्मृतः ।अप्_252.007अब्।
धर्मस्यार्थस्य यशसो लोकपङ्क्तेस्तथैव च

252.008

चतुर्णाङ्करणादेष चतुष्कारी प्रकीर्तितः ।अप्_252.008अब्।
राजा सपुरुषः सभ्याः शास्त्रं गणकलेखकौ

252.009

हिरण्यमग्निरुदकमष्टाङ्गः समुदाहृतः ।अप्_252.009अब्।
कामात् क्रोधाच्च लोभाच्च त्रिभ्यो यस्मात् प्रवर्तते

252.010

त्रियोनिः कीर्त्यते तेन त्रयमेतद्विवादकृत् ।अप्_252.010अब्।
द्व्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः

252.011

शङ्काषड्भिस्तु संसर्गात्तत्त्वषोढादिदर्शणात् ।अप्_252.011अब्।
पक्षद्वयाभिसम्बन्धाद्द्विद्वारः समुदाहृतः

252.012

पूर्ववादस्तयोः पक्षः प्रतिपक्षस्त्वनन्तरः ।अप्_252.012अब्।
भूतच्छलानुसारित्वाद्द्विगतिः समुदाहृता

252.013

ऋणन्देयमदेयञ्च येन यत्र यथा च यत् ।अप्_252.013अब्।
दानग्रहणधर्मश् च ऋणादानमिति स्मृतम्

252.014

स्वद्रव्यं यत्र विश्रम्भान्निक्षिपत्यविशङ्कितः ।अप्_252.014अब्।
निक्षेपन्नाम तत् प्रोक्तं व्यवहारपदम्बुधैः

252.015

वणिक्प्रभृतयो यत्र कर्म सम्भूय कुर्वते ।अप्_252.015अब्।
तत्सम्भूयसमुप्त्यानं व्यवहारपदं विदुः

252.016

दत्त्वा द्रव्यञ्च सम्यग्यः पुनरादातुमिच्छति ।अप्_252.016अब्।
:प् 408
दत्त्वाप्रदानिकं नाम तद्विवादपदं स्मृतं

252.017

अभ्युपेत्य च शुश्रूषां यस्तां न प्रतिपद्यते ।अप्_252.017अब्।
अशुश्रूषाभ्युपेत्यैतद्विवादपदमुच्यते

252.018

भृत्यानां वेतनस्योक्तादानादानविधिक्रिया ।अप्_252.018अब्।
वेतनस्यानपाकर्म तद्विवादपदं स्मृतम्

252.019

निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वा प्रहृत्य वा ।अप्_252.019अब्।
किक्रीयते परोक्षं यत् स ज्ञेयो ऽस्वामिविक्रयः

252.020

विक्रीय पण्यं मूल्येन क्रेत्रे यच्च न दीयते ।अप्_252.020अब्।
विक्रीयासम्प्रदानन्तद्विवादपदमुच्यते

252.021

क्रीत्वा मूल्येन यत्पण्यं क्रेता न बहु मन्यते ।अप्_252.021अब्।
क्रीत्वा मूल्येन यत् पण्यं दुष्क्रीतं मन्यते क्रयी

252.022

पाषण्डनैगमादीनां स्थितिः समय उच्यते ।अप्_252.022अब्।
समयस्यानपाकर्म तद्विवादपदं स्मृतं

252.023

सेतुकेदारमर्यादाविकृष्टाकृष्टनिश् चयाः ।अप्_252.023अब्।
क्षेत्राधिकारे यत्र स्युर्विवादः क्षेत्रजस्तु सः

252.024

वैवाहिको विधिः स्त्रीनां यत्र पुंसाञ्च कीर्त्यते ।अप्_252.024अब्।
स्त्रीपुंसयोगसंज्ञन्तु तद्विवादपदं स्मृतम्

252.025

विभागोर्थस्य पैत्रस्य पुत्रैर् यस्तु प्रकल्प्यते ।अप्_252.025अब्।
दायमागमिति प्रोक्तं तद्विवादपदं बुधैः

252.026

सहसा क्रियते कर्म यत् किञ्चित् बलदर्पितैः ।अप्_252.026अब्।
तत् साहसमिति प्रोक्तं विवादपदमुच्यते

252.027

देशजातिकुलादीनामाक्रोशत्यङ्गसंयुतम् ।अप्_252.027अब्।
यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते

252.028

:प् 409
परगात्रेष्वभिद्रेही हस्तपादायुधादिभिः ।अप्_252.028अब्।
अग्न्यादिभिश् चोपघातैर्(?) दण्डपारुष्यमुच्यते

252.029

अक्षवज्जशलाकाद्यैर् दैवतं द्यूतमुच्यते ।अप्_252.029अब्।
पञ्चक्रिडावयोभिश् च प्राणिद्युतसमाह्वयः

252.030

प्रकीर्णकः पुनर्ज्ञेयो व्यवहारो निराश्रयः ।अप्_252.030अब्।
राज्ञामाज्ञाप्रतोघातस्तत्कर्माकरणन्तथा

252.031

व्यवहारो ऽष्टादशपदस्तेषां भेदो ऽथ वै शतम् ।अप्_252.031अब्।
क्रियाभेदान्मनुष्यानां शतशाखो निगद्यते

252.032

व्यवहारान्नृपः पश्येज् ज्ञानिविप्रैर् अकोपनः ।अप्_252.032अब्।
शत्रुमित्रसमाः सभ्या अलोभाः श्रुतिवेदिनः

252.033

अपश्यता(1) कार्यवशात् सभ्यैर् विप्रं नियोजयेत् ।अप्_252.033अब्।
रागाल्लोभाद्भयाद्वापि स्मृत्यपेतादिकारिणः

252.034

सभ्याः पृथक् पृथग् दण्ड्या विवादाद्व्दिगुणो दमः ।अप्_252.034अब्।
स्मृत्याचारएष्व्यपेतेन मार्गेण धर्षितः परैः

252.035

आवेदयति यद्राज्ञे व्यवहारपदं हि तत् ।अप्_252.035अब्।
प्रत्यर्थिनो ऽग्रतो लेख्यं यथा वेदितमर्थिना

252.036

समामासतदर्धाहर्नामजात्यादिचिह्नितम् ।अप्_252.036अब्।
श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसन्निधौ

252.037

तप्तो ऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् ।अप्_252.037अब्।
तत्सिद्धौ सिद्धमाप्नोति विपरीतमतो ऽन्यथा

252.038

चतुष्पाद्व्यवहारोयं विवादेषूपदर्शितः ।अप्_252.038अब्।
:न्
1 अपश्यता इत्य् अयं पाठो न साधुः
:प् 410
अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत्

252.039

अभियुक्तञ्च नान्येन त्यक्तं विप्रकृतिं नयेत् ।अप्_252.039अब्।
कुर्यात् प्रत्यभियोगन्तु कलहे साहसेषु च

252.040

उभयोः प्रतिभूर्ग्राह्यः समर्थः काम्यनिर्णये ।अप्_252.040अब्।
निह्नवे भावितो दद्याद्धनं राज्ञे तु तत्समम्

252.041

मिथ्याभियोगाद् द्विगुणमभियोगाद्धनं हरेत् ।अप्_252.041अब्।
साहसस्तेयपारुष्येष्वभिशापात्यये स्त्रियाः

252.042

विचारयेत्सद्यः एव कालो ऽन्यत्रेच्छया स्मृतः ।अप्_252.042अब्।
देशाद्देशान्तरं याति सृक्कणी परिलेढि च

252.043

ललाटं स्विद्यते चास्य मुखवैवर्ण्यमेव च ।अप्_252.043अब्।
स्वभावाद्विकृतं गच्छेन्मनोवाक्कायकर्मभिः

252.044

अभियोगे ऽथ वा साक्ष्ये वाग्दुष्टः परिकीर्तितः ।अप्_252.044अब्।
सन्दिग्धार्थं स्वतन्त्रो यः साधयेद्यश् च निष्पतेत्

252.045

न चाहूतो वदेत् किञ्चिद्धनी दण्ड्यश् च स स्मृतः ।अप्_252.045अब्।
साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः

252.046

पूर्वपक्षे ऽधरीभूते भवन्त्युत्तरवादिनः ।अप्_252.046अब्।
सगणश्चेद्विवादः स्यात्तत्र हीनन्तु दापयेत्

252.047

दत्तं पणं वसञ्चैव धनिनो धनमेव च ।अप्_252.047अब्।
छलन्निरस्य दूतेन व्यवहारान्नयेन्नृपः

252.048

भूतमप्यर्थमप्यस्तं हीयते व्यवहारतः ।अप्_252.048अब्।
निह्नुते निखिलानेकमेकदेशविभावितम्

252.049

दाप्यः सर्वान्नृपेणार्थान्न ग्राह्यस्त्वनिवेदितः ।अप्_252.049अब्।
स्मृत्योर्विरोधे न्यायस्तु वल्लवान् व्यवहारतः

252.050

:प् 411
अर्थशास्त्राद्धि बलवद्धर्मशास्त्रमिति स्थितिः(1) ।अप्_252.050अब्।
प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति किर्तितम्

252.051

एषामन्यतमाभावे दिव्यान्यतममुच्यते ।अप्_252.051अब्।
सर्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया

252.052

आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ।अप्_252.052अब्।
पश्यतो ब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी

252.053

परेण भुज्यमाना या धनस्य दशवार्षिकी ।अप्_252.053अब्।
आधिसौमोपनिःक्षेपजडबालधनैर् विना

252.054

तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैर् अपि ।अप्_252.054अब्।
आध्यादीनां विहर्तारं धनिने दापयेद्धनं

252.055

दण्ड्यं च तत्समं राज्ञे शक्त्यपेक्ष्यमथापि वा ।अप्_252.055अब्।
आगमोप्यधिको भुक्तिं विना पूर्वक्रमागतां

252.056

आगमोपि बलन्नैव भुक्तिः स्तोकापि यत्र न ।अप्_252.056अब्।
आगमेन विशुद्धेन भोगो याति प्रमाणताम्

252.057

अविशुद्धागमो भोगः प्रामाण्यं नाधिगच्छति ।अप्_252.057अब्।
आगमस्तु कृतो येन सो ऽभियुक्तस्तमुद्धरेत्

252.058

न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी ।अप्_252.058अब्।
योभियुक्तः परेतः स्यात् तस्य ऋक्थात्तमुद्धरेत्

252.059

न तत्र कारणं भुक्तिरागमेन विनाकृता ।अप्_252.059अब्।
बलोपाधिविनिर्वृत्तान् व्यवहारान्निवर्तयेत्

252.060

स्त्रीनक्तमन्तरागारवहिःशत्रुकृतस् तथा ।अप्_252.060अब्।
मत्तोन्मत्तार्तव्यसनिबालभीतप्रयोजितः

252.061

:न्
1 स्मृतिरिति घ.. , ञ.. च
:प् 412
असम्बद्धकृतश् चैव व्यवहारो न सिद्ध्यति ।अप्_252.061अब्।
प्रनष्टाधिशतं देयं नृपेण धनिने धनं

252.062

विभावयेन्नचेल्लिङ्गैस्तत्समं दातुमर्हति ।अप्_252.062अब्।
देयञ्चौरहृतं द्रव्यं राज्ञा जनपदाय तु

252.063

अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके ।अप्_252.063अब्।
वर्णक्रमाच्छतं द्वित्रिचतुष्पञ्चकमन्यथा

252.064

सप्ततिस्तु पशुस्त्रीणां रसस्याष्टगुणा परा ।अप्_252.064अब्।
वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा तथा

252.065

ग्रामान्तरात्तु दशकं सामुद्रादपि विंशतिं ।अप्_252.065अब्।
दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु

252.066

प्रपन्न साधयन्नर्थं न वाच्या नृपतिर्भवेत् ।अप्_252.066अब्।
साध्यमानो नृपं गच्छेद्दण्ड्यो दाप्यश् च तद्धनं

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc