भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 251

251.001

:ए इत्य् आग्नेये महापुराणे धनुर्वेदो नाम पञ्चाशदधिकद्विशततमो
ऽध्यायः ॥
:न्
1 वर्मवेष्टिते इति घ..
2 ज्ञात्वेति ट..
:प् 403
% छप्तेर् {251}
:श् अथैकपञ्चाशदधिकद्विशततमो ऽध्यायः
धनुर्वेदकथनं
अग्निर् उवाच
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं विप्लुतं सृतं ।अप्_251.001अब्।
सम्पातं समुदीशञ्च श्येनपातमथाकुलं

251.002

उद्धूतमवधूतञ्च सव्यं दक्षिणमेव च ।अप्_251.002अब्।
अनालक्षितविस्फोटौ करालेन्द्रमहासखौ(1)

251.003

विकरालनिपातौ च विभीषणभयानकौ ।अप्_251.003अब्।
समग्रार्धतृतीयांशपादपादर्धवारिजाः

251.004

प्रत्यालीढमथालीढं वराहं लुलितन्तथा ।अप्_251.004अब्।
इति द्वात्रिंशतो ज्ञेयाः खड्गचर्मविधौ रणे

251.005

परावृत्तमपावृत्तं गृहीतं लघुसञ्ज्ञितं ।अप्_251.005अब्।
ऊर्ध्वात् क्षिप्तमधः क्षिप्तं सन्धारितविधारितं

251.006

श्येनपातं गजपातं ग्राहग्राह्यन्तथैव च ।अप्_251.006अब्।
एवमेकादशविधा ज्ञेयाः पाशविधा नराः

251.007

ऋज्वायतं विशालञ्च तिर्यग्भ्रामितमेव च ।अप्_251.007अब्।
पञ्चकर्म विनिर्दिष्टं व्यस्ते पाशे महात्मभिः

251.008

छेदनं भेदनं पातो भ्रमणं शयनं(2) तथा ।अप्_251.008अब्।
विकर्तनं कर्तनञ्च चक्रकर्मेदमेव च

251.009

आस्फोटः क्षेडनं भेदस्त्रासान्दोलितकौ तथा ।अप्_251.009अब्।
:न्
1 करालेन्द्रमहारवाविति क.. , ज.. , ट.. च
2 शमनमिति घ.. , ज.. , ट.. च
:प् 404
शूलकर्माणि जानीहि षष्ठमाघातसञ्ज्ञितं

251.010

दृष्टिघातं भुजाघातं पार्श्वघातं द्विजोत्तम ।अप्_251.010अब्।
ऋजुपक्षेषुणा पातं तोमरस्य प्रकीर्तितं

251.011

आहतं विप्र गोमूत्रप्रभूतङ्कमलासनं ।अप्_251.011अब्।
ततोर्ध्वगात्रं नमितं वामदक्षिणमेव च

251.012

आवृत्तञ्च परावृत्तं पादोद्धूतमप्लुतं ।अप्_251.012अब्।
हंसमर्दं विमर्दञ्च(1) गदाकर्म प्रकीर्तितं

251.013

करालमवघातञ्च दशोपप्लुतमेव च ।अप्_251.013अब्।
क्षिप्तहस्तं स्थितं शून्यं पराशोस्तु विनिर्दिशेत्

251.014

ताडनं छेदनं विप्र तथा चूर्णनमेव च ।अप्_251.014अब्।
मुद्गरस्य तु कर्माणि तथा प्लवनघातनं

251.015

संश्रान्तमथ विश्रान्तं गोविसर्गं सुदुर्धरं ।अप्_251.015अब्।
भिन्दिपालस्य कर्माणि लगुडस्य च तान्यपि

251.016

अन्त्यं मध्यं परावृत्तं निदेशान्तं द्विजोत्तम ।अप्_251.016अब्।
वज्रस्येतानि कर्माणि पट्टिशस्य च तान्यपि

251.017

हरणं छेदनं घातो बलोद्धारणमायतं ।अप्_251.017अब्।
कृपाणकर्म निर्दिष्टं पातनं स्फोटनं तथा

251.018

त्रासनं रक्षणं घातो बलोद्धरणमायतम् ।अप्_251.018अब्।
क्षेपणीकर्म निर्दिष्टं यन्त्रकर्मैतदेव तु

251.019

सन्त्यागमवदंशश् च वराहोद्धूतकं तथा ।अप्_251.019अब्।
हस्तावहस्तमालीनमेकहस्तस्तावहस्तके

251.020

द्विहस्तवाहुपाशे च कटिरेचितकोद्गते ।अप्_251.020अब्।
:न्
1 हंसमार्गं विमार्गञ्चेति घ.. , ञ.. च । समार्गञ्च विमार्गञ्चेति
ट..
:प् 405
उरोललाटघाते च भुजाविधमनन्तथा

251.021

करोद्धूतं विमानञ्च पादाहति विपादिकं ।अप्_251.021अब्।
गात्रसंश्लेषणं शान्तं तथा गात्रविपर्ययः

251.022

ऊर्ध्वप्रहारं घातञ्च गोमूत्रं सव्यदक्षिणे ।अप्_251.022अब्।
पारन्तारकं दण्डं(1) करवीरन्धमाकुलं

251.023

तिर्यग्बन्धमपामार्गं(2) भीमवेगं सुदर्शनं ।अप्_251.023अब्।
सिंहाक्रान्तं गजाक्रान्तं गर्दभाक्रान्तमेव च

251.024

गदाकर्माणि जानीयान्नियुद्धस्याथ कर्म च ।अप्_251.024अब्।
आकर्षणं विकर्षणञ्च बाहूनां मूलमेव च

251.025

ग्रीवाविपरिवर्तञ्च पृष्ठभङ्गं सुदारुणं ।अप्_251.025अब्।
पर्यासनविपर्यासौ पशुमारमजाविकं

251.026

पादप्रहारमास्फोटं कटिरेचितकन्तथा ।अप्_251.026अब्।
गात्राश्लेषं स्कन्धगतं महीव्याजनमेव च

251.027

उरोललाटघातञ्च विस्पष्टकरणन्तथा ।अप्_251.027अब्।
उद्धूतमवधूतञ्च तिर्यङ्मार्गगतं तथा

251.028

गजस्कन्धमवक्षेपमपराङ्मुखमेव च ।अप्_251.028अब्।
देवमार्गमधोमार्गममार्गगमनाकुलं

251.029

यष्टिघातमवक्षेपो वसुधादारणन्तथा ।अप्_251.029अब्।
जानुबन्धं भुजाबन्धं सुदारुणं

251.030

विपृष्ठं सोदकं शुभ्रं भुजावेष्टितमेव च ।अप्_251.030अब्।
सन्नद्धैः संयुगे भाव्यं सशस्त्रैस्तैर् गजादिभिः

251.031

वराङ्कुशधरौ चोभौ एको ग्रीवागतो ऽपरः ।अप्_251.031अब्।
:न्
1 पारकं तारकं गण्डमिति ख.. , घ.. च
2 तिर्यगूर्ध्वमपामार्गमिति घ.. , ञ.. च
:प् 406
स्कन्धौ द्वौ च धानुष्कौ द्वौ च खड्गधरौ गजे

251.032

रथे रणे गजे चैव तुरगाणां त्रयं भवेत् ।अप्_251.032अब्।
धानुष्काणान्त्रयं प्रोक्तं रक्षार्थे तुरगस्य च

251.033

धन्विनो रक्षणार्थाय चर्मिणन्तु(1) नियोजयेत् ।अप्_251.033अब्।
स्वमन्त्रैः शस्त्रमभ्यर्च्य शास्त्रन्त्रैलोक्यमोहनं

251.034

यो युद्धे याति च जयेदरीन् सम्पालयेद्भुवं ॥34

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc