भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 250

250.001

:ए इत्य् आग्नेये महापुराणे धनुर्वेदे
नामोनपञ्चाशदधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {250}
:श् अथ पञ्चाशदधिकद्विशततमो ऽध्यायः
धनुर्वेदकथनम्
अग्निर् उवाच
जितहस्तो जितमतिर्जितदृग्लक्ष्यसाधकः ।अप्_250.001अब्।
नियतां सिद्धिमासाद्य ततो वाहनमारुहेत्

250.002

दशहस्तो भवेत् पाशो वृत्तः करमुखस् तथा ।अप्_250.002अब्।
गुणकार्पासमुञ्जानां भङ्गस्नाय्वर्कवर्मिणाम्

250.003

अन्येषां सुदृढानाञ्च सुकृतं परिवेष्टितम् ।अप्_250.003अब्।
तथा त्रिंशत्समं पाशं बुधः कुर्यात् सुवर्तितम्

250.004

कर्तव्यं शिक्षकैस्तस्य स्थानं कक्षासु वै तदा ।अप्_250.004अब्।
वामहस्तेन सङ्गृह्य दक्षिणेनोद्धरेत्ततः

250.005

कुण्डलस्याकृतिं कृत्वा भ्राम्यकं मस्तकोपरि ।अप्_250.005अब्।
:प् 402
क्षिपेत् तूर्णमये तूर्णं पुरुषे चर्मवेष्टिते(1)

250.006

वल्गिते च प्लुते चैव तथा प्रव्रजितेषु च ।अप्_250.006अब्।
समयोगविधिं कृत्वा(2) प्रयुञ्जीत सुशिक्षितम्

250.007

विजित्वा तु यथान्यायं ततो बन्धं समाचरेत् ।अप्_250.007अब्।
कट्याम्बद्ध्वा ततः खड्गं वामपार्श्वावलम्बितम्

250.008

दृढं विगृह्य वामेन निष्कर्षेद्दक्षिणेन तु ।अप्_250.008अब्।
षडङ्गुलपरीणाहं सप्तहस्तसमुच्छ्रितं

250.009

अयोमय्यः शलाकाश् च वर्माणि विविधानि च ।अप्_250.009अब्।
अर्धहस्ते समे चैव तिर्यगूर्ध्वगतं तथा

250.010

योजयेद्विधिना येन तथात्वङ्गदतः शृणु ।अप्_250.010अब्।
तूणचर्मावनद्धाङ्गं स्थापयित्वा नवं दृढं

250.011

करेणादाय लगूडं दक्षिणाङ्गुलकं नवं ।अप्_250.011अब्।
उद्यम्य घातयेद्यस्य नाशस्तेन शिशोर्दृढं

250.012

उभाभ्यामथ हस्ताभ्यां कुर्यात्तस्य निपातनं ।अप्_250.012अब्।
अक्लेशेन ततः कुर्वन् बधे सिद्धिः प्रकीर्तिता

250.013

वाहानां श्रमकरणं प्रचारार्थं पुरा तव

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc