अग्नि पुराण · अध्याय 25
:ए इत्य् आदिमहापुराणे आग्नेये अग्निकार्यादिकथनं नाम चतुर्विंशो
ऽध्यायः
:न्
1 वासुदेवार्चनं कृत्वा इति ख, चिह्नितपुस्तकपाठः
:प् 64
% छप्तेर् {25}
:श् अथ पञ्चविंशो ऽध्यायः
वासुदेवादिमन्त्रनिरूपणं
नारद उवाच
वासुदेवादिमन्त्राणां पूजानां लक्षणं वदे ।अप्_25.001अब्।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः
नमो भगवते चादौ अ आ अं अः स्ववीजकाः(1) ।अप्_25.002अब्।
ओङ्काराद्या नमोन्ताश् च नमो नारायणस्ततः
ओं तत् सत् ब्रह्मणे चैव ओं नमो विष्णवे नमः ।अप्_25.003अब्।
ओं क्षौं ओं नमो भगवते नरसिंहाय वै नमः
ओं भूर्नमो भगवते वराहाय नराधिपाः ।अप्_25.004अब्।
जवारुणहरिद्राभा नीलश्यामललोहिताः
मेघाग्निमधुपिङ्गाभा वल्लभा नव नायकाः ।अप्_25.005अब्।
अङ्गानि स्वरवीजानां स्वनामान्तैर् यथाक्रमम्
हृदयादीनि कल्पेत विभक्तैस्तन्त्रवेदिभिः ।अप्_25.006अब्।
व्यञ्जनादीनि वीजानि तेषां लक्षणमन्यथा
दीर्घस्वरैस्तु भिन्नानि नमोन्तान्तस्थितानि तु ।अप्_25.007अब्।
अङ्गानि ह्रस्वयुक्तानि उपाङ्गानीति वर्ण्यते
विभक्तनामवर्णान्तस्थितानि वीजमुत्तमं(2) ।अप्_25.008अब्।
दीर्घैर् ह्रस्वैश् च संयुक्तं साङ्गोपाङ्गंस्वरैः क्रमात्(3)
व्यञ्जनानां क्रमो ह्य् एष हृदयादिप्रकॢप्तये ।अप्_25.009अब्।
स्ववीजेन स्वनामान्तैर् विभक्तान्यङ्गनामभिः
:न्
1 द्वादशाक्षरवीजका इति ख, चिह्नितपुस्तकपाठः
2 स्थितवीजार्थमुत्तममिति ख, चिह्नितपुस्तकपाठः
3 दीर्घस्वरैश् च संयुक्तमङ्गोपाङ्गं स्वरैः क्रमादिति ख,
चिह्नितपुस्तकपाठः
4 स्वरवीजेषु नामान्तैर् विभक्तान्यङ्गनामभिरिति ङ,
चिह्नितपुस्तकपाठः
:प् 65
युक्तानि हृदयादीनि द्वादशान्तानि पञ्चतः(1) ।अप्_25.010अब्।
आरभ्य कल्पयित्वा तु जपेत् सिद्ध्यनुरूपतः
हृदयञ्च शिरश्चूडा कवचं नेत्रमस्त्रकं ।अप्_25.011अब्।
षडङ्गानि तु वीजानां मूलस्य द्वादशाङ्गकं
हृच्छिरश् च शिखा वर्म चास्त्रनेत्रान्तयोदरं ।अप्_25.012अब्।
प्रष्टबाहूरुजानूंश् च जङ्घा पादौ क्रमान्न्यसेत्
कं टं पं शं वैनतेयः खं ठं फं घंगदामनुः(2) ।अप्_25.013अब्।
गं डं बं सं पुष्ठिमन्तो घं ढं भं हं श्रियैनमः
वं शं मं क्षं(3) पाञ्चजन्यं छं तं पं(4)कौस्तुभाय च ।अप्_25.014अब्।
जं खं वं सुदर्शनाय श्रीवत्साय सं वं दं चंलं(5)
ओं धं वं वनमालायै महानन्ताय वै नमः(6) ।अप्_25.015अब्।
निर्वीजपदमन्त्राणां पदैर् अङ्गानि कल्पयेत्
जात्यन्तैर् नामसंयुक्तेर्हृदयादीनि पञ्चधा ।अप्_25.016अब्।
प्रणवं हृदयादीनि ततः प्रोक्तानि पञ्चधा
प्रणवं हृदयं पूर्वं परायेति शिरः शिखा ।अप्_25.017अब्।
नाम्नात्मना तु(7) कवचं अस्त्रं नामान्तकं भवेत्
:न्
1 द्वादशार्णानि यत्नत इति ङ, चिह्नितपुस्तकपाठः
2 महागदा इति ङ,चिह्नितपुस्तकपाठः
3 ठं णं मं क्षं इति ङ, चिह्नितपुस्तकपाठः
4 दं भं पमिति ख, चिह्नितपुस्तकपाठः
5 श्रीवत्साय च पञ्चममिति ङ, चिह्नितपुस्त्कपाठः श्रीवत्सो
वं चं दं ठं लं इति ग, चिह्नितपुस्तकपाठः
6 नमोनन्ताय वै नम इति ङ, चिह्नितपुस्तकपाठः
7 नाम्नामुना तु इति ख, ङ, चिह्नितपुस्त्कद्वयपाठः
:प् 66
ओं परास्त्रादिस्वनामात्मा(1) चतुर्थ्यन्तो नमोन्तकः ।अप्_25.018अब्।
एकव्यूहादिषड्विंशव्यूहात्तस्यात्मनो मनुः(2)
कनिष्टादिकराग्रेषु प्रकृतिं देहकेर्चयेत् ।अप्_25.019अब्।
पराय पुरुषात्मा स्यात् प्रकृत्यात्मा द्विरूपकः
ओं परयाम्न्यात्मने चैव वाय्वर्कौ च द्विरूपकः ।अप्_25.020अब्।
अग्निं त्रिमूर्तौ(3) विन्यस्य व्यापकं करदेहयोः
वाय्वर्कौ करशाखासु सव्येतरकरद्वये ।अप्_25.021अब्।
हृदि मूर्तो तनावेष त्रिव्यूहे तुर्यरूपके
ऋग्वेदं व्यापकं हस्ते अङ्गुलीषु यजुर्न्यसेत् ।अप्_25.022अब्।
तलद्वयेथर्वरूपं शिरोहृच्चरणान्तकः
आकाशं व्यापकं न्यस्य करे देहे तु पूर्ववत् ।अप्_25.023अब्।
अङ्गुलीषु च वाय्वादि शिरोहृद्गुह्यपादके
वायुर्ज्योतिर्जलं पृथ्वी पञ्चव्यूहः समीरितः ।अप्_25.024अब्।
मनः श्रोत्रन्त्वग्दृग्जिह्वा घ्राणं षड्व्यूह ईरितः
व्यापकं मानसं न्यस्य ततोङ्गुष्टादितः क्रमात् ।अप्_25.025अब्।
मूर्धास्यहृद्गुह्यपत्सु कथितः करुणात्मकः
आदिमूर्तिस्तु सर्वत्र व्यापको जीवसञ्ज्ञितः ।अप्_25.026अब्।
भूर्भुवः स्वर्महर्जनस्तपः स्त्यञ्च सप्तधा
करे देहे न्यसेदाद्यमङ्गुष्टादिक्रमेण तु ।अप्_25.027अब्।
तलसंस्थः सप्तमश् च(4) लोकेशो देहके क्रमात्
:न्
1 ओं परास्त्रादित्यनामात्मा इति घ, चिह्नितपुस्तकपाठः
2 एवं व्यूहादिषड्विंशं व्यूहात्तस्यात्मनो मनुरिति ख,
चिह्नितपुस्तकपाठः
3 अग्निं द्विमूर्तौ इति ख, चिह्नितपुस्त्कपाठः
4 तलस्थः सप्तमश् चैव इति ङ, चिह्नितपुस्तकपाठः
:प् 67
देहे शिरोललाटास्यहृद्गुह्याङ्ग्रिषु संस्थितः ।अप्_25.028अब्।
अग्निष्ठोमस्तथोक्थस्तु षोडशी वाजपेयकः
अतिरात्राप्तोर्यामञ्च(1) यज्ञात्मा सप्तरूपकः ।अप्_25.029अब्।
धीरहं मनः शब्दश् च स्पर्शरूपरसास्ततः(2)
गन्धो बुद्धिर्व्यापकं तु करे देहे न्यसेत् क्रमात् ।अप्_25.030अब्।
न्यसेदन्त्यै च(3) तलयोः के ललाटे मुखे हृदि
नाभौ गुह्ये च पादे च अष्टव्यूहः पुमान् स्मृतः(4) ।अप्_25.031अब्।
वीजो बुद्धिरहङ्कारो मनः शब्दो गुणोनिलः
रूपं रसो नवात्मायं जीव अङ्गुष्ठकद्वये ।अप्_25.032अब्।
तर्जन्यादिक्रमाच्छेषं यावद्वामप्रदेशिनीं
देहे शिरोललाटास्यहृन्नाभिगुह्यजानुषु ।अप्_25.033अब्।
पादयोश् च दशात्मायं इन्द्रो व्यापी समास्थितः
अङ्गुष्ठकद्वये वह्निस्तर्जन्यादौ परेषु च ।अप्_25.034अब्।
शिरोललाटवक्त्रेषु हृन्नाभिगुह्यजानुषु
पादयोरेकदशात्मा मनः श्रोत्रं त्वगेव च ।अप्_25.035अब्।
चक्षुर्जिह्वा तथा घ्राणं वाक्पाण्यङ्घ्रिश् च पायुकः
उपस्थं मानसो व्यापी श्रोत्रमङ्गुष्ठकद्वये ।अप्_25.036अब्।
तर्जन्यादिक्रमादष्टौ अतिरिक्तं तलद्वये
उत्तमाङ्गुलललाटास्यहृन्नाभावथ गुह्यके ।अप्_25.037अब्।
उरुयुग्मे तथा जङ्घे गुल्फपादेषु च क्रमात्
:न्
1 अतिरात्राप्तयामश् च इति ख, चिह्नितपुस्त्कपाठः
2 रसास् तथा इति ख, चिह्नितपुस्तकपाठः
3 न्यसेदन्ते च इति ख, चिह्नितपुस्तकपाठः । न्यसेदष्टौ च इति ङ,
चिह्नितपुस्तकपाठः
4 क्रमात् स्मृत इति ङ, चिह्नितपुस्तकपाट्ःअः
:प् 68
विष्णुर्मधुहरश् चैव त्रिविक्रमकवामनौ ।अप्_25.038अब्।
श्रीधरोथ हृषीकेशः पद्मनाभस्तथैव च
दामोदरः केशवश् च नारायणस्ततः परः ।अप्_25.039अब्।
माधवश्चाथ गोविन्दो विष्णुं वै व्यापकं न्यसेत्
अङ्गुष्ठादौ तले द्वौ च पादे जानुनि वै कटौ ।अप्_25.040अब्।
शिरःशिखरकट्याञ्च जानुपादादिषु न्यसेत्
द्वादशात्मा पञ्चविंशः षड्विंशव्यूहकस् तथा ।अप्_25.041अब्।
पुरुषो धीरहङ्कारो मनश्चित्तञ्च शब्दकः
तथा स्पर्शो रसो रूपं गन्धः श्रोत्रं त्वचस् तथा ।अप्_25.042अब्।
चक्षुर्जिह्वा नासिका च वाक्पाण्यङ्घ्रिश् च पायवः
उपस्थो भूर्जलन्तेजो वायुराकाशमेव च ।अप्_25.043अब्।
पुरुषं व्यापकं न्यस्य अङ्गुष्ठादौ दश न्यसेत्
शेषान् हस्ततले न्यस्य शिरस्यथ ललाटके ।अप्_25.044अब्।
मुखहृन्नाभिगुह्योरुजान्वङ्घ्रौ करणोद्गतौ
पादे जान्वोरुपस्थे च हृदये मूर्ध्नि च क्रमात् ।अप्_25.045अब्।
परश् च पुरुषात्मादौ षड्विंशे पूर्ववत्परं
सञ्चिन्त्य मण्डलैके तु प्रकृतिं पूजयेद्बुधः ।अप्_25.046अब्।
पूर्वयाम्याप्यसौम्येषु हृदयादीनि पूजयेत्
अस्त्रमग्न्यादिकोणेषु(1) वैनतेयादि पूर्ववत् ।अप्_25.047अब्।
दिक्पालांश् च विधिस्त्वन्यः(2) त्रिव्यूहेग्निश् च मध्यतः
पूर्वादिदिग्बलावसोराज्यादिभिरलङ्कृतः ।अप्_25.048अब्।
कर्णिकायां नाभसश् च मानसः कर्णिकास्थितः
:न्
1 अस्त्रमग्न्यादिपत्रेषु इति ख, ङ, चिह्नितपुस्तकद्वयपाठः
2 दिक्पालांश् च विधिस्तस्य इति ग, घ, चिह्नितपुस्तकपाठः
दिक्पालादौ विधिस्तुल्य इति ङ, चिह्नितपुस्तकपाठः
:प् 69
विश्वरूपं सर्वस्थित्यै(1) यजेद्राज्यजयाय च ।अप्_25.049अब्।
सर्वव्यूहैः समायुक्तमङ्गैर् अपि च पञ्चभिः
गरुडाद्यैस्तथेन्द्राद्यैः सर्वान् कामानवाप्नुयात् ।अप्_25.050अब्।
विश्वक्सेनं यजेन्नाम्ना वै वीजं व्योमसंस्थितं(2)
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0