अग्नि पुराण · अध्याय 26
:ए इत्य् आदिमहापुराणे आग्नेये मन्त्रप्रदर्शनं नाम पञ्चविंशो
ऽध्यायः
% छप्तेर् {26}
:श् अथ षड्विंशो ऽध्यायः
मुद्रालक्षणकथनं
नारद उवाच
मुद्राणां लक्षणं वक्ष्ये सान्निध्यादिप्रकारकं ।अप्_26.001अब्।
अञ्जलिः प्रथमा मुद्रा वन्दनी हृदयानुगा
ऊर्ध्वाङ्गुष्ठोवाममुष्टिर्दक्षिणाङ्गुष्ठबन्धनं ।अप्_26.002अब्।
सव्यस्य तस्य चाङ्गुष्ठो यस्य चोर्ध्वे प्रकीर्तितः(3)
तिस्रः साधरणा व्यूहे अथासाधरणा इमाः ।अप्_26.003अब्।
कनिष्ठादिविमोकेन अष्टो मुद्रा यथाक्रमं
अष्टानां पूर्ववीजानां क्रमशस्त्ववधारयेत् ।अप्_26.004अब्।
अङ्गुष्ठेन कनिष्टान्तं नमयित्वाङ्गुलित्रयं
ऊर्ध्वं कृत्वा सम्मुखञ्च वीजाय नवमाय वै ।अप्_26.005अब्।
वामहस्तमथोत्तानं कृत्वार्धं नामयेच्छनैः
:न्
1 सर्वसिद्ध्यै इति ख, ङ, चिह्नितपुस्तकद्वयपाठः
2 वैराजं नागसंयुतमिति ख, चिह्नितपुस्तकपाट्ःअः । यौ
वीजं चाङ्गसंयुतमिति ङ, चिह्नितपुस्तकपाठः
3 यः सव्येर्धे प्रकीर्तित इति ख, चिह्नितपुस्तकपाठः
:प् 70
वराहस्य स्मृता मुद्रा अङ्गनाञ्च क्रमादिमाः ।अप्_26.006अब्।
एकैकां मोचयेद्बद्ध्वा वाममुष्टो तथागुलीं
आकुञ्चयेत् पूर्वमुद्रां दक्षिणेप्येवमेव च ।अप्_26.007अब्।
ऊर्ध्वाङ्गुष्ठो वाममुष्ठिर्मुद्रासिद्धिस्ततो भवेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0