अग्नि पुराण · अध्याय 24
:ए इत्य् आदिमहापुराणे आग्नेये आदिमूर्त्यादिपूजाविधिर्नाम
त्रयोविंशो ऽध्यायः
% छप्तेर् {24}
:श् अथ चतुर्विंशो ऽध्यायः
कुण्डनिर्माणादिविधिः
नारद उवाच
अग्निकार्यं प्रवक्ष्यामि येन स्यात्सर्वकामभाक् ।अप्_24.001अब्।
चतुरभ्यधिकं विंशमङ्गुलं चतुरस्रकं
सूत्रेण सूत्रयित्वा तु क्षेत्रं तावत् खनेत्समं ।अप्_24.002अब्।
खातस्य मेखला कार्या त्यक्त्वा चैवाङ्गुलद्वयं
सत्त्वादिसञ्ज्ञा(1) पूर्वाशा द्वादशाङ्गुलमुच्छ्रिता ।अप्_24.003अब्।
अष्टाङ्गुला द्व्यङुलाथ चतुरङ्गुलविस्तृता
योनिर्दशाङ्गुला रम्या षट्चतुर्द्व्यङ्गुलाग्रगा ।अप्_24.004अब्।
क्रमान्निम्ना तु कर्तव्या पश्चिमाशाव्यवस्थिता
अश्वत्थपत्रसदृशी किञ्चित् कुण्डे निवेशिता ।अप्_24.005अब्।
तुर्याङ्गुलायता नालं पञ्चदशाङ्गुलायतं
मूलन्तु त्र्यङ्गुलं(2) योन्या अग्रं तस्याः षडङ्गुलं ।अप्_24.006अब्।
लक्षणञ्चैकहस्तस्य द्विगुणं द्विकरादिषु
एकत्रिमेखलं कुण्डं वर्तुलादि वदाम्यहं ।अप्_24.007अब्।
:न्
1 सद्मादिसञ्ज्ञा इति ख, चिह्नितपुस्तकपाठः
2 मलन्तु द्व्यङ्गुलमिति ग,चिह्नितपुस्तकपाठः
:प् 59
कुण्डार्धे तु स्थितं सूत्रं कोणे यदतिरिच्यते
तदर्धं दिशि संस्थाप्य भ्रामितं वर्तुलं भवेत् ।अप्_24.008अब्।
कुण्डार्धं कोणभागार्धं दिशिश्चोत्तरतो वहिः
पूर्वपश्चिमतो यत्नाल्लाञ्छयित्वा तु मध्यतः ।अप्_24.009अब्।
संस्थाप्य भ्रामितं कुण्डमर्धचन्द्रं भवेत् शुभं
पद्माकारे दलानि स्युर्मेखलानान्तु वर्तुले ।अप्_24.010अब्।
बाहुदण्डप्रमाणन्तु होमार्थं कारयेत् स्रुचं
सप्तपञ्चाङ्गुलं वापि चतुरस्रन्तु कारयेत् ।अप्_24.011अब्।
त्रिभागेन भवेद्गर्तं मध्ये वृत्तं सुशोभनम्
तिर्यगूर्ध्वं समं खाताद्वहिरर्धन्तु शोधयेत् ।अप्_24.012अब्।
अङ्गुलस्य चतुर्थांशं शेषार्धार्धं तथान्ततः
खातस्य मेखलां रम्यां शेषार्धेन तु कारयेत् ।अप्_24.013अब्।
कण्ठं त्रिभागविस्तारं अङ्गुष्ठकसमायतं
सार्धमङ्गुष्ठकं वा स्यात्तदग्रे तु मुखं भवेत् ।अप्_24.014अब्।
चतुरङ्गुलविस्तारं पञ्चाङ्गुलमथापि वा
त्रिकं द्व्यङ्गुलकं तत् स्यान्मध्यन्तस्य सुशोभनम् ।अप्_24.015अब्।
आयामस्तत्समस्तस्य मध्यनिम्नः सुशोभनः
शुषिरं कण्ठदेशे स्याद्विशेद् यावत् कनीयसी ।अप्_24.016अब्।
शेषकुण्डन्तु कर्तव्यं यथारुचि विचित्रितं
स्रुवन्तु हस्तमात्रं स्याद्दण्डकेन समन्वितं (1) ।अप्_24.017अब्।
वटुकं द्व्यङ्गुलं(2) वृत्तं कर्तव्यन्तु सुशोभनं
:न्
1 कुण्डकेन समन्वितमिति ख, चिह्नितपुस्तकपाठः
2 कण्ठकं द्व्यङ्गुलमिति ख, चिह्नितपुस्तकपाठः चन्द्राभं
द्व्यङ्गुलमिति ङ, चिह्नितपुस्तकपाठः
:प् 60
गोपदन्तु यथा मग्नमल्पपङ्के तथा भवेत् ।अप्_24.018अब्।
उपलिप्य लिखेद्रेखामङ्गुलां वज्रनासिकां(1)
सौम्याग्रा प्रथमा तस्यां रेखे पूर्वमुखे तयोः ।अप्_24.019अब्।
मध्ये तिस्रस् तथा कुर्याद्दक्षिणादिक्रमेण तु
एवमुल्लिख्य चाभ्युक्ष्य प्रणवेन तु मन्त्रवित् ।अप्_24.020अब्।
विष्टरं कल्पयेत्तेन तस्मिन् शक्तिन्तु वैष्णवीं
अलं कृत्वा मूर्तिमतीं क्षिपेदग्निं हरिं स्मरन् ।अप्_24.021अब्।
प्रादेशमात्राः समिधो दत्वा परिसमुह्य तं
दर्भैस्त्रिधा परिस्तीर्य पूर्वादौ तत्र पात्रकं ।अप्_24.022अब्।
आसादयेदिध्मवह्नी भूमौ च श्रुक्श्रुवद्वयं
आज्यस्थाली चरुस्थाली कुशाज्यञ्च प्रणीतया ।अप्_24.023अब्।
प्रोक्षयित्वा प्रोक्षणीञ्च गृहीत्वापूर्य वारिणा
पवित्रान्तर्हिते हस्ते परिश्राव्य च तज्जलं ।अप्_24.024अब्।
प्राङ्नीत्वा प्रोक्षणीपात्रण् ज्योतिरग्रे निधाय च
तदद्भिस्त्रिश् च सम्प्रोक्ष्य इद्ध्मं विन्यस्य चाग्रतः ।अप्_24.025अब्।
प्रणीतायां सुपुष्पायां विष्णुं ध्यात्वोत्तरेण च
आज्यस्थालीमथाज्येन सम्पूर्याग्रे निधाय च ।अप्_24.026अब्।
सम्प्लवोत्पवनाभ्यान्तु कुर्यादाज्यस्य संस्कृतिं
अखण्डिताग्रौ निर्गर्भौ कुशौ प्रादेशमात्रकौ ।अप्_24.027अब्।
ताभ्यामुत्तानपाणिभ्यामङ्गुष्ठानामिकेन तु
आज्यं तयोस्तु सङ्गृह्य द्विर्नीत्वा त्रिरवाङ्क्षिपेत्(2) ।अप्_24.028अब्।
स्रुक्स्रुवौ चापि सङ्गृह्य ताभ्यां प्रक्षिप्य वारिण
:न्
1 रुद्रनासिकामिति ख, चिह्नितपुस्तकपाठः वक्त्रनासिकामिति ङ,
चिह्नितपुस्तकपाठः
2 आद्यं तयोस्तु सम्पूज्य त्रीन् वारानूर्ध्वमुत्क्षिपेदिति ङ,
चिह्नितपुस्तकपाठः
:प् 61
प्रतप्य दर्भैः सम्मृज्य पुनः प्रक्ष्याल्य चैव हि ।अप्_24.029अब्।
निष्टप्य स्थापयित्वा(1) तु प्रणवेनैव साधकः
प्रणवादिनमोन्तेन पश्चाद्धोमं समाचरेत् ।अप्_24.030अब्।
गर्भाधानादिकर्माणि यावदंशव्यवस्थया
नामान्तं व्रतबन्धान्तं समावर्तावसानकम् ।अप्_24.031अब्।
अधिकारावसानं वा कर्यादङ्गानुसारतः
प्रणवेनोपचारन्तु कुर्यात्सर्वत्र साधकः ।अप्_24.032अब्।
अङ्गैर् होमस्तु कर्तव्यो यथावित्तानुसारतः
गर्भादानन्तु प्रथमं ततः पुंसवनं स्मृतम् ।अप्_24.033अब्।
सीमन्तोन्नयनं जातकर्म नामान्नप्राशनम्
चूडकृतिं व्रतबन्धं वेदव्रतान्यशेषतः(2) ।अप्_24.034अब्।
समावर्तनं पत्न्या च योगश्चाथाधिकारकः(3)
हृदादिक्रमतो ध्यात्वा एकैकं कर्म पूज्य च ।अप्_24.035अब्।
अष्टावष्टौ तु जुहुयात् प्रतिकर्माहुतीः पुनः
पूर्णाहुतिं ततो दद्यात् श्रुचा मूलेन साधकः ।अप्_24.036अब्।
वौषडन्तेन मन्त्रेण प्लुतं सुस्वरमुच्चरन्
विष्णोर्वह्निन्तु संस्कृत्य श्रपयेद्वैष्णवञ्चरुम् ।अप्_24.037अब्।
आराध्य स्थिण्डिले विष्णुं मन्त्रान् संस्मृत्य संश्रपेत् (4)
आसनादिक्रमेणैव साङ्गावरणमुत्तमम् ।अप्_24.038अब्।
गन्धपुष्पैः समभ्यर्च्य ध्याता देवं सुरोत्तमम्
आधायेध्ममथाघारावाज्यावग्नीशसंस्थितौ ।अप्_24.039अब्।
:न्
1 नियुज्य स्थापयित्वेति ख, चिह्नितपुस्तकपाठः
2 देवव्रतान्यशेषत इति ख, चिह्नितपुस्तकपाठः
3 योगश्चाथाधिकारत इति ख, चिह्नितपुस्तकपाठः
4 मन्त्रान् सन्तर्प्य संत्रपेत् इति ख, घ, चिह्नितपुस्तकद्वयपाठः
:प् 62
वायव्यनैरृताशादिप्रवृत्तौ तु यथाक्रमम्
आज्यभागौ ततो हुत्वा चक्षुषी दक्षिणोत्तरे ।अप्_24.040अब्।
मध्येथ जुहुयात्सर्वमन्त्रानर्चाक्रमेण तु
आज्येन तर्पयेन्मूर्तेर्दशांशेनाङ्गहोमकम् ।अप्_24.041अब्।
शतं सहस्रं वाज्याद्यैः समिद्भिर्वा तिलैः सह(1)
समाप्यार्चान्तु होमान्तां शुचीन् शिष्यानुपोषितान् ।अप्_24.042अब्।
आहूयाग्रे निवेश्याथ ह्य् अस्त्रेण प्रोक्षयेत् पशून्
शिष्यानात्मनि संयोज्य अविद्याकर्मबन्धनैः ।अप्_24.043अब्।
लिङ्गानुवृत्तश् चैतन्यं सह लिङ्गेन पाशितम्(2)
ध्यानमार्गेन सम्प्रोक्ष्य वायुवीजेन शोधयेत् ।अप्_24.044अब्।
ततो दहनवीजेन सृष्टिं ब्रह्माण्डसञ्ज्ञिकाम्
निर्दग्धां सकलां ध्यायेद्भस्मकूटनिभस्थिताम् ।अप्_24.045अब्।
प्लावयेद्वारिणा भस्म संसारं वार्मयंस्मरेत्(3)अप्_24.045च्द्।
तत्र शक्तिं न्यसेत् पश्चात् पार्थिवीं बीजसञ्ज्ञिकाम् ।अप्_24.046अब्।
तन्मात्राभिः समस्ताभिः संवृतं पार्थिवं शुभम्
अण्डन्तदुद्भवन्ध्यायेत्तदाधारन्तदात्मकम् ।अप्_24.047अब्।
तन्मध्ये चिन्तयेन्मूर्तिं पौरुषीं प्रणवात्मिकाम्
लिङ्गं सङ्क्रामयेत् पश्चादात्मस्थं पूर्वसंस्कृतम् (4) ।अप्_24.048अब्।
विभक्तेन्द्रियसंस्थानं क्रमाद् वृद्धं विचिन्तयेत्
ततोण्डमब्दमेकं तु स्थित्वा द्विशकलीकृतम् ।अप्_24.049अब्।
:न्
1 समिद्भिर्वा तिलैस् तथा इति घ, चिह्नितपुस्तकपाठः
2 सह लिङ्गेन दर्शितमिति ङ, चिह्नितपुस्तकपाठः
3 संसारञ्चाक्षयं स्मरेदिति ख, चिह्नितपुस्तकपाठः
4 स्थण्डिले पूर्वसंस्कृतमिति ख, चिह्नितपुस्तकपाठः
:प् 63
द्यावापृथिव्यौ शकले तयोर्मध्ये प्रजापतिम्
जातं ध्यात्वा पुनः प्रोक्ष्य प्रणवेन तु संश्रितम् ।अप्_24.050अब्।
मन्त्रात्मकतनुं कृत्वा यथान्यासं पुरोदितम्
विष्णुर्हस्तं ततो मूर्ध्नि दत्वा ध्यात्वा तु वैष्णवम् ।अप्_24.051अब्।
एवमेकं बहून् वापि जनित्वा ध्यानयोगतः
करौ सङ्गृह्य मूलेन नेत्रे बद्ध्वा तु वाससा ।अप्_24.052अब्।
नेत्रमन्त्रेण मन्त्री तान् सदनेनाहतेन तु
कृतपूजो गुरुः सम्यक् देवदेवस्य तत्त्ववान् ।अप्_24.053अब्।
शिष्यान् पुष्पाञ्जलिभृतः प्राङ्मुखानुपवेशयेत्
अर्चयेयुश् च तेप्येवम्प्रसूता गुरुणा हरिम् ।अप्_24.054अब्।
क्षिप्त्वा पुष्पाञ्जलिं तत्र पुष्पादिभिरनन्तरम्
अमन्त्रमर्चनं कृत्वा(1) गुरोः पादार्चनन्ततः ।अप्_24.055अब्।
विधाय दक्षिणां दद्यात् सर्वस्वं चार्धमेव वा
गुरुः संशिक्षयेच्छिष्यान् तैः पूज्यो नामभिर्हरिः ।अप्_24.056अब्।
विश्वक्सेनं यजेदीशं शङ्खचक्रगदाधरम्
तज्जपन्तञ्च तर्जन्या मण्डलस्थं विसर्जयेत् ॥57
विष्णुनिर्माल्यमखिलं विष्वक्सेनाय चार्पयेत् ।अप्_24.058अब्।
प्रणीताभिस् तथात्मानमभिषिच्य च कुण्डगं
वह्निमात्मनि संयोज्य विष्वक्सेनं विसर्जयेत् ।अप्_24.059अब्।
बुभुक्षुः सर्वमाप्नोति मुमुक्षुर् लीयते हरौ
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0