भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 249

249.001

:ए इत्य् आगेन्ये महापुराणे धनुर्वेदो नाम
अष्टचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {249}
:श् अथोनपञ्चाशदधिकद्विशततमो ऽध्यायः
धनुर्वेदकथनं
अग्निर् उवाच
पूर्णायतं द्विजः कृत्वा ततो मांसैर् गदायुधान् ।अप्_249.001अब्।
सुनिर्धौतं धनुः कृत्वा यज्ञभूमौ विधापयेत्

249.002

ततो वाणं समागृह्य दंशितः सुसमाहितः ।अप्_249.002अब्।
तूर्णमासाद्य बध्नीयादृढां कक्षाञ्च दक्षिणाम्

249.003

विलक्ष्यमपि तद्वाणं तत्र चैव सुसंस्थितं ।अप्_249.003अब्।
ततः समुद्धरेद्वाणं तूणाद्दक्षिणपाणिना

249.004

तेनैव सहितं मध्ये शरं सङ्गृह्य धारयेत् ।अप्_249.004अब्।
वामहस्तेन वै कक्षां धनुस्तस्मात्समुद्धरेत्

249.005

अविषण्णमतिर्भूत्वा गुणे पुङ्खं निवेशयेत् ।अप्_249.005अब्।
सम्पीड्य सिंहकर्णेन पुङ्खेनापि समे दृढं

249.006

:प् 400
वामकर्णोपविष्तञ्च फलं वामस्य धारयेत् ।अप्_249.006अब्।
वर्णान् मध्यमया तत्र वामाङ्गुल्या च धारयेत्

249.007

मनो लक्ष्यगतं कृत्वा मुष्टिना च विधानवित् ।अप्_249.007अब्।
दक्षिणे गात्रभागे तु कृत्वा वर्णं विमोक्षयेत्

249.008

ललाटपुटसंस्थानं दण्डं लक्ष्ये निवेशयेत् ।अप्_249.008अब्।
आकृष्य ताडयेत्तत्र चन्द्रकं षोडशाङ्गुलम्

249.009

मुक्त्वा वाणं ततः पश्चादुल्काशिक्षस्तदा तया ।अप्_249.009अब्।
निगृह्णीयान् मध्यमया ततो ऽङ्गुल्या पुनः पुनः

249.010

अक्षिलक्ष्यं क्षिपेत्तूणाच्चतुरस्रञ्च दक्षिणम् ।अप्_249.010अब्।
चतुरस्रगतं वेध्यमभ्यसेच्चादितः स्थितः

249.011

तस्मादनन्तरं तीक्ष्णं परावृत्तं गतञ्च यत् ।अप्_249.011अब्।
निम्नमुन्नतवेधञ्च अभ्यसेत् क्षिप्रकन्ततः

249.012

वेध्यस्थानेष्वथैतेषु सत्त्वस्य पुटकाद्धनुः ।अप्_249.012अब्।
हस्तावापशतैश्चित्रैस्तर्जयेद्दुस्तरैर् अपि

249.013

तस्मिन्(1) वेध्यगते विप्र द्वे वेध्ये दृढसञ्ज्ञके ।अप्_249.013अब्।
द्वे वेध्ये दुष्करे वेध्ये द्वे तथा चित्रदुष्करे

249.014

न तु निम्नञ्च(2) तीक्ष्णञ्च दृढवेध्ये प्रकीर्तिते ।अप्_249.014अब्।
निम्नं दुष्करमुद्दिष्टं वेध्यमूर्ध्वगतञ्च यत्

249.015

मस्तकायनमध्ये तु चित्रदुष्करसञ्ज्ञके ।अप्_249.015अब्।
एवं वेध्यगणङ्कृत्वा दक्षिणेनेतरेण च

249.016

आरोहेत् प्रथमं वीरो जितलक्षस्ततो नरः ।अप्_249.016अब्।
एष एव विधिः प्रोक्तस्तत्र दृष्टः प्रयोक्तृभिः

249.017

:न्
1 अस्मिन्निति ख.. , छ.. , ज.. च
2 नम्रञ्चेति घ.. , ञ.. च
:प् 401
अधिकं भ्रमणं तस्य तस्माद्वेध्यात् प्रकीर्तितम् ।अप्_249.017अब्।
लक्ष्यं स योजयेत्तत्र पत्रिपत्रगतं दृढम्

249.018

भ्रान्तं प्रचलितञ्चैव स्थिरं यच्च भवेदिति ।अप्_249.018अब्।
समन्तात्ताडयेद् भिन्द्याच्छेदयेद्व्यथयेदपि

249.019

कर्मयोगविधानज्ञो ज्ञात्वैवं विधिमाचरेत् ।अप्_249.019अब्।
मनसा चक्षुषा दृष्ट्या योगशिक्षुर्यमं जयेत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc