अग्नि पुराण · अध्याय 248
:ए इत्य् आग्नेये महापुराणे पुष्पादिपूजाफलं नाम
सप्तचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {248}
:श् अथाष्टचत्वारिंशदधिकद्विशततमो ऽध्यायः
धनुर्वेदः
अग्निर् उवाच
चतुष्पादं धनुर्वेदं वेदे पञ्चविधं द्विज ।अप्_248.001अब्।
रथनागाश्वपत्तीनां योधांश्चाश्रित्य कीर्तितं
यन्मुक्तं पाणिमुक्तं मुक्तसन्धारितं तथा ।अप्_248.002अब्।
अमुक्तं बाहुयुद्धञ्च पञ्चधा त्यत् प्रकीर्तितं
तत्र शस्त्रास्त्रसम्पत्त्या द्विविधं परिकीर्तितं ।अप्_248.003अब्।
:प् 396
ऋजुमायाविभेदेन भूयो द्विविधमुच्यते
क्षेपिणी चापयन्त्राद्यैर् यन्त्रमुक्तं प्रकीर्तितं ।अप्_248.004अब्।
शिलातोमरयन्त्राद्यं पाणिमुक्तं प्रकीर्तितं
मुक्तसन्धारितं ज्ञेयं प्रासाद्यमपि यद्भवेत् ।अप्_248.005अब्।
खड्गादिकममुक्तञ्च नियुद्धं विगतायुधं
कुर्याद्योग्यानि प्रात्राणि योद्धुमिच्छुर्जितश्रमः ।अप्_248.006अब्।
धनुःश्रेष्ठानि युद्धानि प्रासमध्यानि तानि च
तानि खड्गजघन्यानि बाहुप्रत्यवराणि च ।अप्_248.007अब्।
धनुर्वेदे गुरुर्विप्रः प्रोक्तो वर्णद्वयस्य च
युद्धाधिकारः शूद्रस्य स्वयं व्यापादि शिक्षया ।अप्_248.008अब्।
देशस्थैः शङ्करै राज्ञः कार्या युद्धे सहायता
अङ्गुष्ठगुल्फपाण्यङ्घ्यः श्लिष्टाः स्युः सहिता यदि ।अप्_248.009अब्।
दृष्टं समपदं स्थानमेतल्लक्षणतस् तथा
वाह्याङ्गुलिस्थितौ पादौ स्तब्धजानुबलावुभौ ।अप्_248.010ब
त्रिवितस्त्यन्तरास्थानमेतद्वैशाखमुच्यते
हंसपङ्क्त्याकृतिसमे दृश्येते यत्र जानुनी ।अप्_248.011अब्।
चतुर्वितस्तिविच्छिन्ने तदेतन्मण्डलं स्मृतं
हलाकृतिमयं यच्च स्तब्धजानूरुदक्षिणं ।अप्_248.012अब्।
वितस्त्यः पञ्च विस्तारे तदालीढं प्रकीर्तितं
एतदेव विपर्यस्तं प्रत्यालीढमिति स्मृतं(1) ।अप्_248.013अब्।
तिर्यग्भूतो भवेद्वामो दक्षिणो ऽपि भवेदृजुः
गुल्फौ पार्ष्णिग्रहौ चैव स्थितौ पञ्चाङ्गुलान्तरौ ।अप्_248.014अब्।
:न्
1 प्रत्यालीढं प्रकीर्तितमिति ज..
:प् 397
स्थानं जातं भवेदेतद् द्वादशाङ्गुलमायतं
ऋजुजानुर्भवेद्वामो दक्षिणः सुप्रसारितः ।अप्_248.015अब्।
अथवा दक्षिणञ्जानु कुब्जं भवति निश् चलं
दण्डायतो भवेदेष चरणः सह जानुना ।अप्_248.016अब्।
एवं विकटमुद्दिष्टं द्विहस्तान्तरमायतं
जानुनी द्विगुणे स्यातामुत्तानौ चरणावुभौ ।अप्_248.017अब्।
अनेन विधियोगेन सम्पुटं परिकीर्तितं
किञ्चिद्विवर्तितौ पादौ समदण्डायतौ स्थिरौ ।अप्_248.018अब्।
दृष्टमेव यथान्यायं षोडशाङ्गुलमायतं
स्वस्तिकेनात्र कुर्वीत प्रणामं प्रथमं द्विज ।अप्_248.019अब्।
कामुकं गृह्य वामेन वाणं दक्षिणकेन तु
वैशाखे यदि वा जाते स्थितौ वाप्यथवायतौ ।अप्_248.020अब्।
गुणान्तन्तु ततः कृत्वा कार्मुके प्रियकार्मुकः
अधःकटिन्तु धनुषः फलदेशन्तु पत्रिणः ।अप्_248.021अब्।
धरण्यां स्थापयित्वा तु तोलयित्वा तथैव च
भुजाभ्यामत्र कुञ्जाभ्यां प्रकोष्ठाभ्यां शुभव्रत ।अप्_248.022अब्।
यस्य वाणं धनुः श्रेष्ठं पुङ्गदेशे च पत्रिणः
विन्यासो धनुश् चैव द्वादशाङ्गुलमन्तरं ।अप्_248.023अब्।
ज्यया विशिष्टः कर्तव्यो नातिहीनो न चाधिकः
निवेश्य कार्मुकं नभ्यां नितम्बे शरसङ्करं ।अप्_248.024अब्।
उत्क्षिपेदुत्थितं हस्तमन्तरेणाक्षिकर्णयोः
पूर्वेण मुष्टिना ग्राह्यस्तनाग्रे दक्षिणे शरः ।अप्_248.025अब्।
हरणन्तु ततः कृत्वा शीघ्रं पूर्वं प्रसारयेत्
:प् 398
नाभ्यन्तरा नैव वाह्या नोर्ध्वका नाधरा तथा ।अप्_248.026अब्।
न च कुब्जा न चोत्ताना न चला नातिवेष्टिता
समा स्थैर्यगुणोपेता पूर्वदण्डमिव स्थिता ।अप्_248.027अब्।
छादयित्वा ततो लक्ष्यं पूर्वेणानेन मुष्टिना
उरसा तूत्थितो यन्ता त्रिकोणविनतस्थितः ।अप्_248.028अब्।
स्रस्तांशे निश् चलग्रीवो मयूराञ्चितमस्तकः
ललाटनासावक्त्रांसाः कुर्युरश्वसमम्भवेत् ।अप्_248.029अब्।
अन्तरं त्र्यङ्गुलं ज्ञेयं चिवुकस्यांसकस्य च
प्रथमन्त्र्यङ्गुलं ज्ञेयं द्वितीये द्व्यङ्गुलं स्मृतं ।अप्_248.030अब्।
तृतीये ऽङ्गुलमुदिष्टमायतञ्चिवुकांसयोः
गृहीत्वा सायकं पुङ्खात्तर्जन्याङ्गुष्ठकेन तु ।अप्_248.031अब्।
अनामया पुनर्गृह्य तथा मध्यमयापि च
तावदाकर्षयेद्वेगाद्यावद्वाणः सुपूरितः ।अप्_248.032अब्।
एवं विधमुपक्रम्य मोक्तव्यं विधिवत् खगं
दृष्टिमुष्टिहतं लक्ष्यं भिन्द्याद्वाणेन सुव्रतः ।अप्_248.033अब्।
मुक्त्वा तु(1) पश्चिमं हस्तं क्षिपेद्वेगेन पृष्ठतः
एतदुच्छेदमिच्छन्ति ज्ञातव्यं हि त्वया द्विज ।अप्_248.034अब्।
कूर्परन्तदधः कार्यमाकृष्य तु धनुष्मता
ऊर्ध्वं विमुक्तके कार्ये लक्षश्लिष्टन्तु मध्यमं ।अप्_248.035अब्।
श्रेष्ठं प्रकृष्टं विज्ञेयंधनुःशास्त्रविशारदैः
ज्येष्ठस्तु सायको ज्ञेयो भवेद्द्वादशमुष्टयः ।अप्_248.036अब्।
:न्
1 त्यक्त्वा इति ज..
:प् 399
एकादश तथा कनीयान्दशमुष्टयः
चतुर्हस्तं धनुः श्रेष्ठं त्रयः सार्धन्तु मध्यमं ।अप्_248.037अब्।
कनीयस्तु त्रयः प्रोक्तं नित्यमेव पदातिनः
अश्वे रथे गजे श्रेष्ठे तदेव परिकीर्तितं ॥38
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0