भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 247

247.001

:ए इत्य् आग्नेये महापुराणे वास्त्वादिर्नाम
षट्तचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {247}
:श् अथ सप्तचत्वारिंशदधिकद्विशततमो ऽध्यायः
पुष्पादिपूजाफलं
अग्निर् उवाच
पुष्पैस्तु पूजनाद्विष्णुः सर्वकार्येषु सिद्धिदः ।अप्_247.001अब्।
मालती मल्लिका यूथी पाटला करवीरकं

247.002

पावान्तिरतिमुक्तश् च(2) कर्णिकारः कुराण्टकः ।अप्_247.002अब्।
:न्
1 सेकः उच्यते इति ख..
2 पावन्तिकातिमुक्तश्चेति ग..
:प् 395
कुब्जकस्तगरो नीपो वाणो वर्वरमल्लिका

247.003

अशोकस्तिलकः कुन्दः पूजायै स्यात्तमालजं ।अप्_247.003अब्।
बिल्वपत्रं शमीपत्रं पत्रं भृङ्गरजस्य तु

247.004

तुलसीकालतुलसीपत्रं वासकमर्चने ।अप्_247.004अब्।
केतकीपत्रपुष्पं च पद्मं रक्तोत्पलादिकं

247.005

नार्कन्नोन्मत्तकङ्काञ्ची पूजने गिरिमल्लिका ।अप्_247.005अब्।
कौटजं शाल्मलीपुष्पं कण्टकारीभवन्नहि

247.006

घृतप्रस्थेन विष्णोश् च स्नानङ्गोकोटिसत्फलं ।अप्_247.006अब्।
आढकेन तु राजा स्यात् घृतक्षीरैर् दिवं व्रजेत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc