भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 246

246.001

:ए इत्य् आग्नेये महापुराणे रत्नपरीक्षा नाम
पञ्चचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {246}
:श् अथ षट्चत्वारिंशदधिकद्विशततमो ऽध्यायः
वास्तुलक्षणं
अग्निर् उवाच
वास्तुलक्ष्म प्रवक्ष्यामि विप्रादीनां च भूरिह ।अप्_246.001अब्।
श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमम्

246.002

घृतरक्तान्नमद्यानां गन्धाढ्या वसतश् च भूः ।अप्_246.002अब्।
मधुरा च कषाया च अम्लाद्युपरसा क्रमात्

246.003

कुशैः शरैस् तथाकाशैर् दूर्वाभिर्या च संश्रिता ।अप्_246.003अब्।
प्रार्च्य विप्रांश् च शिःशल्पां खातपूर्वन्तु कल्पयेत्

246.004

चतुःषष्टिपदं कृत्वा मध्ये ब्रह्मा चतुष्पदः ।अप्_246.004अब्।
प्राक् तेषां वै गृहस्वामी कथितस्तु तथार्यमा

246.005

दक्षिणेन विवस्वांश् च मित्रः पश्चिमतस् तथा ।अप्_246.005अब्।
उदङ्महीधरश् चैव आपवत्सौ च वह्निगे

246.006

सावित्रश् चैव सविता जयेन्द्रौ नैरृते ऽम्बुधौ ।अप्_246.006अब्।
:न्
1 भ्राजते स्थितमिति छ.. , ज.. च
2 भवेदिति ग.. , घ.. च
:प् 392
रुद्रव्याधी च वायव्ये पूर्वादौ कोणगाद्वहिः

246.007

महेन्द्रश् च रविः सत्यो भृशः(1) पूर्वे ऽथ दक्षिणे ।अप्_246.007अब्।
गृहक्षतो ऽर्यमधृती गन्धर्वाश्चाथ वारुणे

246.008

पुष्पदन्तो ऽसुराश् चैव वरुणो यक्ष एव च ।अप्_246.008अब्।
सौम्ये भल्लाटसोमौ च अदितिर्धनदस् तथा

246.009

नागः करग्रहश् चैशे अष्टौ दिशि दिशि स्मृताः ।अप्_246.009अब्।
आद्यन्तौ तु तयोर्देवौ प्रोक्तावत्र गृहेश्वरौ

246.010

पर्जन्यः प्रथमो देवो द्वितीयश् च करग्रहः ।अप्_246.010अब्।
महेन्द्ररविसत्याश् च भृशो ऽथ गगनन्तथा

246.011

पवनः पूर्वतश् चैव अन्तरीक्षधनेश्वरौ ।अप्_246.011अब्।
आग्नेये चाथ नैरृत्ये मृगसुग्रीवकौ सुरौ

246.012

रोगो मुख्यश् च वायव्ये दक्षिणे पुष्पवित्तदौ ।अप्_246.012अब्।
गृहक्षतो यमभृशौ गन्धर्वो नागपैतृकः

246.013

आप्ये दौवारिकसुग्रीवौ पुष्पदन्तो ऽसुरो जलं ।अप्_246.013अब्।
यक्ष्मा रोगश् च शोषश् च उत्तरे नागराजकः

246.014

मुख्यो भल्लाटशशिनौ अदितिश् च कुवेरकः ।अप्_246.014अब्।
नागो हुताशः श्रेष्ठो वै(2) शक्रसूर्यौ च पूर्वतः

246.015

दक्षे गृहक्षतः पुष्प आप्ये सुग्रीव उत्तमः ।अप्_246.015अब्।
पुष्पदन्तो ह्य् उदग्द्वारि भल्लाटः पुष्पदन्तकः

246.016

शिलेष्टकादिविन्यासं मन्त्रैः प्रार्च्य सुरांश् चरेत् ।अप्_246.016अब्।
नन्दे नन्दय वासिष्ठे वसुभिः प्रजया सह

246.017

:न्
1 भृगुरिति ज..
2 नागो हुताशनः श्रेष्ठ इति ख.. , छ.. च
:प् 393
जये भार्गववदायादे प्रजानाञ्जयमाहवे(1) ।अप्_246.017अब्।
पूर्णे ऽङ्गिरसदायादे पूर्णकामं कुरुध्व मां

246.018

भद्रे काश्यपदायादे कुरु भद्रां मतिं मम ।अप्_246.018अब्।
सर्ववीजसमायुक्ते सर्वरत्नौषधैर् वृते

246.019

रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह ।अप्_246.019अब्।
प्रजापतिसुते देवि चतुरस्रे महीमये

246.020

सुभगे सुव्रते भद्रे गृहे कश्यपि रम्यतां ।अप्_246.020अब्।
पूजिते परमाचार्यैर् गन्धमाल्यैर् अलङ्कृते(2)

246.021

भवभूतिकरे देवि गृहे भार्गवि रम्यतां ।अप्_246.021अब्।
अव्यङ्ग्ये चाक्षते पूर्णे मुनेरङ्गिरसः सुते

246.022

इष्टके त्वं प्रयच्छेष्टं प्रतिष्टाङ्कारयम्यहं ।अप्_246.022अब्।
देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे

246.023

मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव ।अप्_246.023अब्।
गृहप्रवेशे ऽपि तथा शिलान्यासं समाचरेत्

246.024

उत्तरेण शुभः प्लक्षो वटः प्राक् स्याद् गृहादितः ।अप्_246.024अब्।
उदुम्वरश् च याम्येन पश्चिमे ऽश्वत्थ उत्तमः

246.025

वामभागे तथोद्यानं कुर्याद्वासं गृहे शुभं ।अप्_246.025अब्।
सायं प्रातस्तु घर्माप्तौ शीतकाले दिनान्तरे

246.026

वर्षारात्रे भुयः शोषे सेक्तव्या रोपितद्रुमाः ।अप्_246.026अब्।
विडङ्गघृटसंयुक्तान् सेचयेच्छीतवारिणा

246.027

फलनाशे कुलत्थैश् च माषैर् मुद्गैस्तिलैर् यवैः ।अप्_246.027अब्।
:न्
1 विप्राणां जयमावहेति ख..
2 गन्धमाल्यैर् अलङ्कृतैर् इति ग.. , छ.. च
:प् 394
घृतशीतपयःसेकः फलपुष्पाय दर्वदा

246.028

मत्स्याम्भसा तु सेकेन वृद्धिर्भवति शाखिनः ।अप्_246.028अब्।
आविकाजसकृच्चूर्णं यवचूर्णं तिलानि च

246.029

गोमांसमुदकञ्चेति सप्तरात्रं निधापयेत् ।अप्_246.029अब्।
उत्सेकं सर्ववृक्षाणां फलपुष्पादिवृद्धिदं

246.030

मत्स्योदकेन शीतेन आम्राणां सेक इष्यते(1) ।अप्_246.030अब्।
प्रशस्तं चाप्यशोकानां कामिनीपादताडनं

246.031

खर्जूरनारिकेलादेर्लवणाद्भिर्विवर्धनं ।अप्_246.031अब्।
विडङ्गमत्स्यमांसाद्भिः सर्वेषु दोहदं शुभं

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc